सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६४ कथासरित्सागरः । [ आदितस्तरङ्गः तावत्प्रबुद्धः स महाबुद्धिर्मुक्ताफलध्वजम् । तमपश्यन्विचित्यापि पश्यन्नग्निमुदचषम् विचिन्त्य तं हुतात्मानं वयस्यं विरहाकुलम् । अग्नौ तत्रैव तच्छोकात्सोऽप्यात्मानमपातयः तदृष्टा सापि दुःखार्ता पद्मावत्यत्रवीरसखीः। धिगहो हृदयं स्त्रीणां कठिनं कुलिशादपि पश्यन्स्या वैशसमिदं नोत्क्रान्तं यन्ममासुभिः । तत्कियच्चिरमात्मायमधन्यो धार्यते मया नास्ति मेऽद्यापि दुःखान्तो मद्पुण्यैर्मुनेरपि । वचस्तस्यान्यथा जातं तच्छेयो मरणं मम परपूरुषमध्ये तु प्रवेष्टमनलेऽत्र मे । न युक्तं तदनायासः पाश एव हि मे गतिः इत्युक्त्वा साग्रः शंभरुपेत्याशोकपाणेपाशं विधातुं लतया राजपुत्री प्रचक्रमे आशाप्रदशभिर्वाक्यैर्यावत्तां स सखीजनः बारयत्याययौ तावन्मुनिः सोऽत्र तपोधनः । मा पुत्रि साहसं न स्यादसत्यं तद्वचो मम। धीरा भवाधुनैवेह प्राप्तं पश्यसि तं प्रियम् त्वदीयेनैव तपसा तस्य शापक्षयोऽचिरात् । संवृत्तस्तनास्थेयं स्वतपस्येव ते कथम् । प्रत्यासन्ने विवाहे च का तवेयं विषादिता । प्रणिधानादवेत्याहमिदं सर्वमिहागतः इति तं व्याहरन्तं च दृष्वा मुनिमुपागतम् । प्रणम्य दोळारूढेच सात्पद्मावती क्षणम् अथ मर्यदेहदाहाद्वैद्याधरमात्मदेहमाश्रित्य सवयस्यो मुक्ताफलकेतुः सोऽत्राययौ प्रियस्तस्याः तं वीक्ष्य चातकवधूरिव नूतनाथं राकाशशाङ्कमुदितं च कुमुद्वतीव विद्याधरेन्द्रतनयं गगनागतं सा पद्मावती हृदि दधौ कमपि प्रमोदम् । स च मुक्ताफलकेतुर्मुमुदे दृष्चैव तामवेक्ष्य पिबन् मिभ्रमणश्रान्तः पान्थो यथा सरितम् तौ च शापरजनीक्षयादुभौ चक्रवाकववाप्तसंगमौ। जग्मतुस्तपनतेजसो मुनेस्तस्य पादपतनेन तृप्तताम् यद्युवामिह पुनः समागतौ तीर्णशापमुदितौ स एव मे । चेतसोऽद्य परितोष इत्यसावभ्यनन्दद्थ तौ महामुनिः यातायां निशि चेन्द्रबारणगतस्तत्रैव सोऽप्याययौ चिन्वन्दारकनिष्टपुत्रसहितो मेरुध्वजो भूपतिः। त्रैलोक्यप्रभया समं तनयया त्रैलोक्यमाली तथा दैत्यानामधिपो विमान वहनः सान्तःपुरः सानुगः ततः स मुक्ताफलकेतुमेतयोः प्रदर्य वृत्तान्तमवर्ण यन्मुनिः यथा स कार्यार्थमवाप शापतो भनुष्यतां भुक्तिमुपागतस्ततः॥ बुद्धा तदग्नौ पतनोन्मुखास्ते मेरुध्वजाद्य मुनिनोपदिष्टम्। सिङ्गोदकमनहरार्चनादि कृत्वा विशोकाः सहसा बभूवुः । त्रैलोक्यप्रभया पुनरत्र तया जातिमाशु संस्क्रुत्य समचिन्त्यत सिद्धाधिपकन्या देवप्रभास्मि सा हन्त विद्याधराधिनाथः पतिरस्तु ममेति या तपस्यन्ती पद्मावत्युपहसिता प्राविशमनलं स्वकामनासिद्धयै जातास्म्यस्मिश्च ततो दितिजकुले यत्र चानुरक्तास्मि। सोऽप्येष राजपुत्रः प्राप्तो वैद्याधरीं पुनः स्वतनुम्। न च युज्यतेऽन्यरूपो देहेनानेन समभिगन्तुमयम् । तदिमामेतत्प्रास्यै ततुं जुहोम्यासुरीं पुनर्चलने एवं विमृश्य हृदि तथा निवेद्य पित्रोर्मुक्ताफछध्वजहुताशमनुप्रविष्टाम् आदाय तां करुणयार्षतपूर्वदेहमाविर्बभूव हुतभुक्खयमब्रवीच