पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'४४
आदतस्तरङ्गः १३
कथासरित्सागरः ।

तेन मत्तां सशिष्यां च च्छिन्नश्रवणनासिकाम् । तामप्यशुचिपङ्कान्तः क्षेपयामास सा सती ॥ १६

गत्वा मैते वणिक्पुत्राः पतिं हन्युः कदाचन । इत्याकुला च सा श्वश्वस्तं वृत्तान्तमवर्णयत् ॥ . १६

ततः श्वश्रूरवादीत्तां पुत्रि साधु कृतं त्वया । किं तु पुत्रस्य मे तस्य कदाचिदहितं भवेत् ॥ १६

ततो देवस्मितावोचद्यथा शक्तिमती पतिम् । स्रक्ष प्रज्ञया पूर्वममुं रक्षाम्यहं तथा ॥ १६

कथं शक्तिमती पुत्रि ररक्ष पतिमुच्यताम् । इति पृष्टा तया श्वश्वा साथ देवस्मिताम्रवीत्॥ १६

अस्मद्देशे पुरस्यान्तर्मणिभद्र इति श्रुतः । पूर्वैः कृतप्रतिष्टोऽस्ति महायक्षः प्रभावितः ॥

तस्योपयाचितान्येत्य तत्रत्याः कुर्वते जनाः । तत्तद्वाञ्छितसंसिद्धिहेतोस्तैस्तैरुपायनैः ॥

यो नरः प्राप्यते तत्र रात्रौ सह परस्त्रिया । स्थाप्यते सोऽस्य यक्षस्य गभीगारे तया समम् ॥ १६

प्रातस्तथैव सस्त्रीकः स नीत्वा राजसंसदि । प्रकटीकृत्य तवृत्तं निगृह्यत इति स्थितिः ॥

एकदा तत्र नक्तं च संगतः परजायया । वणिक्समुद्रदत्ताख्यः प्राप्तोऽभूपुररक्षिणा ॥

नीत्वा च तेन क्षिप्तोऽभूत्सपरस्त्रीक एव सः। यक्षदेवगृहे तस्मिन्हृढदत्तार्गले वणिक् ॥

तक्षणं वणिजश्चास्य महाप्रज्ञा पतिव्रता । भार्यां शक्तिमती नाम तं वृत्तान्तमबुध्यत ॥

साथ धीरान्यरूपेण तद्यक्षायतनं निशि । पूजामादाय साश्वासं सखीजनयुता ययौ॥

तत्रैत्य दक्षिणालोभादेतस्या एव पूजकः। ददौ प्रवेशमुद्धाट्य द्वारमुक्व पुराधिपम् ॥

सा च प्रविश्य सस्त्रीके दृष्टे पत्यौ विलक्षिते। स्वं वेषं कारयित्वा तां नियीहीत्यवदस्त्रियम् ॥ १

सा च निर्गत्य रात्रौ स्त्री तहूपैव ततो ययौ । तस्थौ शक्तिमती तत्र तेन भी समं तु सा ॥

प्रातश्च राजाधिकृतैरेत्य यावन्निरूप्यते । तावत्स्वपत्न्यैव युतः सर्वैः स ददृशे वणिछ ॥

तद्वा यक्षभवनान्मृत्योरिव सुखानृपः । दण्डयित्वा पुराध्यक्ष वणिजं तममोचयत् ॥

एवं शक्तिमती पूर्व ररक्ष प्रज्ञया पतिम् । अहं तथैव भर्तारं गत्वा रक्षामि युक्तितः ॥

इति देवस्मिता श्वश्रू रह उक्त्वा तपस्विनी । स्वचेटिकाभिः सहिता वणिग्वेषं चकार सा ॥ १

आरुह्य च प्रवहणं वणिज्याव्याजतस्ततः । कटाहद्वीपमगमद्यत्र खोऽस्याः पतिः स्थितः ॥

गत्वा तं च पतिं तत्र वणिङध्ये ददर्श सा । गुहसेनं समाश्वासमिव मूर्तिधरं बहिः॥

सोऽपि तां पुरुषाकारां दूरादृष्ट्वा पिबन्निव । प्रियायाः सदृशः कोऽयं वणिक्त्वादित्यचिन्तयत् ॥

सा च देवस्मिता तत्र भूपं गत्वा व्यजिज्ञपत् । विज्ञप्तिर्मेऽस्ति तत्सर्वोः संघट्यन्तां प्रजा इतेि ॥ १

ततः सर्वान्समानीय राजा पौरान्सकौतुकः । का ते विज्ञप्तिरस्तीति वणिग्वेषामुवाच ताम् ॥ १

ततो देवस्मितावादीदिह मध्ये मम स्थिताः। पलाय्य दासाश्चत्वारस्तान्मे देवः प्रयच्छतु ॥

अथ तामबदद्राजा सर्वे पौरा इमे स्थिताः । तत्सर्वान्प्रत्यभिज्ञाय निजान्दासान्गृहाण तान् ॥

ततस्तया जगृहिरे स्वगृहे प्राक्खलीकृताः। वणिक्सुतास्ते चस्वारः शिरःस्वाबद्धशाटकाः ॥

सार्थवाहसुता एते कथं दासा भवृन्ति ते ) इति क्रुद्धाश्च तामूचुस्तत्रस्था चणिजस्तदा ॥

ततः प्रत्यब्रवीत्सा तान्यदि न प्रत्ययोऽस्ति वः । ललाटं प्रेक्ष्यतामेषां शुनः पादाङ्कितं मया ॥

तथेति तेषामुन्मोच्य चतुर्णा शीर्षपट्टकान् । सर्वेऽपि ददृशुस्तत्र शुनःपादं ललाटगम् ॥

लज्जितेऽथ वणिग्ग्रामे राजा संजातविस्मयः। किमेतदिति पप्रच्छ स तां देवस्मितां स्वयम् ॥

सा शशंस यथावृत्तं सर्वेऽपि जहसुर्जनाः । न्याय्यास्ते भवतीदासा इति तां चावदन्नृपः ॥

ततोऽन्ये वणिजस्तेषां चतुर्थं दास्यमुक्तये । ददुस्तस्यै धनं भूरि साध्व्यै दण्डं च भूपतेः ॥

आदाय तद्धनमवाष्य पतिं च तं स्वं देवस्मिता सकलसज्जनपूजिता सा ।
प्रत्याययौ निजपुरीमथ ताम्रलिप्त नास्या बभूव च पुनः प्रियविप्रयोगः ॥

इति स्त्रियो देवि महकुलोद्गता विशुद्धधीरैश्चरितैरुपासते ।
सदैव भर्तारमनन्यमानसाः पतिः सतीनां परमं हि दैवतम् ॥