पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{{rh |left= ४०|center=कथासरित्सागरः ।|right=[ आदितस्तरङ्गः १३

सुतां च दत्त्वा संमान्य त्वामयं मोतुमिच्छति । तदस्यैनां स्वयं हृत्वा गच्छामस्तनयां वयम् ॥ ४

एवं ह्यस्य प्रतीकारो दृप्तस्य विहितो भवेत् । अपौरुषकृतं लोके नैव स्याल्लाघवं च नः ॥ ५

अस्ति चैतेन दत्तास्यास्तनयायाः करेणुका । राज्ञा वासवदत्ताया नाम्ना भद्रवती नृप ॥ ६

सा चानुगन्तुं वेगेन शक्या नान्येन दन्तिना । मुक्त्वा नडागिरिं सोऽपि तां दृष्टुंव न युध्यते ॥ ७

तस्याश्चाषाढको नाम हस्त्यारोहोऽत्र विद्यते । स च दत्वा धनं भूरि स्वीकृत्य स्थापितो मया ॥ ८

तदारुह्य करेणु तां सह वासवदत्तया । सायुधेनापयातव्यं नतं गुप्तमितस्त्वया ॥ ९

इहत्यश्च महामात्रो द्विरदेङ्गितवित्तदा । मदीन क्षीबतां नेयो नैतच्चेतयते यथा ॥ १०

पुलिन्दकस्य सख्युस्ते पावेसने च याम्यहम् । मार्गरक्षार्थमित्युक्त्वा ययौ योगन्धरायणः ॥ ११

वत्सराजोऽपि तत्सर्वं कर्तव्यं हृदये व्यधात् । अथ वासवदत्ता सा तस्यान्तिकमुपाययौ ॥ १२

ततस्तास्ताः सविस्रम्भाः कथाः कुर्वंस्तया सह । यौगन्धरायणोक्तं च तस्यै राजा शशंस सः ॥ १३

सा च तत्प्रतिपद्येव निश्चित्य गमनं प्रति । आनाय्याषाढकं सजं हस्त्यारोहं चकार तम् ॥ १४

देवपूजापदेशेन दत्त्वा मर्च मदान्वितम् । सर्वाधोरणसंयुक्तं सहामात्रं च साकरोत् ॥ १५

ततः प्रदोषे विलसन्मेघशब्दसमाकुले । आषाढकः करेणु तां सज्जीकृत्यानिनाय सः ॥१६

सज्ज्यमाना च सा शब्दं चकार करिणी किळ । तं च हस्तिरुताभिज्ञो म्हामात्रोऽथ सोऽश्रुणोत् ॥ १७

त्रिषष्टियोजनान्यद्य यास्यामीत्याह हस्तिनी । इत्युवाच स चोदाममविस्खलिताक्षरम् ॥ १८

विचाराई पुनस्तस्य मत्तस्याभून्न मानसम् । तच्च हस्तिपकाः क्षीबास्तद्वाक्यं नैव शुश्रुवुः ॥ १९

ततश्च वत्सराजोऽत्र वीणामादय तां निजाम् । यौगन्धरायणात्प्रातैर्योगैः खंसितबन्धनः ॥ २०

उपनीतप्रहरणः स्वैरं वासवदत्तया । करेणुकायामारोहत्स तस्यां सवसन्तक॥ २१

ततो वासवदत्तापि सह काञ्चनमालया। सख्या रहस्यधारिण्या तस्यामेवारुरोह सा ॥ २२

अथोज्जयिन्या निरगास हस्तिपफपञ्चमः । वत्सेशो निशि मत्तेभभिन्नप्राकारवर्मना ॥ २३

तत्स्थानरक्षिणौ वीरौ स्वैरं ख हतवाळूपः । वीरबाहुं तथा तालभटं राजसुतावुभौ ॥ २४

ततः प्रतस्थे वेगेन स राजा दयितासखः । हृष्टः करेणुकारूढो धत्याषाढकेऽङ्कशम् ॥ २५

उज्जयिन्यां च तौ दृष्ट्वा हतौ प्राकाररक्षिणौ । राज्ञे न्यवेदयन्रात्रौ क्षुभिताः पुररक्षिणः ॥ २६

सोऽप्यन्विष्य क्रमाचण्डमहासेनः पलायितम् । हृतवासवदत्तं तं वत्सराजमबुध्यत ॥ २७

तपुत्रः पालकाख्योऽथ जातकोळहले पुरे । अन्वधात्स वरसेशमधिरुह्य नडागिरिम् ॥ २८

बत्सेशोऽपि तमायान्तं पथि बाणैरयोधयत् । नडागिरिः करेणु तां दृष्ट्वा न प्रजहा ॥ २९

ततः स पालको भ्रात्रा पश्चादेत्य न्यवर्यत । गोपालकेन वाक्यज्ञः पितृकार्यानुरोधिना ॥ ३०

वत्सराजोऽपि विस्रब्धं गन्तुं प्रववृते ततः। गच्छतश्चात्र शनकैः शर्वरी पर्यहीयत ॥ ३१

ततो विन्ध्याटवीं प्राप्य मध्याहे तस्य भूपतेः। त्रिषष्टियोजनायाता तृषिताभूत्करेणुका ॥ ३२

अवतीर्णा सभार्ये च राज्ञि तस्मिञ्जलानि सा। पीत्वा तदोषतः प्राप पञ्चतां हस्तिनी क्षणात् ॥ ३३

विषण्णोऽथ स वदसेशः सह वासवदत्तया । गगनादुतामेतां शृणोति स्म सरस्वतीम् ॥ ३४

अहं मायावती नाम राजन्विद्याधराङ्गना । इयन्तं काठमभवं शापदोषेण हस्तिनी ॥ ३५

चपकारं च वसेश तवाद्य कृतवत्यहम् । करिष्यामि च भूयोऽपि स्वपुत्रस्य भविष्यतः ॥ ३६

एषा वासवदत्ता च पत्नी ते नैव मानुषी। देवीयं कारणवशादवतीर्णा क्षिताविति ॥ ३७

ततः स हृष्टो व्यसृजद्विन्ध्यसागं वसन्तकम् । पुलिन्काय सुहृदे वक्तुं स्वागमनं नृपः ॥ ३८

खयं च पादचारी सन्ख शनैर्दयितान्वितः। तत्रैव गच्छमुत्थाय दस्युभिः पर्यवार्यत ॥ ३९

धनुर्तृितीयो दस्यूनां तेषां पञ्चोत्तरं शतम् । पुरो वासवदत्ताया वत्सराजः स चावधीत् ॥ ४०

तत्क्षणं सोऽस्य राज्ञोऽत्र मित्रं चागापुलिन्दकः । यौगन्धरायणसखो वसन्तकपुरःसरः ॥ ४१

स्र तान्दस्यून्निवार्यान्थान्वरमेशं प्रणिपत्य तम् । नयति स्म निजा पल भिद्रराजः सवल्लभम् ॥ ४२