सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५ कथासरित्सागरः । [ आदितस्तरङ्ग एवं तयोक्ता सख्या सा पद्मावल्यश्रुगद्गदम् । राज्ञानतमुखी हस्ते गृहीत्वा तामभाषत । सखि प्रागेव विदितं सर्वे ते किं निगूयते । राजपुत्रेण तेनाहं तस्मिन्मौर्याश्रमे तदा ॥ उद्धृतापि महाघोरराक्षसीवह्निमध्यतः । दुर्वारविरहज्वाले निक्षिप्ता मदनानले तन्न जाने क गच्छामि कस्मै वच्मि करोमि किम् । आश्रये कमुपायं वा दुर्लभासक्तमानसा । इति ब्रुवाणां तां राजपुत्रीमाह स्म सा सखी । अभिष्वङ्गोऽनुरूपोऽयं स्थाने ते मनसः सखि । इतरेतरशोभायै संयोगो युवयोः किल । नवचन्द्रकलाशार्वजटामुकुटयोरिव । अधृतिश्चात्र मा भूत्ते ध्रुवं स भवतीं विना । न स्थास्यति त्वया किं स तथाभूतो न लक्षितः । स्त्रियोऽपीच्छन्ति पुंभावं यां दृष्ट्वा रूपलोलुभाः। तस्यास्ते को भवेन्नार्थं तुल्यरूपः स किं पुन शर्वोऽष्यलीकवादी किं येनोक्तौ दंपती युवाम् । अदूरगेऽप्यभीष्टेऽर्थे को वार्ता भजते धृतिम् ॥ तदाश्वसिहि भावी ते स एव न चिरात्पतिः । न त्वया दुर्लभः कश्चित्त्वं तु सर्वेण दुर्लभा । इत्युक्ता सा तया सख्या राजूपुत्री जगाद ताम् । सखि यद्यपि जानामि तथापि करवाणि किम इदं तु मे तदासक्तं चेतो नोत्सहते क्षणम् । स्थातुं विना तं प्राणेशं क्षमते न च मन्मथः॥ तमेव हि स्मरन्या मे मनो निर्वाति न क्षणम् । दह्यन्तेऽङ्गानि संतापेनोत्क्रामन्तीव चासवः । एवं वदन्ती मोहेन मोहिता पुष्पपेलवा । अङ्के तस्या वयस्याया राजपुत्री पपात सा ॥ अथास्युसेककीपल्लवानिलवीजनैः । साश्रुराश्वासयामास सा वयस्या क्रमेण ताम् । मृणालहारवलयं श्रीखण्डार्द्रविलेपनम् । नलिनीदलशय्यां च यानि सा विदधे सखी ॥ तस्यास्तान्यपि संतापसमासक्तानि संगतः। संतष्य समदुःखत्वमिव शुष्यन्ति भेजिरे । ततः सा विहृळा पद्मावती तामवदत्सखीम् । क्लिश्नासि किं वृथात्मानं नैवं शाम्यति मे व्यथा । येन शाम्यति तच्चेत्त्वं कुरुषे तच्छिवं भवेत् । एवमुक्तवतीमाती वयस्या तामभाषत ॥ कुर्यं किं यन्न नामाहं तवार्थे ब्रूहि तरसखि । तच्छुत्वा सा ह्रिया किंचिदिव राजसुताब्रवीत् । तमिहानय मे कान्तं गत्वा प्रियसखि हृतम् । नान्यथोपशमो मे स्यात्ततश्चैव न कुप्यति ॥ प्रत्युतेहागतायैव मामेषोऽस्मै प्रदास्यति । एवं तयोक्ता सोत्साहं वयस्या सयुवाच ताम् । यद्येवं तद्द्दण त्वं धैर्यं कार्यमिदं कियत् । एषाहं सखि याम्येव स्वप्रियानयनाय यत् । तत्पितुः खेचरेन्द्रस्य चन्द्रकेतोः पुरोत्तमम् । ख्यातं चन्द्रपुरं नाम निर्दूता भव किं शुचा । इति साश्वासिता सख्या तया राजसुताभ्यधात् । तदुत्तिष्ठ शिवः पन्था अस्तु ते व्रज सत्वरम त्राता त्रयाणां लोकानां स च सप्रणयं त्वया । मद्राि सखि वक्तव्यो वीरः प्राणेश्वरो मम । तस्मिन्गौर्यायतने तथा परित्राय राक्षसीभयतः । स्त्रीन्नेन हन्यमानां रक्षसि मां मकरकतुना न कथम् । भुवनोद्धरणसहनां भवादृशामेष नाथ को धर्मः । आपद्युपेक्ष्यते यत्पूर्वत्रातो जनोऽनुवृत्तोऽपि । एवं वदस्तं कल्याणि यथा जानासि वा स्वयम् । इति व्याहृत्य सा पद्मावती तां व्यसृजत्सर्वं सा च स्वसिद्धयुपनतं पक्षिवाहनमास्थिता । तन्मनोहारिका प्रायाद्विद्याधरपुरं प्रति । सा च पद्मावती किंचिदाशालब्धधृतिस्ततः। हीतचित्रफलका मन्दिरं प्राविशत्पितुः । तत्र दासीपरिवृता प्रविश्य निजवासकम् । स्नात्वा गौरीपतिं भक्त्या पूजयित्वा व्यजिज्ञपत् । भगवंत्रिषु लोकेषु त्वदिच्छानुग्रहं विना। न सिद्ध्यतीह कस्यापि बह्वल्पं वापि वाञ्छितम् ॥ तद्विद्याधरसच्चक्रवर्तिपुत्रं तमीप्सितम् । न दास्यसि पतिं चेन्मे देहं त्यक्ष्यमि तेऽग्रतः । एवं विहितविज्ञप्तिं शशाङ्कमुकुटस्य ताम्। श्रुत्वा सखेदः साश्चर्यः परिवारजनोऽवदत् । स्वंदेहनिरपेक्षैव किमेवं देवि भाषसे । तवापि किमनुप्राप्यं नामास्यत्र जगत्रये । त्वय्मानो मुञ्चेद्धि. सुगतोऽपि स संयमम् । तदेकः सोऽत्र सुकृती यस्त्वयाप्येवमर्चते ।