पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४८ कथासरित्सागरः । [ आदितस्तरङ्ग तदृष्ट्वा सिद्धगन्धर्वविद्याधरसुरान्वितः । अभिदुद्राव तदैत्यसैन्यं सपद् िवासवः ।। ततः पतदिषुप्रासशक्तितोमरपट्टिशम् । उद्भूतुगुडं युद्धे निहतासंख्यसैनिकम् । गजाश्वकायमकरा दन्तिमौक्तिकवालुकाः । प्रवीरमुण्डपाषाणाः प्रावहन्रुधिरापगाः । शोणितासवमत्तानां भूतानामामिषार्थनाम् । सोऽभूद्रणोत्सवः प्रीत्यै कबन्धैः सह नृत्यताम् । तस्मिञ्जयश्रीदैत्यानां देवानां चाहवार्णवे । महोर्भिश्चपला प्रायादितः क्षणमितः क्षणम् ॥ चतुर्विंशतिमेवं तु युद्धमासीद्दिनानि तत् । प्रेक्ष्यमाणं विमानस्थैः शर्वशौरिपितामहैः । पञ्चविंशे दिने क्षीणप्राययोः सैन्ययोर्घयोः । प्रधानद्वन्द्वयुद्धेषु प्रवृत्तेष्वत्र संगरे । श्रीमुक्ताफलकेतोश्च तस्य विद्युद्वजस्य च । द्वन्द्वयुद्धं प्रववृते रथस्थद्विरदस्थयोः । तमोघं भास्करात्रेण प्रैष्मात्रेण ज शैशिरम् । कुलिशास्त्रेण शैलाभं नागास्त्रं गारुडेन च । निवार्य तस्य यन्तारं वारणं चासुरस्य सः । एकैकेनेषुणा मुक्ताफलकेतुरपातयत् । आरूढस्य रथं तस्य सारथिं तुरगश्च यत् । सोऽवधीत्तदसौ विद्युद्वजो मायामशिश्रियत् ॥ अदृश्यः सर्वसैन्येन द्यामारुह्य ववर्ष सः । शिळाश्चात्त्राणि विविधान्यभितः सुरवाहिनीम् । अभेवं शरजालं च यन्मुक्ताफलकेतुना । अरुध्यत स तद्देयो ददाहानलवृष्टिभिः ॥ अथाभिमत्र्य ब्रह्मास्त्रं सानुगं तमालिं प्रति । विश्वयक्षमं मुक्ताफलकेतुर्मुमोच सः । तेनास्त्रेण ससैन्योऽपि निहतो गतजीवितः। निपपात नभोमध्याद्विद्युद्वजमहासुरः । शेषाः पलाय्य जग्मुश्च विद्युद्वजसुतादयः। वङ्गदंष्ट्रादिसहिता रसातलतर्नु भयात् ॥ देवाश्च नादानुपदं जगदुः साधु साध्विति । श्रीमुक्ताफलकेतुं च पुष्पवर्षेरपूजयन् । ततः शत्रौ हते शक्रः प्राप्तराज्यस्त्रिविष्टपम् । प्राविशत्रिषु लोकेषु वभूव च महोत्सवः । आगच्छचीं पुरस्कृत्य स्वयं चात्र प्रजापतिः । चूडारत्नतमं मुक्ताफळकेतोर्बबन्ध च । इन्द्रोऽपि राजपुत्रस्य तस्य राज्यप्रदायिनः । हारं स्वकण्ठतः कण्ठे न्यधाद्विजयशोभिनः । समुपावेशयत्तं च निजासनसमासने । आनन्दपूर्णगीर्वाणवितीर्णविविधाशिषम् ।। विद्युद्वजासुरपुरं प्रतीहारं विसृज्य च । तस्मै दास्यन्नवसरे स्वीचक्रे स्वपुराधिकम् । ततोऽस्मै राजपुत्राय गन्धर्वः पद्मशेखरः। दित्सुः पद्मावतीं धातुः साकूतं मुखमैक्षत । स च ज्ञाताशयो धाता गन्धर्वेन्द्रमुवाच तम् । कार्यशेषोऽस्ति कश्चित्तद्विषहस्य मनागिति । ततो हाहाहुहूगीतैः स्वनिनादनुनादितैः । रम्भादिनृत्यैस्तत्राभूदिन्द्रस्य विजयोत्सवः । दृष्टोत्सवप्रमोदे च याते धातरि वृत्रहा । संमान्य लोकपालादीन्स्वं स्वं स्थानं विसृष्टवान् । विससर्ज च गन्धर्वराजं तं पद्मशेखरम् । निजं गन्धर्वनगरं संमान्य सपरिच्छदम् ॥ श्रीमुक्ताफलकेतुं च चन्द्रकेतुं च सत्कृतौ । प्राहिणोदुत्सवाय स्वं विद्याधरपुरं हरिः । स च संहृतविश्वकण्टकस्तां बहुविद्याधरराजकानुयातः। जनकानुगतः स राजधानीमथ मुक्ताफलकेतुराजगाम । वररत्नचिता च सा तदानीं ध्वजपट्टांशुकमालिनी प्रविष्टे । विबभौ नगरी चिरागतेऽस्मिन्पितृयुक्ते जयभाजि राजपुत्रे । स च सपदि पितास्य चन्द्रकेतुः पुरि परितोषितबन्धुभृत्यवर्गः । जलमिव जलदो बसु प्रवर्षन्सुतविजयोत्सवमूर्जितं ततान । स च मुक्ताफलकेतुर्विद्युद्वजदमनकीर्तिमपि लब्ध्वा । पद्मावतीं विना तां न रात्रिं लेभे निजेषु भोगेषु । संयतकाख्येन पुनः शर्वादेशादि शंसिना सख्या । आश्वास्यमानचित्तः कृच्छेण स तान्यहन्यनयत् । इति महाकविश्रीसोमदेवभट्टत्रिरचिते कथासरित्सागरे पद्मावतीलम्बके तृतीयस्तरङ्गः।