पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३४ कथासरित्सागरः । [ आदितस्तरङ्ग अभवदौरिमुण्डाख्यो धुर्यो विद्याधरेश्वरः। मतङ्गवेचनामाहं तस्याभूवं समाश्रितः । अस्यां सुरतमञ्जर्यं सुतायां मम भूपते । उत्पन्नायां स सां गुप्तं गौरिपुण्डोऽब्रवीदिदम् । नरवाहनदत्तख्यो योऽयं वसेश्वरात्मजः । भविष्यचक्रवर्तीह सोऽस्माकं कश्यते सुरैः। तद्यावच्चक्रवर्तस्वं न प्राप्तः कण्टकः स नः । तावत्स्वमायया गत्वा तं निपातय मा चिरम् । इत्यसै गौरिमुण्डेन पापेन प्रेरितस्तदा । तदर्थं नभसा गच्छन्पुरोऽपश्यं महेश्वरम् । स मां सद्योऽशपस्क्रुद्धः कृत्वा हुंकारमीश्वरः । .महात्मनि जने पाप कथं पापं चिकीर्षसि । तदनेनैव देहेन भार्यादुहितृसंयुतः । गच्छोजयिन्यां चण्डालमध्ये निपत दुर्मते । अष्टादशसहस्राणि विप्राणां पुरवासिनाम् । तनयदानशुल्केन यदा ते भोजयिष्यति । । गृहेषु कश्चिच्छापस्य तदन्तस्ते भविष्यति । दातव्या च स्वया तस्मै सुता तच्छुल्कदायिने । इत्युक्त्वान्तर्हिते शंभावेषोऽस्मि पतितस्तदा । अन्येऽस्पलहस्ताख्यो न च तैः संकरो मम ॥ अद्य शान्तः स शापो मे त्वपुत्रस्य प्रसादतः । तन्मयेयं सुता दत्त तस्मै सुरतमञ्जरी । इदानीं चैष गच्छामि निजं वैद्याधरं पदम् । नरवाहनदत्तस्य सेवायें चक्रवर्तिनः । इत्युक्त्वैवार्पितसुतः खमुत्पत्याङ्गनायुतः। आगान्मतङ्गदेवोऽसौ देव स्वच्चरणान्तिकम् ॥ राजापि पालको ज्ञाततत्त्वो हृष्टततो व्यधात् । तस्याः सुरतमञ्जर्या विवाहं स्वसुतस्य च । तपुत्रोऽपि च तां भार्यां प्राप्य विद्याधरीमभूत् । मनोरथाधिकावाप्तिकृतार्थोऽवन्तिवर्धनः । एकदा च कुमारोऽसौ सुस्रो हस्समं तया । निशाक्षये प्रबुद्धस्तामकस्मान्नैक्षत प्रियाम् । विचित्य वैतामप्राप्य तथा क्रन्दन्नतप्यत । यथोपेत्य पिताप्यस्य राजभूद्रुशविह्वलः । रक्षितेयं पुरी नास्यां निशायां प्रविशेत्परः। ध्रुवं हृता सा केनापि पापेनाकाशचारिणा । इत्याद्यस्मासु जल्पशु मिलितेष्वत्र तदक्षणम् । विद्याधरो धूमशिखो यौष्माकोऽवातरहिवः । तेनेह सोऽथमानीतः कुमारोऽवन्तिवर्धनः। अहं चाख्याय वृत्तान्तं मार्गतः पाळकाछुपात् ॥ सैषा चात्र स्थिता पित्रा समं सुरतमञ्जरी । वृत्तान्त ईदृशश्चास्या दैत्रो जानात्यतः परम्। इत्थं पालकमात्रिणि कथयिख भरतरोहके विरते । नरवाहनदत्ताप्रे मतङ्गदेवं सभासदोऽपृच्छन् ॥ कस्मै भवता दत्ता ब्रूहि त्वं सुरतमञ्जरीयमिति । सोऽप्याह स्म मयैषा दत्तैवावन्तिवर्धनायेति ॥ त्वं ब्रूहि इरसि कस्मादेतामिति चेल्यकोऽथ तैः पृष्टः । आदौ मयं मात्रा वाचा दृतेयमित्यवादीत्सः । सति जनके का माता तद्दनेऽप्यस्ति कोऽत्र तव साक्षी । तदियं परदारास्ते पापेति तमूचुरित्यकं सभ्याः ।। इति तैश्च निरुत्तरीकृतस्य प्रसभं निग्रहमियकस्य तस्य । नरवाहनदत्तचक्रवर्ती कुपितो दुर्विनयासमादिदेश । अस्यैकमेतमपराधमिह क्षमस्व स्यालो हि ते मनवेगसुतः किलासौ । इत्यार्थतो मुनिवरैरथ कश्यपावै राजा कथंचिदपभयं स तं मुमोच । तमपि च मातुलपुत्रं निजपद्यावन्तिवर्धनं युक्तम् । वायुपथहनिहितं सचिवयुतं प्राहिणोस्वपुरीम् । इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सुरतमजरीलम्वके द्वितीयस्तरः।