पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१६
[ आदितस्तरङ्गः
कथासरित्सागरः ।

         अथ नीत्वा स निशां तामास्थाने सर्वसंनिधौ प्रातः।
         नैशं साधितचन्दनपादपवृत्तान्तमखिलमाचख्यौ ॥
         तद्द्वा दयिताश्च बाळसचिवाश्चाप्ताश्च विद्याधरा-
          ते ते वायुपथाद्यः सकटकाश्चित्राङ्गदाद्यश्च ते ।
         गन्धर्वाः प्रसभप्रसाधितमहासिद्धेः प्रहर्षाकुलाः
         सत्वोत्साहधृतिप्रभावमहतीं तस्यास्तुवन्धीरताम् ॥
   संमय तैः सह स मन्दरदेवर्षे राजा विजेतुमथ दिव्यविमानगामी ।
   शेषान्यचन्दनतरूदितरत्नसिद्ध्यै गोविन्दकूटगिरिमेव जगाम तावत् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पश्चलम्बके चतुर्थेस्तरङ्गः।


समाप्तश्चायं पञ्चलम्बकश्चतुर्दशः।


_____