सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१२
[ आदितस्तरङ्गः १०८ ।
कथासरित्सागरः ।

ततस्तया समं तत्र यक्षिण्या तान्यहान्यहम् । सुखमासमथ स्वैरमेकद साब्रवीच्च माम् ॥ ५२
क्षीणः शापः स मे ब्रह्नस्तदितोऽद्य व्रजाम्यहम्। मत्प्रसादाच्च दिव्यं ते विज्ञानं संभविष्यति ॥ ५३
तपस्वी सिद्धभोगश्च निर्भयश्च भविष्यसि । इहस्थो मह्हस्यास्य मा द्राक्षीर्मध्यमं पुरम् ॥ ५४
एवमुक्त्वा तिरोऽभूत्सा ततोऽहं कौतुकेन तत् । मध्यमं पुरमारूढस्तत्रापश्यं तुरंगमम् ॥ ५५
तेनाहं निकटप्राप्तः क्षिप्तोऽश्वेन खुराहतः। क्षणादद्राक्षमात्मानं स्थितमस्मिञ्शिवालये ॥ ५६
ततः प्रभृति चात्राहं स्थितः सिद्धोऽस्मि च क्रमात् । तदित्थं मानुषस्यापि त्रिकालज्ञानमस्ति मे ॥ ५७
एवं च केशबहुलाः सर्वस्यापीह सिद्धयः । तदिदस्व तवाभीष्टसिद्धिं शंभुर्वेधास्यति ॥ ५८
इत्युक्तो ज्ञानिना तेन तत्रेयन्ति दिनान्यहम् । त्वपादप्राप्तिजातास्थः स्थितोऽभूवं तदाश्रमे ॥ ५९
स्वप्नादिष्टभवत्सिद्धिः शर्वेणाद्य किळ प्रभो। कयाप्यहमिहानीतो हीत्वा दिव्यया स्त्रिया ॥ ६०
इत्येष मम वृत्तान्त इत्युक्त्वा गोमुखे स्थिते । नरवाहनदत्ताने सरुभूतिरथाब्रवीत् ॥ ६१
क्षितं मानसवेगेन मां तदा कापि देवता । पाण्योर्वधाय विन्यस्य दूरेऽटव्यां तिरोऽभवत् ॥ ६२
ततोऽहं तत्र दुःखार्ता मरणोपायचिन्तया । भ्राम्यन्नदीपरिक्षिप्तं दृष्टवानेकमाश्रमम् ॥ ६३
तत्र प्रविश्य चापश्यमुपविष्टं शिलातले । जटाभिस्तापसं तं च प्रणम्याहमुपागमम् ॥ ६४
कस्स्वं कथमनुप्राप्तोऽस्येतां भूमिममानुषीम् । इति पृष्टश्च तेनाहं तस्मै सर्वमवर्णयम् ॥ ६५
ततः स बुद्ध्वोचन्मां मारमानं सांप्रतं वधीः। ज्ञास्यसीह प्रभोर्वार्ता ततः कर्तासि यत्क्षमम् ॥ ६६
इति तद्वचतायुष्मद्वतीजिज्ञासया स्थिते । मयि तत्र स्त्रियो दिव्या नदीं तां स्नातुमागमन् ॥ ६७
सां तापसोऽवादीझच्छास्या वस्त्रमानय । आसु स्नान्त्यास्त्वमेकस्या वार्ता ज्ञास्यस्यतः प्रभोः ॥ ६८
तच्छुस्वाहे तथाकायं मामन्वागच्च सा वधूः । ऋतवस्त्रार्द्रवसना सहस्तस्वस्तिकस्तनी ॥ ६९
नरवाहनदत्तस्य वातीमाख्याय वाससी । गृह्णेच्युदिता तेन तापसेनाथ साब्रवीत् ॥ ७०
नरवाहनदत्तोऽद्य हरमाराधयनिस्थतः । कैलासे दिवसैर्विद्याधरसम्राड् भविष्यति ॥ ७१
एवमुक्तवती तस्य संपेदे तापसस्य सा । भार्या शापवशाद्दिव्या तत्कथासंस्तबाद्वधूः ॥ ७२
ततस्तया समं तस्थौ विद्याधर्या स तापसः । तद्भिरा चाहसत्रासं जातास्थस्त्वत्समागमे ॥ ७३
दिनैः सगर्भा च सती गर्भ धुनी प्रसूय तम् । सावोचत्तापसं शान्तः शापस्त्वत्सङ्गतो मम ॥ ७४
भूयो मस्सङ्गचाछा ते यदि तत्तण्डुलैः सह । पक्त्वा मद्भर्भमेतं स्वं भुङ्क्ष्व प्राप्स्यसि मां ततः ॥ ७५
इत्युक्त्वास्यां प्रयातायामेतद्भं सतण्डुलम् । पक्वा भुक्त्वान्वगादेतां खमुत्पस्य स तापसः ॥ ७६
अहं तदुक्तोऽध्यादौ तन्नाओं सिद्धिमवेक्ष्य तु । भक्तसिक्थद्वयं प्राप्य पाकभाण्डादभक्षयम् ॥ ७७
तेन यत्राहभष्टीचमभूत्तत्तत्र काञ्चनम्। अथाऽन्यः परिभ्राम्यन्प्रापमेकमहं पुरम् ॥ ७८
तत्र वेश्यागृहे हेम्ना तेनोदारव्ययस्य मे । वसतो वमनं प्रादाजिज्ञासुः कुट्टनी छलात् ॥ ७९
तेन मे यमतो भास्वत्पद्मरागनिभे उभे । प्राग्भुक्तभक्तसिक्थे ते मुखेन् निरगच्छताम् ॥ ८०
निर्गीते एव कुट्टन्या गृहीते भक्षिते च ते । नष्टाथ हेमसिद्धिः सा कुटन्यापहृता तया ॥ ८१
संचन्द्रार्धः शिवोऽद्यापि हरिर्यच्च सकौस्तुभः । तत्तयोर्वेद्मि कुटन्या गोचरापतने फलम् ॥ ८२
किं चेदृगेष संसारो बह्वाश्चर्यं बहुच्छलः । परिच्छेतुं कदा केन समुद्र इव पार्यते ॥ ८३
इत्यहं विमृशन्खिन्नस्त्वत्प्राश्यै चण्डिकागृहम् । अगच्छं तपसा देवीं तामाराधयितुं ततः ॥ ८४
त्रिरात्रोपोषितं सा मां देवी स्वप्ने समादिशत् । सिद्धकामः स ते स्वामीसंपन्नो गच्छ पश्य तम् ॥ ८५
एतच्छुत्वा प्रबुद्धोऽस्मि प्रातर्देव्या कयाप्यहम् । त्वत्पादमूलमानीत इत्येषा देव मे कथा ॥ ८६
इत्युक्तवन्तं कुट्टन्या मरुभूतिं विडम्बितम्। नरवाहनदत्तोऽसौ जहास सह प्रार्युगैः ॥ ८७
ततो हरिशिखोऽवादीत्प्रस्तं मां रिपुणा तदा । उज्जयिन्यां न्यधात्कापि रक्षित्वा देव देवता ॥ ८८
तत्राहं दुःखितो देहं त्यक्तुमिच्छन्निशागमे । गत्वा श्मशानं तत्रत्यैः कामैररचयं चिताम् ॥ ८९
तां प्रज्वाल्य च तत्रातिं पूजयन्तमुपेत्य माम् । तालजय इति ख्यातो भूताधिपतिरभ्यधात् ॥ ९०