पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०८
[ आदितस्तरङ्गः
कथासरित्सागरः ।

पद्माबल्या वधूभिश्च हुतं रत्नप्रभादिभिः । यौगुन्धरायणाद्याश्च ये बक्सेश्वरमन्त्रिणः ॥
कलिङ्गरसेना स्खे चैव सचिवा गोमुखादयः । यथाहीतमुपाजग्मुग्रीष्मे हृदमिवाध्वगाः ॥
ददृशुस्ते च मध्ये तं सुदशार्हकुलं द्वयोः । पन्नयोः कृष्णमिवासीनं रुक्मिणीसत्यभामयोः॥
अङ्गध्वेव न वरफुटस्विति भयादिव । तेषां तद्दर्शने हर्षबाष्पैः पिदधिरे दृशः ॥
वसरजश्च देव्यौ च चिरादालिङ्गय तं सुतम् । न शेकुर्मोक्तुमद्धेषु प्रोतं कण्टकितेडिबवं ॥
प्रहततूर्येऽत्र वर्तमाने महोत्सवे । नरवाहनदत्तस्य भार्यां वेगवतः सुता ॥
स्वसा मानसवेगस्य द्युमार्गेणावतीर्य सा । आगाद्भगवती बुद्ध सिद्धविद्यप्रभावतः ॥
पतित्वा पादयोः श्वश्रूश्वशुराणां निजं पतिम् । नरवाहनदत्तं सा जगाद चरणानता ॥
त्वत्कृते दुर्बलीभूत: साधयित्वा तपोवने । विद्याः पुनरहं प्राप्ता तव कल्याणिनोऽन्तिकम् ॥
एवमुक्तयती पत्या तैश्चान्यैरभिनन्दिता । प्रभावत्यजिनावत्यौ सख्यावुपजगाम सा ॥
ताभ्यामाश्लिष्य सा मध्ये यावत्रोपचेच्यते । तावन्माताञ्जिनवत्या आययौ धनवत्यपि ॥
आजग्मुश्च तया सक ते ते विद्याधराधिपाः । आच्छादिताम्बरतलैर्मखैरित्र बलैर्युताः ॥
तस्या एव सुतो वीरश्चण्डसिंहो महाभुजः । तथामितगतिर्नाम तद्वन्धुः सुमहाबलः ॥
स च पिङ्गलगान्धारः प्रभावत्याः पिता बली । सोऽपि वायुपथः पूर्वप्रतिपन्नः सभपतिः ॥
स च हेमप्रभः शूरो राजा रत्नश्रोपिता । बङ्गप्रभेण पुत्रेण साकं वलसमन्वितः ॥
गन्धर्वराजो गन्धर्वदत्तया सुतया युतः । आगारसागरदत्तोऽपि सह चित्राङ्गदेन सः ॥
उपागताश्च ते सम्यग्वत्सराजेन पूजिताः । सपुत्रेणासनेष्यत्र यथोचितमुपाविशन् ॥
अथ पिङ्गलगान्धारो राजा जामातरं क्षणात् । नरवाहनदत्तं तं जगाद सदसि स्थितम् ॥
त्वं चक्रवर्ती सर्वेषामस्माकं देवनिर्मितः । अतिस्नेहवशात्त्यां च वयं सर्वेऽभ्युपागताः ॥
इयं धनवती देवी श्वशुस्ते नियतव्रता । दिव्यज्ञानवती साक्षसूत्रा कृष्णाजिनाम्बरा ॥
रक्षितुं स्व कृतोद्योग साक्षाद्भगवती यथा । सावित्री सिद्धविद्य/ वा वन्द्या विद्याधरोत्त ॥
तदस्ति कार्यसिद्धिस्ते किं तु यद्वच्मि तच्छुणु । इह विद्याधराणां द्वौ वेद्यधं तो हिमाचले ॥
उन्तरो दक्षिणश्चैव नानातच्छुङ्गभूमिगैौ । परतः किल कैलासादुत्तरोऽर्वोक्तु दक्षिणः ॥
तन्नोत्तराधिपत्यार्थमिदानीं दुश्चरं तपः। एषोऽमितगतिः कृत्वा शंकरं पर्यतोषयत् ॥
नरवाहनदत्तस्ते चक्रवर्ती समीहितम् । करिष्यतीति तेन यमादिष्टस्त्वामुपागतः ॥
तत्र मन्द्रदेवाख्यो मुख्यो राजास्ति दुर्मतिः । बलवानपि नासाध्यः प्राप्तविद्यस्य सोऽन्न ते ॥
यस्तु दक्षिणमध्येऽस्ति गौरिमुण्ड इति श्रुतः। राजा विद्याप्रभावेण स दुष्टात्मातिदुर्जयः ॥
स च मान सवेगस्य शत्रोस्ते परमः सुहृत् । यावन्न साधितः सोऽत्र तावत्कार्यं न सिध्यति ॥
तत्त्वं साधय सोत्कर्ष शीघ्र बिद्याबलं महत् । इति पिङ्गलगान्धारेणोक्ते धनवती जगौ ॥
एवं पुत्र यथायं ते राजा वदति तत्तथा । सिद्धक्षेत्रमतो गत्वा विद्या सिद्ध्यर्थमीश्वरम् ॥
आराधय प्रकर्षो हि तत्प्रसादं विना कुतः । मिलिताश्चात्र रक्षन्ति राजानस्स्वामी इति ॥
ततश्चित्राङ्गदोऽवादीदेवमेतदहं पुनः। सर्वेषामप्रयाण्येष विजयः क्रियतामिति ॥
अथैतदेव निश्चित्य कृस्व प्रस्थानमङ्गलम् । पित्रोरुद्वाष्पयोः पादौ गुरूणां च प्रणम्य सः ॥
दत्ताशीस्तैः समारुह्य भार्याभिः सचिवैस्तथा । सहमितगतिप्रज्ञकक्पिषतां शिबिकोत्तमाम् ॥
नरवाहनदत्तोऽतः प्रतस्थे स्थगयन्नभः । कल्पान्तपवनोद्धतसागराम्भोनिभैर्बलैः ॥
सेनानादप्रतिश्रुद्भिर्दिगन्तेषु शुचारिणाम् । आगतश्चक्रवर्तीव इति संवादयन्निव ॥
क्षणातैश्च स गन्धर्वपतिविद्याधरेश्वरैः। धनबत्या च नीतोऽभूत्तं सिद्धक्षेत्रपर्वतम् ॥
तंत्रादिष्टत्रतः सिद्धेः प्रातःस्नायी फलाशनः । भूमिशायी तपश्चक्रे शंकराराधनाय सः॥
परिवार्यं च तं तस्थू राजानस्ते ख़ुचारिणाम् । सर्वतः कृतसंरक्षा दिवानिशमतन्द्रिताः ॥