पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ३ ।]
५०९
पछलम्बकः १४ ।

विद्याधरकुमारोंऽत्र तपस्यन्तं तमुकाःनेत्रप्रभाभिः संवीतकृष्णाजिनमिव व्यधुः ॥ ८३
तचिन्तान्तर्रवैर्नेत्रैः करैश्चोरःस्थळार्पितैः । अदर्शयन्निवन्यास्तं प्रविष्टं हृदि तत्क्षणम् ॥ ८४
पापराश्च दृष्ट्वा तं सद्विद्याधरकन्यकाः। मतानलसंतप्तश्चक्रिरे समयं मिथः ॥ ८५
अयं पञ्चभिरस्माभिः सखीभिर्युगपत्पतिः । वरणीयो विवाहश्च तद्वकार्यो न भेदतः ॥ ८६
एका यदि पृथकुर्याद्विबाहममुना ततः । प्रवेष्टव्योऽग्निरन्याभिस्तामुद्दिश्य सखीद्वहम् ॥ ८७
इति दिव्यसु कन्यासु क्षुभ्यतीषु विभाव्य तम् । तत्राकस्मान्महोपतः प्रादुरासं स्तपोवने ॥ ८८
ववौ वायुर्महारौद्रो भद्रानुन्मूलयन्द्रुमान् । एवं शुगः पतिष्यन्ति रणेऽत्रेति वदन्निव ॥ ८९
किमत्र स्यादिति भयादिव भूमिरकम्पत । भीतावकाशदानार्थमिवादीर्यन्त सानवः ॥ ९०
विद्याधराः प्रभु यन्नादमुं रक्षत रक्षत । इत्यमवोदिवानघं घोरशब्दं नभस्त ठळम् ॥ ९१
नरवाहनदत्तश्च सोऽस्मिश्रुपातसंभ्रमे । ध्य यन्निष्क्रम्प एवासीद्भगवन्तं त्रिलोचनम् ॥ ९२
संनद्वारते च गन्धर्वराजविद्याधरेश्वराः। अनिष्टाशङ्किनो वीरास्तं रक्षन्तोऽबतस्थिरे ॥ ९३
मुमुचुः सिंहनादश्च व्याधूताखिलतावनाः। भर्सयन्त इवोत्पातानहितागमशंसिनः ॥ ९४
ततोऽन्येद्युरकस्य कल्पान्ताम्बुदमेदुरम् । विद्याधरबलं व्योम्नि घोरन।दमद्दश्यत ॥ ९५
सोऽयं मानसवेगेन गौरिमुण्डः सहागतः। इत्युवाच स्मरन्ती स्वां विद्यां धनवती तद ॥ ९६
ततो विद्याधरेन्द्रस्तान्सगन्धर्वानुदायुधान् । समं मानसवेगेन गौरिसुण्डोऽभ्यधावत ॥ ९७
क मानुषोऽयं चक वयं तदेतत्पक्षपातिनाम् । दर्प वः शमयाम्यद्य युचरा इति वादिनम् ॥ ९८
चित्राङ्गदोऽथ तं क्रोधाद्धावन्प्रत्यभियुक्तवान् । राजा सागरदत्तश्च गन्धर्वाणामधीश्वरः ॥ ९९
चण्डसिंहामितगती राजा वायुपथस्तथा । किं च पिङ्गलगान्धारः सर्वे विद्याधरेश्वराः ॥ १००
पापं मानखवेगं तमभ्यधावन्महारथाः । सिंह इवाभिगर्जन्तः सेनासमुदयन्विताः ॥ १०१
सैन्यरेणुघनाकीर्णं शस्त्रज्वालातडिल्लतम् । पतद्रक्ताम्बु तदभूद्धोरं समरदुर्दिनम् ॥ १०२
शोणितासवसंपूर्ण कीर्णशत्रुशिरोबलिम् । चक्षुभूतमहायागमिव चित्राङ्गदादयः ॥ १०३
कबन्धप्राहसंक्षीrणं वहद्युधपन्नगः। प्रावर्तन्त मिलन्मेदोडिण्डीरा रुधिरापगाः ॥ १०४
हतसैन्यो वधप्राप्तो गौरिमुण्डस्ततश्च सः । पूर्वाराधितसुप्रीतां गौरीविद्यां समस्मरत् ॥ १०५
आविर्भूय च स साक्षान्निनेत्रा त्रिशिखायुधा। नरवाहनदत्तीयान्प्रवीरांस्तानभोहयत् ॥ १०६
ततो लब्धबळ बाहुयुद्धायाभ्यपतन्नन् । नरवाहनदत्तं तं गौरिमुण्डः प्रधाव्य सः ॥ १०७
तद्युद्धविद्धश्च मायी सस्मार तां पुनः । सद्विद्यां तद्वळातं च बाह्वोराद्य खं ययौ ॥ १०८
हन्तुं धनवतीविद्यबलात्तं तु स नाशकत् । गौरिसुण्डो नृपसुतं चिक्षेप त्वग्निपर्वते ॥ १०९
सोऽपि मानसवेगस्तांस्तत्सखीन्गोमुखादिकान् । गृहीत्वोत्पत्य गगनं दिक्षु प्रास्थनास्थया ॥ १११
उत्क्षिप्तास्ते च रक्षिख धनवत्या प्रयुक्तया । रूपिण्या विद्यया भिन्नाः स्थाप्यन्ते स्म महीतले ॥ १११
सिद्धकार्यं कुशलिनं शीर्षं प्राप्स्यथ तं प्रभुम् । इत्याश्वास्यैकशस्तान्सा विद्य तेषां तिरोदधे ॥ ११२
ततो विजितमस्माभिरिति मत्वा यथागतम् । सह मानसवेगेन गौरिमुण्डो ययौ गृहान् ॥ ११३
नरवाहनदत्तो धः सिद्धकार्यः समेष्यति । न तस्यानिष्टमस्तीति धनवत्याभ्युदीर्तेि ॥ ११४
तेऽप्यस्तमोह गन्धर्वनाथविद्याधरेश्वराः । चित्राङ्गदादयः स्वानि जग्मुः स्थानानि संप्रति ॥ ११५
सापि तत्र सपत्नीभिः सहितमजिनावतीम् । स्वसुतां तां गृहीत्वा स्वं ययौ धनवती गृहम् ॥ ११६
सोऽपि मानसखवेगस्तां गत्वा मदनसङ्काम् । उवाच स हतो भर्ता तव तद्भज मामिति ॥ ११७
स यो हन्ता न तं हन्यात्कश्चिद्देवविनिर्मितम् । इति सा तत्प्रस्थापि हसन्ती प्रत्युवाच तम् ॥ ११८
नरवाहनदत्तं च तद्विषा वह्निपर्वते । क्षिष्यमाणं तदागत्य दिव्यः कोऽप्यग्रहीत्पुमान् ॥ ११९
निनाय चाशु रक्षित्वा शीतं मन्दाकिनीतटम् । को भवानिति पृष्टश्च तेनाश्वस्य जगाद तम् ॥ १२०
अमृतप्रभनामहं देव विद्याधराधिपः । प्रेषितश्च हरेणाहं रक्षायै भवतोऽधुना ॥ १़२१