पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४ ।]
३५
कथामुखलम्बकः २ ।

जेन्दं प्राप्स्यामि प्रतिमल्लं नडागिरेः । ततश्चण्डमहासेनो वश्यो भवति से ध्रुवम् ॥ १०

|सवदत्तां तां स स्वयं से प्रयच्छति । इति संचिन्तयन्सोऽथ राजा तामनयन्निशाम् ॥ ११

मग्निवचनं न्यक्कृत्वा गजतृष्णया । पुरस्कृत्यैव तांश्चारान्ययौ विन्ध्याटवीं प्रति ॥ १२

नस्य फलं कन्यालाभं सबन्धनम् । यदूचुर्गणकास्तस्य तत्स नैव व्यचारयत् ॥ १३

फेध्याटवीं तस्य गजस्य क्षोभशङ्कया । वत्सराजः स सैन्यानि दूरादेव न्यवारयत् ॥ १४

त्रसहायस्तु वीणां घोषवतीं दधत् । निजव्यसनविस्तीर्णं तां विवेश महाटवीम् ॥ १५

य दक्षिणे पार्श्व दुराचारैः प्रदर्शितम् । गजं सत्यगजाभासं तं ददर्श स भूपतिः ॥ १६

वादयन्वीणां चिन्तयन्बन्धनानि सः । मधुरध्वनि गायंश्च शनैरुपजगाम तम् ॥ १७

इत्तचित्तत्वात्संध्याध्वान्तवशाच्च सः । न तं वनगजं राजा मायागजमलक्षयत् ॥ १८

हती तमुत्कर्णतालो गीतरसादिव । उपेत्योपेत्य विचलन्दूरमाकृष्टवानृपम् ॥ १९

स्माच्च निर्गत्य तस्माद्यत्रमयाद्रजात् । वत्सेश्वरं तं संनद्धः पुरुषाः पर्यवारयन् ॥ २०

नृपतिः कोपाद कृष्टच्छुरिकोऽथ सः । अग्रस्थान्योधयन्नन्यैरेत्य पश्चादगृह्यत ॥ २१

पलितैश्चान्यैर्योधास्तैः सैनिकैः सह । निन्युर्वत्सेश्वरं चण्डमहासेनान्तिकं च तम् ॥ २२

चण्डमहासेनो निर्गत्याने कृतादरः। वत्सेशेन समं तेन विवेशोज्जयिनीं पुरीम् ॥ २३

ददृशे पौरैरवमानकलङ्कितः। शशीव लोचनानन्दो वत्सराजो नवागतः ॥ २४

गुणरागेण वधमाशङ्कय तत्र ते । पौराः संभूय सकलाश्चक्रुर्मरणनिश्चयम् ॥ २५

सेश्वरो वध्यः संधेय इति तान्ब्रुवन् । सोऽथ चण्डमहासेनः पौरान्क्षोभाद्वारयत् ॥ २६

सवदत्तां तां सुतां तत्रैव भूपतिः। वत्सराजाय गान्धर्वशिक्षाहेतोः समर्पयत् ॥ २७

वैनं गान्धर्वं त्वमेतां शिक्षय प्रभो। ततः प्राप्स्यसि कल्याणं मा विषादं कृथा इति ॥ २८

सा तु तां कन्यां वत्सराजस्य मानसम् । तथा स्नेहाक्तमभवत्र यथा मन्युमैक्षत ॥ २९

चक्षुर्मनसी सह तं प्रति जग्मतुः । हिया चक्षुर्निववृते मनस्तु न कथंचन ॥ ३०

सवदत्तां तां गापयंस्तद्रतेक्षणः । तत्र गान्धर्वशालायां वत्सराज उवास सः ॥ ३१

षवती तस्य कण्ठे गीतधृतिस्तथा । पुरो वासवदत्ता च तस्थौ चेतोविनोदिनी ॥ ३२

सवदत्तास्य परिचर्यापराभवत् । लक्ष्मीरिव तदेकाग्रा बद्धस्याप्यनपायिनी ॥ ३३

  1. च कौशाम्यां वत्सराजानुगे जने । आवृत्ते तं प्रभु बुद्ध बद्धं राष्ट्री प्रचुक्षुभे ॥ ३४


यामवस्कन्दं दातुमैच्छन्समन्ततः । वत्सेश्वरानुरागेण क्रुद्धाः प्रकृतयस्तदा ॥ ३५

इमहासेनो बलसाध्यो महान्हि सः। न चैवं वत्सराजस्य शरीरे कुशलं भवेत् ॥ ३६

युक्तोऽवस्कन्दो बुद्धिसाध्यमिदं पुनः। इति प्रकृतयः क्षोभात्रयवार्यन्त रुमण्वता ॥ ३७

क्तमालोक्य राष्ट्रमव्यभिचारि तत् । रुमण्वदादीनाह स धीरो यौगन्धरायणः ॥ ३८

र्युष्माभिः स्थातव्यं सततोद्यतैः । रक्षणीयमिदं राष्ट्र काळे कार्यंश्च विक्रमः ॥ ३९

द्वितीयश्च गत्वाहं प्रज्ञया स्वया । वत्सेशं मोचयित्वा तमानयामि न संशयः ॥ ४०

विशेषेण वैद्युताग्नेरिव द्युतिः। आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ॥ ४१

अनान्योगांस्तथा निगडभञ्जनान् । अदर्शनप्रयोगश्च जानेऽहमुपयोगिनः॥ ४२

प्रकृतीः कृत्वा हस्तन्यस्ता रुमण्वतः। यौगन्धरायणः प्रायात्कौशाम्ब्याः सव सन्तकः ॥ ४३

च तेनैव सह विन्ध्यमहाटवीम् । स्वप्रज्ञामिव सत्वायां स्वनीतिमिव दुर्गमाम् ॥ ४४

शामित्रस्य विन्ध्यप्राग्भारवासिनः । गृहं पुलिन्दकारूपस्य पुलिन्दाधिपतेरगात् ॥ ४५

स्थापयित्वा च पथा तेनागमिष्यतः । वत्सराजस्य रक्षार्थं भूरिसैन्यसमन्वितम् ॥ ४६

अन्तकसखस्ततो यौगन्धरायणः। उज्जयिन्यां महाक ।ळश्मशानं प्राप स क्रमात् ॥ ४७

च वेतालैः क्रव्यगन्धिभिरावृतम् । इतस्ततस्तमःश्यामैश्चिताधूमैरिवापरैः ॥ ४८