सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
[ बादितस्तरङ्गः
कथासरित्सागरः ।

स्वां चेन्निपातयेत्कश्चित्ततो मे का गतिर्भवेत् । एतदुःखं समेत्येवं स च वाच्यस्त्वया ततः ॥

एवं कृतेऽस्ति कल्याणं तवापि च ममापि च । इत्युक्ता तेन सा राज्ञा तथेत्यङ्गीचकार तम् ॥

तं च च्छन्नमवस्थाप्य राजानं पापशङ्किनी । अगादसुरकन्या सा प्रसुप्तस्यान्तिकं पितुः ॥

सोऽपि दैत्यः प्रबुबुधे प्रारेभे सा च रोदितुम् । किं पुत्रि रोदिषीत्येवं स च तामब्रवीत्ततः ॥

इन्यात्त्वां कोऽपि चेत्तात तदा मे का गतिर्भवेत् । इल्याणं तमवादीत्सा स विहस्य ततोऽब्रवीत् ॥

को मां व्यापादयेत्पुत्रि सर्वो वश्रमयो ह्यहम् । वामहस्तेऽस्ति मे छिद्रं तच्च चापेन रक्ष्यते ॥

इत्थमाश्वासयामास स दैत्यस्तां निजां सुताम् । एतच्च निखिलं तेन राज्ञा छन्नेन शुश्रुवे ॥

ततः क्षणादिवोत्थाय कृत्वा स्नानं स दानवः। कृतमौनः प्रववृते देवं पूजयितुं हरम् ॥

तत्कालं प्रकटीभूय स राजाकृष्टकार्मुकः । उपेत्य प्रसभं दैत्यं रणायाह्वयते स्म तम् ॥

सोऽप्युत्क्षिप्य करं वामं मौनस्थस्तस्य भूपतेः । प्रतीक्षस्व क्षणं तावदिति संज्ञां तदकरोत् ॥

राजापि लुघुहस्तत्वात्करे तत्रैव तत्क्षणम् । तस्मिन्मर्मणि तं दैत्यं पृषत्केन जघान सः ॥

स च मर्माहतो घोरं राधं कृत्वा महासुरः । अङ्गारकोऽपतद्रुमौ निर्यज्जीवो जगाद च ॥

तृषितोऽहं हतो येन स मामद्भिर्ने तर्पयेत् । प्रत्यब्दं यदि तत्तस्य नश्येयुः पञ्च मन्त्रिणः ॥

इत्युक्त्वा पश्तां प्राप स वैल्यः सोऽपि तत्सुताम् । तासङ्करवतीं राजा' गृहीत्वोजयिनीं ययौ ॥

रिणीतवतस्तस्य तत्र तां दैत्यकन्यकाम् । जातौ द्वौ तनयौ चण्डमहासेनस्य भूपतेः ॥

प्रको गोपालको नाम द्वितीयः पालकस्तथा । तयोरिन्द्रोत्सवं चासौ जातयोरकरोनृपः ॥

लतस्तं नृपतिं स्वप्ने तुष्टो वंति स्म वासवः । प्राप्स्यस्यनन्यसदृशीं मत्प्रसादात्सुतामिति ॥

ततः कालेन जातास्य राज्ञः कन्या तु तन्ख्यथ । अपूर्वा निर्मिता धात्र चन्द्रस्येवापरा तनुः ॥

कामदेवावतारोऽस्याः पुत्रो विद्यार्धराधिपः ।भविष्यतीति तत्कालमुदभूद्भारती दिवः ॥

दत्ता मे वासवेनैषा तुष्टेनेति स भूपतिः । नाना वासवदत्तां तां तनयामकरोत्तदा ॥

सा च तस्य पितुर्गेहे प्रदेया संप्रति स्थिता । प्राङन्थार्णवस्येव कमला कुक्षिकोदरे ॥

एवंविधप्रभावश्चण्डमहसेनभूपतिः स किल ।
दैत्र न शक्यो जेतुं यथा तथा दुर्गदेशस्थः ॥

किं च स राजवाञ्छति दातुं तुभ्यं सदैव तनयां ताम् ।
प्रार्थयते तु स राजा निजपक्षमहोदयं मानी ॥

सा चावश्यं मन्ये वदत्त खयैव परिणीया ।
स सपदि वासवदत्ताहृतहृद्यो वत्सराजोऽभूत् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे तथामुखलम्बके तृतीयस्तरङ्गः ।

*****


चतुर्थस्तरङ्गः ।


अत्रान्तरे स वरसेशप्रतिदूतस्तदब्रवीत् । गत्वा प्रतिवचश्चण्डमहासेनाय भूभृते ॥

सोऽपि चण्डमहासेनस्तच्छुत्वैव व्यार्चन्तयत् । स तावदिह नायाति मानी वरसेश्वरो भृशम् ॥

कन्या हि तत्र न प्रेष्या भवेदेवं हि लघवम्। तस्माद्वत्रैव तं युक्त्या नृपमानाययाम्यहम् ॥

इति संचिन्त्य संमर्जुय स राजा मत्रिभिः सह । अकारयत्स्वसदृशं महान्तं यन्नहस्तिनम् ॥

तं चान्तर्वीरपुरुपैः कृत्वा छनैरधिष्ठितम् । विन्ध्याटव्यां स निदधे राजा यलमयं गजम् ॥

तत्र तं चारपुरुषः पश्यन्ति स्म विदूरतः । गजबन्धरसास क्तवत्सराजोपजीविनः ॥

ते च स्वरितभागल्यं वत्सराजं व्यजिज्ञपन् ! देव दृष्टो गजोऽस्माभिरेको विन्ध्यवने भ्रमन् ॥

अंस्मिन्नियति भूलोके नैवं योऽन्यन्न दृश्यते । वर्मणा व्याप्तगगनो विन्ध्याद्रिरिव जङ्गमः ॥

ततैश्वरवचः श्रुत्वां वत्सराजो जहर्ष सः ।,तेभ्यः सुवर्णलभं च प्रददौ पारितोषिकम् ॥