सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३ ।]
३३
कथासुखलम्बकः २ ।

तत्तेन संदिष्टं सर्प मम भूभुजा । एवं संदिशतस्तस्य कोऽभिप्रायो दुरात्मनः ॥ २१

तो वत्सराजेन तदा यौगन्धरायणः। उवाचैनं महामन्त्री स स्वामिहितनिष्टुरः ॥ २२

व्यसनिताख्यातिः प्ररूढ ते लतेव या । इदं तस्या महाराज कषायकटुकं फलम् ॥ २३

त्वां रागिणं मत्वा कन्यारत्नेन लोभयन् । नीत्वा चण्डमहासेनो बद्धा स्वीकर्तुमिच्छति ॥ २४

च व्यसनानि त्वं सुखेन हि परैर्नूपाः । सीदन्तस्तेषु गृह्यन्ते खातेष्विव वनद्विपाः ॥ २५

को मत्रिणा धीरः प्रतिदूतं व्यसर्जयत् । स वत्सराजस्तं चण्डमहासेननृपं प्रति ॥ २६

वेश च यद्यस्ति वाञ्छा मच्छिष्यतां प्रति । स्वपुत्र्यास्तदिहैवैषा भवता प्रेष्यतामिति ॥ २७

कृत्वा च सचिवान्वत्सराज जगाद सः । यामि चण्डमहासेनमिह बद्धानयामि तम् ॥ २८

त्वा तमुवाचार्यो मन्त्री यौगन्धरायणः । न चैतच्छक्यते राजन्कर्तुं नैव च युज्यते ॥ २९

३ प्रभाववान्राजा स्वीकार्यश्च तव प्रभो । तथा च तद्तं सर्वे ऋण्घिदं कथयामि ते ॥ ३०

होज्जयिनी नाम नगरी भूषणं भुवः। हसन्तीव सुधाधौतैः प्रासादैरमरावतीम् ॥ ३१

वसति विवेशो महाकालवपुः स्वयम् । शिथिलीकृतकैलासनिवासव्यसनो हरः ॥ ३२

महेन्द्रवर्माख्यो राजाभूत्रभृतां वरः । जयसेनाभिधानोऽस्य बभूव सदृशः सुतः ॥ ३३

फेनस्य तस्याथ पुत्रोऽप्रतिमदोषलः । समुत्पन्नो महासेननामा नृपतिकुञ्जरः ॥ ३४

य राजा स्वराज्यं तत्पालयन्समचिन्तयत् । न मे खङ्गोऽनुरूपोऽस्ति न च भार्या कुलोद्भता ॥ ३५

संचिन्त्य स नृपश्चण्डिकागृहमागमत् । तत्रातिष्टन्निराहारो देवीमाराधयंश्चिरम् ॥ ३६

याथ स्वमांसानि होमकर्म स चाकरोत् । ततः प्रसन्ना साक्षात्सा देवी चण्डी तमभ्यधात् ॥ ३७

स्मि ते गृहाणेमं पुत्र खङ्गोत्तमं मम । एतत्प्रभावाच्छनृणामजेयस्त्वं भविष्यसि ॥ ३८

चाङ्गारवतीं नाम कन्यां त्रैलोक्यसुन्दरीम् । अङ्गारकासुरसुतां शीघ्र भार्यामवाप्स्यसि ॥ ३९

व चण्डं कमेंह कृतं चैतद्यतस्त्वया । अतश्चण्डमहासेन इत्याख्या ते भविष्यति ॥ ४०

गत्वा दत्तखन्ना सा देवी तस्य तिरोऽभवत् । राज्ञः संकल्पसंपत्तिदृष्टिराविरभूत्पुनः ॥ ४१

ज्ञो मत्तहस्तीन्द्रो नडागिरिरिति प्रभो । द्वे तस्य रन्ने शक्रस्य कुलिनैरावणाविव ॥ ४२

प्रभावात्सुखितः कदाचित्सोऽथ भूपतिः । अगाचण्डमहासेनो मृगयायै महाटवीम् ॥ ४३

प्रमाणं तत्रैकं वराहं घोरमैक्षत । नैशं तम इवाकाण्डे दिवा पिण्डत्वमागतम् ॥ ४४

राहः शरैरस्य तीक्ष्णैरप्यकृतव्रणः । आहत्य स्यन्दनं राज्ञः पलाय्य बिलमाविशत् ॥ ४५

पि रथमुत्तृज्य तमेवानुसरन्छुधा । धनुर्तृतीयस्तत्रैव प्राविशत्स बिळान्तरम् ॥ ४६

प्रविश्य चापश्यत्कान्तं पुरवरं महत् । सविस्मयो न्यषीदच्च तदन्तर्दीर्घिकातटे ॥ ४७

यः कन्यकामेकामपश्यत्स्त्रीशतान्विताम् । संचरन्तीं स्मरस्येव धैर्यनिर्भदिनीमिषम् ॥ ४८

प्रेमरसासारवषिणा चक्षुषा मुहुः। स्नपयन्तीव राजानं शनकैस्तमुपागमत् ॥ ४९

सुभग कस्माच प्रविष्टोऽसीह सांप्रतम् । इत्युक्तः स तया राजा यथातत्त्वमवर्णयत् ॥ ५०

त्वा नेत्रयुगलसरागादधुसंततिम् । हृदयाीरंतां चापि समं कन्या मुमोच सा ॥ ५१

वं रोदिषि कस्माच्च पृष्टा तेनेति भूभृता । सा तं प्रत्यब्रवीदेवं मन्मथाज्ञानुवर्तिनी ॥ ५२

राहः प्रविष्टोऽत्र स दैत्योऽङ्गारकाभिधः । अहं चैतस्य तनया नामाङ्गारवती नृप ॥ ५३

शरमयश्चासौ राजपुत्रीरिमाः शतम् । आच्छिद्य राज्ञां गेहेभ्यः परिवारं व्यधान्मम ॥ ५४

वैष राक्षसीभूतः शापदोषान्महासुरः । तृष्णाश्रमार्तश्चाद्य त्वां प्राप्यापि त्यक्तवानयम् । ५५

तं चास्तवाराहरूपो विश्राम्यति स्वयम् । सुप्तोत्थितश्च नियतं त्वयि पापं समाचरेत् ॥ ५६

मे तव कल्याणमपश्यन्त्या गलन्त्यमी । संतापकथिताः प्राणा इव बाष्पाम्बुबिन्दवः ॥ ५७

गरवतीवाक्यं श्रुत्वा राजा जगाद ताम् । यदि मय्यस्ति ते स्नेहस्तदिदं मद्वचः कुरु ॥ ५८

स्यास्य गत्वा त्वं रुदिहि स्वपितुः पुरः। ततश्च नियतं स त्वां पृच्छेदुद्वेगकारणम् ॥ ५९