पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[आदितस्तरङ्गः १
कथासरित्सागरः ।

ददर्श कल्पितातिथ्ये जमदग्नि च तत्र तम् । प्रणतः पाचनालोकमाकारं तपसामिव ॥ २०४

च तस्मै मुनी राजे सपुत्रां तां समर्पयत् । चिशन्मृगावतीं राज्ञीं सानन्दामिव निधृतिम् ॥ २०५

शापान्ते तञ्च दंपत्योस्तयोरन्योन्यर्शनम् । आनन्दबाष्पपूर्णायां ववर्षेवामृतं दृशि ॥ २०६

तत्पूर्वदर्शनं पुत्रमालिङ्ग्योदयनं स तम् । मुमोव नृपतिः कुच्छूद्रोमाञ्चेनेव कीलितम् ॥ २०७

ततः सोदयनां राज्ञीं तामाद्य मृगावतीम् । आ तपोवनमुद्वपैरनुयातो मृगैरपि ॥ २०८

आमन्त्र्य जमनिं च प्रतस्थे' स्वां पुरीं प्रति । प्रशान्तादाश्रयन्तस्मात्सहस्रानीकभूपतिः ॥ २०९

शृण्वन्विरह्रवृत्तानि प्रियाया वर्णयंश्च सः । उत्तोरणपताकां तां कौशाम्बीं प्राप्तवान्क्रमात् ॥ २१०

समं च पत्नीपुत्राभ्यां प्रविवेश स तां पुरीम् । पीयमान इवोत्पक्ष्मराजिभिः पौरलोचनैः ॥ २११

अभ्यषिञ्चच्छ तं तत्र झगित्युदयनं सुतम् । यौवराज्ये महाराजः प्रेर्यमाणः स तद्वरैः ॥ २१२

स्वमत्रिपुत्रांस्तस्मै स मत्रहेतोः समर्पयत् । बसन्तकरुमण्वन्तौ तथा यौगन्धरायणम् ॥ २१३

एभिर्मत्रिवरैरेष कृत्नां प्राप्स्यति मेदिनीम् । इति वागुदभूद्दिव्या पुष्पवृष्या समं तदा ॥ २१४

सतः सुते न्यरतभरः स राजा चिरकाङ्कितम् । जीवलोकसुखं भेजे मृगावत्या तया सह ॥ २१५

अथ तस्य जरां प्रशान्तदूतीमुपयत क्षितिपस्य कर्णमूलम् ।
सहसैव विलोक्य जातकोपा बत दूरे विषयस्पृहा बभूव ॥ २१६

ततस्तं कल्याणं तनयमनुरक्तप्रकृतिकं निवेश्य स्वे राज्ये जगदुदयहेतोरुयनम् ।
सहस्रानीकोऽसौ सचिवसहितः सप्रियतमो महाप्रस्थानय क्षितिपतिरगच्छद्धिमगिरिम् ॥ २१७

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्वके द्वितीयस्तरङ्गः ।

*****


तृतीयस्तरङ्गः



ततः स वत्सराज्यं च प्राप्य पित्रा समर्पितम् । कौशाम्ब्यवस्थितः सम्यक्छशासोदयनः प्रजाः ॥ १

यौगन्धरायणावेषु भरं विन्यस्य मत्रिषु । वभूव स शनै राजा मुखेष्वेकान्ततत्परः ॥ २

सदा सिषेवे मृगयां वीणां घोषवतीं च ताम् । दत्तां वासुकिना पूर्वे नक्तंदिनमबादयत् ॥ ३

ततीकलनिह्रदमोहमन्नवशीकृतान् । आनिनाय च संयस्य सदा मत्तान्बनद्विपान् ॥ ४

स वारनारीचक्रेन्दुप्रतिमालंकृतां सुताम् । मन्त्रिणां च मुखच्छायां वत्सराजः समं पपौ ॥ ५

कुह्नरूपानुरूपा मे भार्या कापि न विद्यते । एका वासवदत्ताख्या कन्यका शूयते परम् ॥ ६

कथं प्राप्येत सा चेति चिन्तामेकामुवाह सः । सोऽपि चण्डमहासेन उज्जयिन्यामचिन्तयन् ॥ ७

तुल्यो मदुहितुर्भर्ता जगत्यस्मिन्न विद्यते । अस्ति चोदयनो नाम विपक्षः स च मे सदा ॥ ८

तत्कथं नाम जामाता वश्यश्च स भवेन्मम । उपायस्त्वेक एवास्ति यदटव्यां भ्रमत्यसौ ॥ ९

एकाकी द्विरदान्बभ्रन्मृगयाव्यसनी नृपः । तेन च्छिद्रेण तं युक्त्यावष्टभ्यानाययाम्यहम् ॥ १०

गान्धर्वज्ञस्य तस्यैतां सुतां शिष्यीकरोमि च। ततश्वास्यां स्वयं तस्य चक्षुः निवेदसंशयम् ॥ ११

एवं स मम जामाता वश्यश्च नियतं भवेत् । नान्योऽस्त्युपायः कोऽप्यत्र येन वश्यो भवेच्च सः ॥ १२

इति संचिन्त्य तत्सिद्ध्यै स गत्वा चण्डिकागृहम् । चण्डीमभ्यर्य तुष्टाव चक्रेऽस्या उपयचितम् ॥ १३

एतत्संपत्स्यते राजन्न चिराद्वाञ्छितं तव । इति शुश्राव तत्रासचशरीरां सरस्वतीम् ॥ १४

ततस्तुष्टः समागत्य बुद्धदत्तेन मत्रिणा । सह चण्डमहसेनस्तमेवर्थमचिन्तयत् ॥ १५

मानोद्धतो वीतलोभो रक्तभूयो महाबलः । असाध्योऽपि स सामादेः साम्ना तावन्निरूप्यताम् १६

इति संमत्र्य स नृपो दूतमेकं समादिशत् । गच्छ मद्वचनाद्रुहि वत्सराजमिदं वचः ॥ १७

मत्पुत्री तब गान्धर्वं शिष्या भवितुमिच्छति । स्नेहस्तेऽस्मासु चेत्तत्वं तामिहैवैत्य शिक्षय ॥ १८

इत्युक्वा प्रेषितस्तेन दूतो गत्वा न्यवेदयत् । कौशाम्ब्यां वदसराजाय संवेशं तं तथैव सः ॥ १९

वरसराजोऽपि तच्छुत्वा दूतादनुचितं वचः। यौगन्धरायणस्येदमेकान्ते मत्रिणोऽब्रवीत् ॥ २०