पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
:३६
[ आदितस्तरी
कथासरित्सागरः ।

तत्रैनं दर्शनप्रीतो मित्रभावाय तक्षणम् । योगेश्वराख्यो वृतवानभ्येत्य ब्रह्मराक्षसः ॥ ४९

तेनोपदिष्टया युक्त्या ततो यौगन्धरायणः । स चकारास्मनः सद्यो रूपस्य परिवर्तनम् ॥ ५०

बभूव तेन विकृतः कुञ्जो वृद्धश्च तत्क्षणात् । उन्मत्तवेषः खल्वाटो. हास्यसंजननः परम् ॥ ५१

तथैव युक्त्या स तदा सिरानद्धपृथूदरम् । चक्रे वसन्तकस्यापि रूपं दन्तुर्दुर्मुखम् ॥ ५२

ततो राजकुलद्वारमादौ प्रेष्य वसन्तकम् । विवेशोजयिनीं तां स तादृग्यौगन्धरायणः ॥ ५३

नृत्यन्नायंश्च तत्रास बटुभिः परिवारितः । दृष्टः सकौतुकं सधैर्ययौ राजगृहं प्रति ॥ ५४

तत्र राजावरोधानां तेनासौ कृतकौतुकः । अगाद्वासवदत्तायाः शनैः श्रवणगोचरम् ॥ ५५

सा समानाययामास चेटिकां प्रेष्य सत्वरम् । गान्धर्वशालां नर्मुकसादरं हि नवं वयः ॥ ५६

स च तत्र गतो बद्धं वत्सराजं ददर्श तम् । उन्मत्सवेषो विगलद्वष्पो यौगन्धरायणः ॥ ५७

चकार तस्मै संज्ञां च वत्सराजाय सोऽपि तम् । प्रत्यभिज्ञातवान्राजा वेषप्रच्छन्नमगतम् ॥ ५८

ततो वासवदत्तां च तचेटीः प्रति चात्मनः । अदर्शनं युक्तिबलाव्यधायौगन्धरायणः ॥ ५९

राजा त्वेको ददर्शनं ताश्च सर्वाः सविस्मयम् । वदन्ति स्म गतोऽकस्मादुन्मत्तः काप्यसाविति ॥ ६०

तच्छुत्वा तं च दृष्ट्वाग्रे मत्वा योगबलेन तत् । युक्या वासवदत्तां तां वत्सराजोऽब्रवीदिदम् ॥ ६१

गत्वा सरस्वतीपूजामादायागच्छ दारिके । तच्छुत्वा सा तथेत्युक्त्वा सवयस्या विनिर्ययौ ॥ ६२

यथोचितमुपेत्याथ ददौ वत्सेश्वराय सः। यौगन्धरायणंस्तस्मै योगान्निगडभञ्जनान् ॥ ६३

अन्यान्बासवदत्ताया वीणातीनियोजितान् । वशीकरणयोगांश्च राज्ञेऽस्मै स समार्पयत् ॥ ६४

व्यजिज्ञपच तं राजन्निहयातो वसन्तकः । द्वारि स्थितोऽन्यरूपेण तं कुरुष्वान्तिके द्विजम् ॥ ६५

यदा वासवत्तेयं त्वयि विस्रम्भमेष्यति । तदा वक्ष्यामि यदहं तत्कुर्यास्तिष्ट सांप्रतम् ॥ ६६

इत्युक्स्त्र निर्ययौ शीघ्र ततो यौगन्धरायणः । आगाद्वासवदत्ता च पूजामादाय तत्क्षणात् ॥ ६७

सोऽथ तामवदद्राजा बहिर्घरि द्विजः स्थितः । सरस्वत्यर्चने सोऽस्मिन्दक्षिणार्थं प्रवेश्यताम् ॥ ६८

तथेति द्वारदेशास तत्र वासवदत्तया । विरूपमाकृतिं बिभ्रदानाय्यत त्रसन्तकः ॥ ६९

स चानीततमालोक्य वत्सेशमरुच्छुचा । ततश्चाप्रतिभेदाय स राजा निजगाद तम् ॥
७०
हे अह्मभ्रोगवैरूप्यं सर्वमेतदहं तव । निवारयामि मा रोदीस्तिष्ठहैव ममान्तिके ॥ ७१

महान्प्रसावो देवेति स चोवाच सन्तकः। सोऽथ तं विकृतं दृष्ट्वा राजा स्मितमुखोऽभवत् ॥ ७२

तचालोक्याशयं वृद्वा तस्य सोऽपि वसन्तकः। हसति स्माधिकोङ्कतविरूपाननौक़सः ॥ ७३

तं हसन्तं तथा दृष्ट्वा क्रीडनीयकसंनिभम् । तत्र वासवदत्तापि जहास च तुतोष च ॥ ७४

ततः सा नर्मणा बाळा तं पप्रच्छ वसन्तकम् । किं विज्ञानं विजानासि भो ब्रह्मन्कथ्यतामिति ॥ ७५

कथाः कथयितुं देवि जानामीति स चावदत् । कथां कथय तत्रैकामिति सापि ततोऽब्रवीत् ॥ ७६

ततस्तां राजतनयां रञ्जयन्स बसन्तकः । हास्यवैचित्रसरसामिमामकथयत्कथाम् ॥ ७७

अस्तीह मथुरा नाम पुरी कंखारिजन्मभूः । तस्यां रूपणिकेल्यासीत्ख्याता वारविलासिनी ॥ ७८

तस्या मकरदंष्ट्रख्या माताभूद्रुद्धकुट्टनी । तदुणाकृष्यमाणानां यूनां दृशि विषच्छटा ॥ ७९

पूजाकाले सुरकुलं स्वनियोगाय जातु सा । गता रूपणिका दूरादेकं पुरुषमैक्षत ॥ ८०

स दृष्टः सुभगस्तस्या विवेश हृद्यं तथा । यथा मात्रा कृतास्तेऽस्मादुपदेशा विनिर्ययुः ॥ ८१

चेटिकामथ सावादीद्गच्छ मद्वचनादभुम् । पुरुषं ब्रूहि मद्देहे त्वयाद्यागम्यतामिति ॥ ८२

तथेति चेटिका सा च गत्वा तस्मै तद्ब्रवीत् । ततः स किंचिद्विमृशन्पुरुषस्तामभाषत ॥ ८३

लोहज ह्यभिधानोऽस्मि ब्राह्मणो नास्ति मे धनम् । तदाढ्यजनलये हि कोऽहं रूपणिकागृहे ॥ ८४

न धनं वाञ्छयते त्वत्तः स्वामिन्येत्युदिते तथा । स लोहजच्चस्तद्वाक्यं तथेति प्रत्यपद्यत ॥ ८५

ततश्श्रेढीमुखाद्धं तच्च सा गृहमुत्सुका । गत्वा रूपाणिका तस्थौ तन्मार्गन्यस्तलोचना ॥ ८६

क्षणाच छहजङ्घेऽथ तस्या मन्दिरमाययौ । कुतोऽयमिति कुट्टन्या दृष्टो मकरदंष्ट्रया ॥ ८७