सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०४
[ आदितस्तरङ्गः
कथासरित्सागरः ।

यान्ती कष्यनिमालोक्य ज्वलन्तं सा प्रदक्षिणम् । नरवाहनदत्तस्य तस्यादाय करं व्यधात् ॥
तेनोद्वाहविधिं युक्त्या प्रौढा सा निरवर्तयत् । संकल्पैकप्रधाना हि दिव्यानामखिलाः क्रियाः ॥
ततो नभस्तलात्तस्य पृथिवीं वेदिकामिव । नदीभुजंगीसदृशीर्वल्मीकानिव पर्वतान् ॥
तानि तानि तथान्यानि कौतुकानि पदे पदे । दर्शयन्ती प्रियस्यात्र ययौ दूरं क्रमेण सा ॥
आकाशगमनश्रान्ते तृषार्तेऽस्मिञ्जलार्थिनि। नरवाहनदत्ते सा व्योममार्गावातरत् ॥
निनाय च वनान्तं तं चन्द्रांशुधवलाम्भसः। राजतेन द्रवेणेव भृतस्य सरसोऽन्तिकम् ॥
तत्र शान्तं जलतृषा तस्य पीताम्भसो वने । उत्पन्नं रमणीये तु कान्तासंभोगतृष्णया ॥
ततो हठार्थिता कृच्छूसंभोगे सा प्रभावती । सानुक्रोशा कृताश्वसां ध्यात्वा मदनमञ्चकाम् ॥
नरवाहनदत्तस्य तस्य प्रववृते तदा। परार्थप्रतिपन्ना हि नेक्षन्ते स्वार्थमुत्तमाः ॥
जगाद तं च मा संस्था आर्यपुत्र त्वमन्यथा । अभिप्रायो ममास्तीह तथा चात्र कथां श्रुणु ॥
पुरा पाटलिपुत्रेऽभूत्कापि जी मृतभर्तृका। बालैकपुत्रा तरुणी निर्धना रूपशालिनी ॥
सा चात्मपरितोषाय परपूरुषसंगमम् । विधाना ययौ गेहाद्रात्रौ रात्रौ यतस्ततः ॥
मोदकं पुत्र ते प्रातरानेष्यामीति तं सुतम् । बालं चाश्वास्य सायासीत्तं च सान्वहमानयत् ॥
स च बालो गृहे तूष्णीं तयासीन्मोदकाशया । एकदा न तयानीतो विस्मृत्यास्य स मोदकः ॥
याचमानं च तं बालं मोदकं सा किलाब्रवीत् । अहं स्वकामुकं वेड् िमोकं नापरं सुत ॥
तच्छुत्वा नानयानीतो मोदको मेऽन्यसक्तया । इति तस्य निराशस्य शिशोर्दूदयमस्फुटत् ॥
तदहं प्रिय पूर्वे त्वां सुतरां स्वीकरोमि चेत् । तन्मयैव कृताश्वसा त्वत्संगममहोत्सवे ॥
मत्त एव निराशा चेद्रुद्धा मनमञ्चका । भवेत्तद्धृदयं तस्याः स्फुटेत्कुसुमपेशलम् ॥
तदेतेनानृशंस्येन तामनाश्वास्य संप्रति । न तथाभिलषामि त्वामपि प्राणाधिकं प्रियम् ॥
इत्युक्तः स प्रभावत्या तया सानन्दविस्मयः। नरवाहनदत्तोऽत्र तत्कालं समचिन्तयत् ॥
अहो नवनवाश्चर्यनिर्माणे रसिको विधिः। अचिन्त्योदारचरिता येन सृष्टा प्रभावती ॥
इति ध्यायन्स तां प्रेम्णा स्तुत्वा राजसुतोऽब्रवीत् । तर्हि मां नय सा यत्र स्थिता मदनमञ्चका ॥
तच्छूखा च गृहीत्वा तं नभसा सा प्रभावती । क्षणेन प्रापयामास तमाषाढपुरं गिरिम् ॥
तत्र संगमयामास तेन शुष्यत्ततुं चिरात् । पूरेणैव नदीं वृष्टिः सा तां मदनमधूकाम् ॥
सोऽप्यपश्यद्वियोगार्ता कान्तां तां कुशपाण्डुराम्। नरवाहनदत्तोऽत्र पर्वणीन्दुकलामिव ॥
स तदा प्राणलाभाय तयोरन्योन्यसंगमः । बभूव जगदानन्दी शर्वरीशशिनोरिव ॥
विरहानलसंतप्तावाविष्टौ दंपती च तौ । स्वेदच्छलद्रवीभूतावेकतामिव जग्मतुः ॥
ततः प्रभावतीविद्याबलेन निशि कल्पितान् । बुभुजातेऽत्र तौ सद्यः स्वैरं भोगानुभावपि ॥
न ददर्श च तद्विद्याबलेनैवात्र कश्चन । नरवाहनदत्तं तं विना मदनमधूकाम् ॥
प्रातस्तं चात्र मुच्यन्तमेकवेणी निजं प्रियम् । सा जगादाहितामर्षवशान्मदनमञ्चका ॥
हते मानसवेगेऽसौ मोक्तव्यार्यसुतेन मे । मृतायाः पक्षिभिर्वापि वेणी दाथवाग्निना ॥
इति प्रतिज्ञातमभून्मया साद्य मम स्वया । जीवत्यस्मिन्नृपे मुक्ता तेन मे दूयते मनः ॥
क्षिप्तोऽपि न मृतो वेष वेगवत्याग्निपर्वते । त्वं चादृश्यः प्रभावत्या विहितोऽत्र स्वमायया ॥
अन्यथा त्वत्समीपे हि शत्रोरस्यानुशायिनः। इहैते संचरन्तोऽद्य त्वां सहेरन्विलोक्य किम् ॥
एवमुक्तस्तया पत्न्या साध्व्या काळानुरोधवान् । नरवाहनदत्तोऽथ सान्त्वयन्स जगाद ताम् ॥
संपत्स्यतेऽयं कामस्ते हनिष्याम्यचिरादमुम् । शठं विद्याः समासाद्य प्रतीक्षस्व मनाक्प्रिये ॥
इत्याद्युक्त्वा समाश्वास्य स तां मदनम धुकाम् । नरवाहनदत्तोऽत्र तस्थौ वैद्याधरे पुरे ॥
अथ प्रभावती तस्य चक्रे विद्याप्रभावतः । अत” रूपमात्मीयं स्वयमन्तर्हिता सती ॥
स तदूपेण तत्रासीद्राजपुत्रो यथासुखम्। अशङ्कितः प्रकाशोऽपि तद्विद्यसिद्धभोगभुक् ॥