पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९६
[ आदितस्तरङ्गः
कथासरित्सागरः ।

नास्मिञ्जन्मनि भूतश्चैस्त्वं वराय क्षमो मम । जन्मान्तरेऽपि तत्कुर्याः कृपां रतिपते मयि ॥
तथा प्रसादं कुर्वीथा यथा देहान्तरेऽपि मे । स एव भर्ता सुभगो भवेद्विप्रकुमारकः ॥
इत्युक्त्वा सावयोर्वाळा पश्यतोः पृण्वतोरपि । शङ्कौ कुरवोत्तरीयेण पाशं कण्ठे न्यवेशयत् ॥
उपत्य दर्शयात्मानमस्याः पाशं गलाद्धर । इत्युक्ततेन सख्याहमुपासर्प तदैव ताम् ॥
मा प्रिये साहसं पश्य सैष प्राणपणाजितः । आर्तिकालक्तसहजस्नेहो दासोऽप्रतस्तव ॥
इत्यहं व्याहरन्हर्षभरगङ्गदया गिरा । सुतनोस्त्वरितं तस्याः पाशं कण्ठादपाहरम् ॥
ततो मां वीक्ष्य सहसा यावत्सानन्दसाध्वसा । क्षणं तिष्ठति सा तावत्सोऽब्रवीन्मां द्रुतं सुहृत् ॥
दिनक्षयाप्रकाशेऽस्मिन्काले निर्गत्य याम्यहम् । वेषेण मदिरावत्या एतत्परिजनैः सह ॥
आवयोरुत्तरीयाभ्यां संवीतां त्वमिमां वधूम् । आदायागच्छ निर्गत्य द्वितीयद्वारबर्मना ॥
याहि देशान्तरं रात्रौ यथाकाममळक्षितः । मचिन्तां मा कृथा दैवं शिवं मम विधास्यति ॥
इत्युक्त्वोपात्तमदिरावतीवेषः सुह्रस मे । निर्गत्यैव ततः प्रायान्नक्तं तदनुगैर्युतः ॥
अहं च मदिरावल्यानर्घरत्नस्रजा समम् । द्वारेणान्येन निष्क्रम्य रात्र्या यातोऽस्मि योजनम् ॥
प्रातनिबीर्तिताहारः क्रमाद्भच्छन्दिनैरहम् । प्राप्तोऽचळपुरं नाम नगरं दयितासखः ॥
मित्रीभूय गृहे दत्ते तत्रैकेन द्विजन्मना । परिणीता मया साथै सत्वरं मदिरावती ॥
ततोऽत्र वसतः सिद्धयथेष्टसुखितस्य मे । किं स्यान्मित्रस्य मे वृत्तं तस्येत्येषाभवव्यथा ॥
तदनन्तरमेषोऽद्य दृष्टोऽकारणबान्धवः। मयेह गङ्गास्नानार्थमागतेनोत्तरायणे ॥
चिरं चैतं सवैलक्ष्यमिवाश्लिष्योपविश्य च। यावत्पृच्छामि वृतान्तं तावदेव इहागतः ॥
तमेतमपरं विद्धि प्राणदारप्रदं मम । कृच्छैकमिनं पार्श्वस्थं विप्रं वत्सेशनन्दन ॥
इति तेन यथावृत्ते विप्रेणैकेन वर्णिते । नरवाहनदत्तस्तमपृच्छदपरं द्विजम् ॥
तुट्मेिं ब्रूहि मुक्तस्त्वं तादृशात्संकटात्कथम् । मित्रार्युगणितप्राणा दुर्लभा हि भवादृशाः॥
एतत्तस्य वचः श्रुत्वा वत्सराजसुतस्य सः । द्वितीयोऽपि स्ववृत्तान्तं विप्रो वक्तुं प्रचक्रमे ॥
तदा ततो मां मदिरावतीवेषं विनिर्गतम् । देवागारात्तदनुगास्तद्वघ्या पर्यवारयन् ॥
आरोप्य शिबिकां तैश्च नृत्यवाद्यमदाकुलैः। नीतोऽस्मि सोमदत्तस्य भवनं विभवान्वितम् ॥
कचित्सद्वत्रभाराढ्यं संभृताभरणं कचित् । केचिन्निष्पन्नपकानं कचित्सजितवेदिकम् ॥
कचित्प्रगीतदासीकं कच्चिचारणसंकुलम् । लग्नवेलप्रतीकैश्च कचिदध्यासितं द्विजैः ॥
तत्रैकस्मिन्गृहे पान—वैः परिजनैरहम्। कृतावगुण्ठनो नक्तं वधूवुज्या प्रवेशितः ॥
उपविष्टं च मां तत्र वनिताः पर्यवारयन् । विवाहोत्सवसानन्दनानाचेष्टासमाकुलाः॥
क्षणावूरोपकण्ठे च मेखळानूपुरारवः। आश्रावि प्राविशचत्र कन्यैका ससखीजना ॥
नागीव विस्फुरद्रत्नमूर्धा धवळक चुका । अब्धिवीचीव लावण्यपूर्ण मुक्तावलीचिता ॥
उद्यानदेवता साक्षादिव सपुष्पमालिनी । सुपर्यबाहुलतिकाविराजत्करपल्लवा ॥
सा चागत्योपविष्टा मे पावें प्रियसखीधिया। पश्यामि यावत्सैवात्र चित्तचौरी समागता ॥
या सा शत्रहदे दृष्टा कन्या नानागता मया । त्राता गजादृष्टनष्टा मध्यलोकमगान्मम ॥
किमेतत्काकतालीयं किं स्वनः सत्यमेव वा । इति हर्षभरोद्धान्तस्तदा चाहमचिन्तयम् ॥
क्षणान्तरे च मदिरावतीसख्योऽब्रुवंश्च ताम् । किमेवमार्यदुहितरुन्मना इव लक्ष्यसे ॥
एतच्छुखात्रवीकन्या सा निगृह्याशयं तदा । जानीथ किं न मद्रािवती मे यादृशी सखी ॥
एषा कृतविवाहाच यास्यति श्वशुरं गृहम्। एतद्वियुक्ता न स्थातुं शक्ष्यामीत्यस्मि दुःखिता ॥
तन्निर्यात बहिः क्षिप्रं यावद्विस्रम्भसंकथाः । कुर्वती मदिरावत्या सह तिष्ठाम्यहं सुखम् ॥
इति निष्काल्य ताः सर्वा द्वारे दत्त्वार्गलं स्खयम् । उपविश्य सखीबुद्ध्या सा मामेवमभाषत ॥
मदिरावति नास्यरमाहुःखं त्वदुःखतोऽधिकम् । प्राणप्रिये यदन्यस्मिम्पिन्नान्यस्मै प्रदीयसे ॥