पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः १।]
४९७
मदिरावतीलम्बकः १३ ।

तथापि ते भवेज्जातु दर्शनं संगमोऽपि वा। संस्तवाञ्ज्ञायमानेन तेन स्वप्रेयसा सह ॥ १७६
मम त्वनास्थमुत्पन्नं यहुःखं तद्वदामि ते । यथाहं ते तथा त्वं हि विस्रम्भैकास्पदं मम ॥ १७७
गतवत्यस्मि यात्रायां स्नातुं शङ्कइदं सरः। विनोदयितुमात्मानं भावित्वद्विरहातुरम् ॥ १७८
तत्रोद्याने दिवा मुक्त्वा नभश्चन्द्र इवागतः। आलानकाञ्चनस्तम्भ इव सौन्दर्यदन्तिनः ॥ १७९
नवीनश्मश्रुमधुपश्रेणीश्रितमुखाम्बुजः । कोऽपि कान्तो द्विजयुवा दृष्टे नववया मया ॥ १८०
वनेषु केवलं छिष्टास्तपोभिर्मुनिकन्यकाः। न दृष्टोऽयं युवा याभिः किं तासां तपसः फलम् ॥ १८१
इति संचिन्तयन्त्या मे कामेन हृदयं शरैः । तथा विद्धं यथा लज्जा भयं च गलितं ततः ॥ १८२
ततः पश्यामि पश्यन्तं यावत्तं तिर्यगीक्षणा । आलानमुक्तो मत्तेभस्ताव गादशङ्कितम् ॥ १८३
तेन नश्यस्परिजनां भीतां दृष्ट्वा स मां युवा । धावित्वादं कृतां दूरे मध्ये लोकस्य नीतवान् ॥ १८४
तत्संस्पर्शामृतानन्दमीलिताहं तदा सखि । को हस्ती किं भयं काले क स्थितास्मीति नविदम् ॥ १८५
ततः परिजनो यावत्प्राप्तो मे तावदागतः । मत्तहस्ती स तत्रैव विरहो मूर्तिमानिव ॥ १८६
उत्क्षिप्याहमथानीता तद्भयादनुगैर्मुहम् । स च से जनसंक्षोभे न जाने क गतः प्रियः ॥ १८७
तदाप्रभृत्यविज्ञातनामादिकमसुप्रदम्। स्मरन्ती तं करप्राप्तं केनापीह हृतं निधिम् ॥ १८८
सर्वदुःखहरौ निद्रां स्वप्ने तद्दर्शनेच्छया । वाञ्छन्ती चक्रवाकीभिः समं क्रन्दामि रात्रिषु ॥ १८९
तदेवं निरुपायेऽस्मिन्दुःखे मम विनोदनम् । त्वदर्शनं यंसखि तदूरीभवति चाधुना ॥ १९०
उपस्थितं तदित्थं मे मरण मद्रािवति । त्वन्मुखालोकनसुखं संप्रत्यनुभवामि तत् ॥ १९१
इत्युक्त्वा अन्नपीयूषवषभं वचनं मम । कलङ्कयन्ती वझेन्डै साञ्जनैरश्रुबिन्दुभिः ॥ १९२
अवगुण्ठनमुत्क्षिप्य मुखान्मम निरीक्ष्य माम् । परिज्ञाय तदा साभूत्सहर्षाश्चर्यसाध्वसt ॥ १९३
सतो मयोक्तं मुग्धे किं संभ्रमः सोऽहमेव ते । विधिर्हि घटयत्यर्थानचिन्यानपि संमुखः ॥ १९४
मयापि त्वत्कृते दुःखमनुभूतं सुदुःसहम् । यादृशं यादृशी चैषा प्रपञ्चरचना विधेः ॥ १९५
वक्ष्यामि विस्तरात्तत्ते नायं कलः कथाक्रमे । निर्गमोपाय एवैकञ्चिन्त्यतां संप्रति प्रिये ॥ १९६
इत्युक्ता सा मया बाला प्राप्तकालमभाषत । अनेन पश्चाङ्करेण निर्गच्छावः शनैरितः ॥ १९७
महिश्चात्र गृहोद्यानं पितुः सुक्षत्रियस्य मे । तन्मार्गेणैव निर्गत्य प्रजावो यत्रकुत्रचित् ॥ १९८
इत्युक्तवथैव तया गुप्ताभरणया सह । तदुक्तेनैव मार्गेण निरगच्छमहं ततः ॥ १९९
ध्या च दूरध्वानं तया गत्वा व्रतं भयात् । प्रभाते प्राप्तवानस्मि प्रियायुक्त महदवीम् ॥ २००
च्छतोश्रावयोस्तस्यां स्वकथैकविनोदयोः। निर्माषायां शनकैर्मध्याह्नः समवर्तत ॥ २०१
नेराश्रयाध्वगजनां निराक्रन्दामतापयत् । भूमिं तां दुष्टभूपाळ इव तीक्ष्णकरः करैः ॥ २०२
तस्मिन्काले परिश्रान्तां प्रेयसीं तां तृषार्दिताम् । कृच्छ्प्राप्तां तरुच्छायां शनैः प्रापितवानहम् ॥।२०३
आश्वासयामि यावच्च तत्र तां पटमारुतैः । अकस्मान्महिषस्तावदागाद्भणितविनुतः ॥ २०४
सस्य पश्चात्प्रधावंश्च हयारूढो धनुर्धरः। आगात्कोऽपि महासत्त्व इत्याकृत्यैव सूचितः ॥ २०५
हा महामहिषं भल्लीप्रहारेणापरेण तम् । वङ्गघातेन वधाय गिरिं वीरो न्यपातयत् ॥ २०६
दृष्ट्वा चास्मानुपागत्य स मां प्रीत्यैव पृष्टवान् । कस्त्वं कैषा च ते साधो केहयातौ युवामिति ॥ २०७
अथोपवीतमुद्धाट्य प्रोक्ते सस्यानृतं मया । विप्रोऽहमेषा भार्या मे कार्याद्देशान्तरागतौ ॥ २०८
आवां चौरहतात्साधुद्विग्नर्थौ मार्गनाशतः । इह प्रविष्टौ दृष्टश्च भवान्नष्टाश्च भीतयः ॥ २०९
एवं मयोक्ते ब्राह्मण्यात्सानुकम्पश्च सोऽभ्यधात् । अहं वनचराधीशो मृगयार्थमिहागतः ॥ २१०
युवां चाध्वपरिश्रान्तौ संप्राप्तावतिथी मम । तदेतं विश्रमायैतन्नातिदूरं मदास्पदम् ॥ २११
इत्युक्त्वा मत्प्रियां श्रान्तामारोष्य स्खतुरंगमे । पादचारीभवन्नायां स्वनिवासं स नीतवान् ॥२१२
यत्र बान्धववत्सोऽस्मान्भोजनायैरुपाचरत् । कुदेशेष्वपि जायन्ते कचित्केचिन्महाशयाः ॥ २१३
तोऽटवीं तामुत्क्रम्य तद्वितीर्णानुयात्रिकाम् । प्राण्यामद्दरमेकं सा परिणीता मया वधूः ॥ २१४
६३