सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८२
[ आदितस्तरङ्गः
कथासरित्सागरः

श्रुकुट्या भीषणमुखः प्रकृत्यैव त्रिशाखथा । स्वीकर्तुं विन्ध्यवासिन्या त्रिशूलेनेव चिह्नितः ॥
तरुणः क्षपिताशेषवया अप्यसुदर्शनः । कृष्णोऽप्यनन्यसेवी च भूभृत्पादोपजीव्यपि ॥
नवाभ्र इव मायूरपिच्छचित्रधनुर्धरः । हिरण्याक्ष इवोद्दमवराहक्षतविग्रहः ॥
घटोत्कच इवोत्सिक्तभीमरूपधरो बली । कलिकाल इवाधर्मनिरतोच्छूढळप्रजः ॥
आययौ च बलाभोगस्तस्यापूरितभूतलः । मुक्तोऽर्जुनभुजासङ्गाप्रवाह इव नार्मदः ॥
शिलाकलापो लुठितः किमअनगिरेरयम् । किमुताकालकल्पान्तमेघौघः पतितो भुवि ॥
इति शङ्कां स विद्धचण्डालानीकिनीचयः । प्रससर्पासितच्छायामलिनीकृतदिनुखः ॥
उपगम्य च तस्वामी दूरात्रयस्तशिराः क्षितौ । मृगाङ्कदत्तं तं दुर्गपिशाचः प्रणनाम सः ॥
उवाच चाद्य देवी मे प्रसन्ना विन्ध्यवासिनी । उचितोचितवंशो यदृहान्प्राप्तो भवान्मम ॥
तद्धन्योऽस्मि कृतार्थोऽस्मीत्युक्त्वा तस्माद्युपायनम् । मातङ्गराजः स ददौ क्ताकस्तूरिकादिकम् ॥
सोऽप्यभ्यनन्दत्प्रीत्या तं राजपुत्रो यथोचितम् । ततस्तत्रैव सर्वे ते चक्रुः सेनानिवेशनम् ॥
आलानबजेंद्रिदैस्तुरगैर्मन्दुराश्रितैः । कृतास्पदैश्च पादातैः स्थगिता सा महाटवी ॥
आजन्मापूर्वनगरीभावसंप्राप्तिसंपदा। घूर्णमानेव तत्कार्नु नैव स्वात्मन्यवर्तत ॥
ततोऽन्न काननोद्याने विहितनानमङ्गळम् । कृताहारं सुखासीनमेकान्ते सचिवान्वितम् ॥
मायाबटौ स्थिते दुर्गपिशाचः स कथान्तरे । मृगाङ्कदत्तमवदत्प्रीतिप्रश्रयपेशलम् ॥
मायाबदुरयं राजा बहुकालमिहागतः । त्वन्निदेशप्रतीक्षः सन्स्वामिन्साकं मया स्थितः ॥
तद्राजपुत्र युष्माभिः कुत्र स्थितमियचिरम् । किं कृतं चेति कार्य स्वमस्मान्बोधयताधुना ॥
एतत्तद्वचनं श्रुत्वा राजपुत्रो जगाद सः । तदा मायाबटोरस्य गृहाद्विमळबुद्धिना ॥
गुणाकरेण च समं प्राप्य भीमपराक्रमम् । गत्वा भृतधिया साकं चिन्वतान्यान्सखीन्मया ॥
प्राप्तः प्रचण्डशक्तिश्च विचित्रकथ एष च । मार्गक्रमेण चैषोऽपि ततो विक्रमकेसरी ॥
ततो वरसरस्तीरे प्राप्य विघ्नेशपादपम् । फलार्थमधिरुह्यैते तच्छापात्फलतां गताः ॥
आरध्याथ गणेशं तं कथंचिन्मोचिता मया । शेषाश्वादौ तथाभूतास्तत्र मुक्तास्तथैव मे ॥
इढमुष्टिरयं व्याघ्रसेनमेघबळाविमौ। स्थूलबाहुरसौ चेति चत्वारः सचिवा इमे ॥
एतैः प्रातैः समं सर्वैरहमुज्जयिनीमगाम् । तस्यां च गुप्तद्वरायां प्रवेशोऽध्यभवन्न नः ॥
कुतः शशाङ्कवत्यास्तु हरणोपायचिन्तनम् । सैन्यहीनस्य चाभून्मे न दूतप्रेषणार्हता ॥
ततः संमध्य युष्माकमागता निकटं वयम् । इदानीं सिद्धये यूयं प्रमाणमिह नः सखे ॥
एवं मृगाङ्कदत्तेन स्ववृत्तान्तेऽभ्युदीरिते । सोऽथ दुर्गपिशाचसतं समायाबदुरब्रवीत् ॥
धीरो भव कियत्कार्यमेतदस्माभिरजसा । प्राणाः प्रथममेवैते त्वदर्थमुपकल्पिताः ॥
आनयामोऽत्र तं बद्धा कर्मसेनं महीभृतम् । प्रसह्य च हरामोऽस्य तां शशाङ्कवतीं सुताम् ॥
इति मातङ्गराजेन समायाबदुनोदिते । मृगाङ्कदत्तः सप्रीतिबहुमानमभाषत ॥
किं न संभाव्यते युष्मास्वियमेव हि वक्ति वः । प्रतिपन्नसुहृत्कार्यनिर्वाहं धीरसत्वता ॥
दाढ्यं विन्ध्याद्रितः शौर्यं व्यानेभ्यो मित्ररागिताम्। वनाब्जिनीभ्यश्चादाय यूयं धात्रेह निर्मिताः ॥
तद्विचार्य यथायुक्तं कुरुध्वमिति वादिनि । मृगाङ्कदत्ते दिनकृद्विशश्रामास्तमस्तके ॥
ततस्तत्र त्रियामां तां स्कन्धावारे विशश्रमुः । ते कमीन्तिककृतेषु निवेशेषु यथोचितम् ॥
प्रातर्मुगारूदत्तश्च विससर्ज गुणाकरम्। किरातराजमानेतुं सुहृदं शक्तिरक्षितम् ॥
तेन गत्वोक्तवृत्तान्तः स्वल्पैरेव दिनैश्च सः । तद्युक्तोऽतिमहासैन्यः किरातपतिराययौ ॥
पदातिलक्षदशकं हे लक्षे वाजिनामपि । महावीराधिरूढानामयुतं मत्तदन्तिनाम् ॥
अष्टाशीतिसहस्राणि रथानां च महीपतिम् । अन्वाययुर्वजच्छन्नसंछादितनभांसि तम् ॥
मृगाङ्कदत्तध मुदा प्रत्युद्गम्याभिपूज्य तम् । प्रावेशयत्सकटकं ससुहृत्सचिवो नृपम् ॥