पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ३५]
४८१
शशाङ्कवतीलम्बुकः १२ ।

तत्तस्य मातङ्गपतेर्विन्ध्यदक्षिणपार्श्वगम् । निबास कोठं गच्छामः करभीवनामकम् ॥ ३३
तत्रैवाहूयते राजा कैरातः शक्तिरक्षितः। ततः संभूय सर्वैस्तैरुद्योगः सिद्धये शुभः ॥ ३४
श्रुत्वैतच्छुतर्वाक्यमर्थवत्प्राज्ञसंमतम् । मृगाङ्कदत्तः सामात्यस्तथेति श्रद्दधेतराम् ॥ ३५
अन्येद्युश्च नमस्कृत्य गुणिबन्धु घृतोदयम् । प्रदर्शिताशं विश्वस्य नभोनित्याध्वगं रविम् ॥ ३६
बाळ ततो विन्ध्यपार्श्व तं दक्षिणं प्रति । तस्य दुर्गपिशाचस्य मातब्रेन्द्रस्य केतनम् ॥ ३७
तन्मत्रिणश्च स व्याघ्रसेनो भीमपराक्रमः । गुणाकरो मेघबलः समं विमलबुद्धिना ॥ ३८
स विचित्रकथः स्थूलबाहुर्दिक्रमकेसरी। प्रचण्डशक्तिः श्रुतधिदृढमुष्टिस्तमन्वगुः ॥ ३९
समं सोऽतिविस्तीर्णा निजचेष्टा इवाटवीः । गहनांश्च वनोद्देशान्स्वाभिप्रायानिव क्रमात् ॥ ४०
अतिक्रामन्सरस्तीरतरुमूलनिशाश्रयः। प्राप्यारुरोह विन्ध्याद्रिमात्मचित्तमिवोन्नतम् ॥ ४१
तस्याग्नाद्दक्षिणं पार्श्वमवरुह्य च दूरतः । दन्तिदत्ताजिनचिता भिलपल्लीfर्वलोकयन् ॥ ४२
कुत्र स्यादास्पदं तस्य मातङ्गाधिपतेरिह । कुतो ज्ञास्याम इत्यन्तर्दध्यौ राजसुतोऽत्र सः ॥ ४३
तावच्च संमुखायातमेकं मुनिकुमारकम् । स ददर्श सहामात्यैः पप्रच्छ च कृतानतिः॥ ४४
अपि जानासि कुत्रेह गृहं मातङ्गभूपतेः। सौम्य दुर्गपिशाचस्य द्रष्टव्यो वर्तते हि ॥ ४५
तच्छुत्वा स जगादैवं साधुस्तापसपुत्रकः । इतः पञ्चवटीत्यस्ति प्रदेशः क्रोशमात्रके ॥ ४६
नातिदूरे च तस्याभूदगस्त्यस्याश्रम मुनेः । नाकतः पातितोसि क्तनहुषेन्द्रस्य हेलया ॥ ४७
यत्र पित्राज्ञयोपात्तवनवासः सलक्ष्मणः । सीतयानुगतो रामो मुनिमन्वास्त तं चिरम् ॥ ४८
रक्षोविनाशपिशुनौ चन्द्रार्काविव यत्र सः । आस्कन्दितुं प्रवृत्तोऽभूकबन्धो रामलक्ष्मणौ ॥ ४९
यत्र योजनबाहोश्च रामो भुजमपातयत् । अगस्यप्रार्थनायातनहुषाजगरोपमम् ॥ ५०
यत्र मेघगमेऽद्यापि श्रुत्वा जलधरध्वनिम् । स्मरन्तो रामकोदण्डरवस्याम्बररोधिनः ॥ ५१
वीक्ष्य विष्वग्दिशः शून्या गृह्यन्त्युद्राष्पलोचनाः । जानकीवर्धिताः शष्पकवलं न जरन्मृगाः ॥ ५२
हतशेषानिव त्रातुं हरिणान्यत्र राघवम् । जहर हेमहरिणो वैदेहीविरहप्रदः ॥ ५३
कावेरीवारिबहले यत्रानेकमहाहवे । पीत्वोदीर्णमिवागस्येनाब्धिपाथः पदे पदे ॥ ५४
तस्याश्रमस्य नात्यन्तदूरे विन्ध्यस्य सानुनि । करभीवनामास्ति कोट्टः कुटिळदुर्गमः ॥ ५५
तत्र प्रतिवसत्यन्तर्भपालानिजितो बळी । स मातङ्गपतिर्मुर्गपिशाचश्चण्डविक्रमः ॥ ५६
धनुर्धराणां लक्षस्य तेषामधिपतिश्च सः । योऽथ पञ्चशती येषामेकैकमनुधावति ॥ ५७
तैर्दस्युभिः स मुष्णाति सार्थान्दलयति द्विषः । भुजे महाटवीं चैतां तांस्तानगणयनृपान् ॥ ५८
एतन्मुनिसुताच्छुत्वा तमामद्य स सानुगः । मृगाङ्कत्तस्तेनैव मार्गेण त्वरितं ययौ ॥ ५९
प्रापच तस्य करभीवस्य निकटं क्रमात् । मातङ्गराजकोट्टस्य भिल्लपल्लीसमाकुलम् ॥ ६०
ददर्शादूरतश्चात्र शबरौघानितस्ततः । बर्हबर्हभदशनव्याघ्रचर्ममृगामिषान् ॥ ६१
तिर्य च इव जीवन्ति पश्यतारण्यवृत्तयः। चित्रं तदप्यमी दुर्गपिशाचं ब्रुवते प्रभुम् ॥ ६२
नास्येवाराजकं किंचिद्दत कोऽपि प्रजास्वहो । राजशब्दः सुरैः सृष्टो मात्स्यन्यायभयादयम् ॥ ६३
एवं मृगाङ्कदत्तस्तान्भिलान्वीक्ष्य सखीन्नुवन् । यावत्स करभीवकोट्टमार्गे विवित्सति ॥ ६४
तावन्मायावटोस्तस्य तत्रादावभ्युपेयुषः । तं पूर्वदृष्टं ददृशुश्चराः शबरभूभृतः ॥ ६५
ते मायावट तस्मै गत्वा सद्यो न्यवेदयन् । तदागमं ससैन्यश्च सोऽपि प्रत्युज्जगाम तम् ॥ ६६
निकटीभूय दृष्ट्वा च मुक्तवाहः प्रधाव्य सः । पपात पादयोस्तस्य राजसूनोः पुलिन्द्राद् ॥ ६७
कृतकण्ठग्रहं राजा स पृष्टकुशलश्च तम् । सामात्यं वाहनारूढमनैषीत्कटकं निजम् ॥ ६८
प्राहिणोच्च प्रतीहारं तदागमनशंसिनम् । तस्मै मातङ्गराजाय निजं स शबराधिपः ॥ ६९
आजगाम च मातङ्गराजः सोऽपि स्वदेशतः। द्रुतं दुर्गपिशाचोऽत्र नानो बिभ्रद्यथार्थताम् ॥ ७०
शिलाकूदकठोराङ्गस्तमालमलिनच्छविः। पुलिन्दाश्रितपाश्च विन्ध्याचल इवापरः ॥ ७१