पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८०
[ आदितस्तरङ्गः १०
कथासरित्सागरः ।

       इत्यस्माकं नागशापोपनीतो वृत्तान्तोऽयं त्वद्वियोगे चतुर्णाम् ।
       क्षीणे शापे चाधुनास्माभिरेतैर्युक्तः सर्वैः कार्यसिद्ध्यै प्रयाहि ॥
       एतन्मृगाङ्कदत्तो निजसचिवाद्यास्रसेनतः श्रुत्वा ।
       लाभे शशाङ्कवत्या लब्धधृतिस्तां निशामनयत् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके


_____


चतुस्त्रिंशस्तरङ्गः।


ततः प्राप्तः समुत्थाय तस्माद्वरसरस्तटात् । मृगाङ्कदत्तः सचिवैरशेयैर्मिलितैः सह ॥
युक्तः श्रुतधिना तेन प्रायादुजयिनीं प्रति । स शशाङ्कवतीं प्रेप्सुर्नात्वा तं विन्नजिङ्गमम् ॥
ततस्तास्ता वनभुवो भूयोऽनेकशतहदाः । तमालश्यामलाभोगा घनागमनिशा इव ॥
अन्याश्च विचरीममत्तेभाभग्नकीचकाः । विपरीतार्जुनाकारा विराटनगरीनिभाः ॥
गिरीन्द्रकंदराश्चैव शुद्धाः पुष्पवतीरपि । क्रूरसत्त्वाश्रिताः शान्तैर्मुनिभिः संश्रिता अपि ॥
अतिक्रम्य क्रमाद्धीरः स सर्वसचिवान्वितः। प्रापदुज्जयिनीपुर्याः संनिकर्ष नृपात्मजः ॥
ततो गन्धवतीं प्राप्य नदीं नानहृतक्छमः। तीर्वा च तां महाकालश्मशानं प्राप सानुगः ॥
ददर्श तच नानास्थिकपालशकलाकुलम् । धृतमानुषकङ्कालकरालं वीरसेवितम् ॥
बहुभूतगणाकीर्णमाक्रीडड्डाकिनीप्रियम् । महाभैरवमासन्नचिताधूममलीमसम् ॥
तदतिक्रम्य चापश्यत्स तां युगपुरातनीम् । पुरीमुजयिनीं गुप्तां कर्मसेनेन भूभुजा ॥
अधिष्ठितप्रतीकां रक्षिभिर्विविधायुधैः । प्रवीरकुलजानेकराजपुत्राभिरक्षितैः ॥
गिरीन्द्रशिखराकारैः प्राकारैः परिवेष्टिताम् । दुष्प्रवेशामविज्ञातैर्हस्यश्वरथसंकुलाम् ॥
विलोक्य तादृशीं तां च सर्वतोऽप्यतिदुर्गमाम् । मृगाङ्गदत्तो विमनाः सचिवान्स्वानुवाच सः ॥
कष्टं केशशतैरेवमभव्यस्यागतस्य मे । प्रवेश एव नास्तीह प्रियाप्राप्तौ तु का गतिः ॥
तच्छुत्वा तेऽप्यवोचंस्तं किमेषा प्रतिभाति ते । अस्माकमियतां देव बलसध्या महापुरी ॥
उपायोऽत्रं विचेतव्यः स चावश्यं भविष्यति । दैवतैर्बहुशो हेतदादिष्टं विस्मृतं कथम् ॥
इत्युक्तः सचिवैस्तस्या नगर्या बहिरेव सः । मृगाङ्कवत्तो दिवसान्कांश्चित्तस्थौ परिभ्रमन् ॥
प्राक्सिद्धमथ वेतालं दध्यौ विक्रमकेसरी । तन्मश्री वासभवनात्तत्प्रियाकर्षणेच्छया ॥
सोऽपि कृष्णच्छविः प्रांशुरुष्ट्रीवो गजाननः । महिषाद्भिरुल्काक्षो वेताळः खरकर्णकः ॥
एत्य तत्र प्रवेष्टुं यन्न शशाक जगाम तत् । शंभोर्वरात्तां नगरीं नाक्रामन्ति तथाविधाः ॥
अथामात्यैर्दूतं खिन्नं प्रवेशोन्मुखचेतसम् । सृङ्गाङ्कदत्तं श्रुतधिनीतिज्ञः सोऽब्रवीद्विजः ॥
किं देव नीतितत्वज्ञोऽप्यजानन्निव मुह्यसि । स्वपरान्तरमप्रेक्ष्य मतः कस्येह विक्रमः ॥
एकैक स्मिन्नगर्या हि द्वारेष्वस्यां चतुर्वेपि । कुञ्जराणां सहस्त्रे हे वाजिनां पञ्चविंशतिः ॥
रथानां दश लक्षी च पदातीनां दिवानिशम् । संनद्धमास्ते रक्षार्थं वीराधिष्ठानदुर्जयम् ॥
तन्नः कतिपयानां यत्सहसात्र प्रवेशनम् । परं पतङ्गवृत्तिः सा नार्थसिद्धिस्तु काचन ॥
सैन्येनापि च नाल्पेन युक्ता क्षेप्तुमियं पुरी । हस्तिपादातयुद्धं तद्विरोधोऽधिबलेन यत् ॥
तन्मायावदुना तेन पुलिन्दपृथिवीभृता । सुहृदा नर्मदामाहभयात्रातेन दारुणात् ॥
तन्मित्रेण च मातङ्गरजेनातिबलीयसा। तेन दुर्गपिशाचेन तत्संबन्धानुरागिणा ॥
किरातराजेन यथा बालसश्रह्मचारिणा । शक्तिरक्षितसंज्ञेन तेन विक्रमशालिना ॥
समेत्य सबलैः सर्वैः सैन्यपूरितदिङ्मुखः । सम्यक्सहायसंपन्नः साधयैतसमीहितम् ॥
किरातराजश्च स ते दूतागमनसंविदम् । प्रतीक्षमाणः स्थित इत्येतत्ते विस्मृतं कथुम् ॥
मायावदुश्च मातङ्गराजादेशागतो ध्रुवम्। सज्जस्तेन सहैवास्ते संवित्तस्य कृता ह्यसौ ॥