पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७६
[ आदितस्तरङ्गः
कथासरित्सागरः

इत्युक्त्वा सा सखी तस्याः पृच्छन्तीर्थानिकन्यकाः । अबोधयत्तं वृत्तान्तं ताः सखीं तामनन्दयन् ॥
ततः सुन्दरसेनस्य हार्यपुत्रेत्युदीर्य सा । पपात मन्दारवती रुदती तस्य पादयोः ॥
सोऽप्याश्लिष्य रुरोदैतां रुदतोस्तत्र चैतयोः । अरुदन्करुणार्द्रणि काष्टान्यपि तृणान्यपि ॥
गवाथ मुनिकन्याभिस्ताभिः स श्रावितो द्रुतम् । आजगाम मुनिस्तत्र मतङ्गे यमुनान्वितः ॥
सोऽत्र सुन्दरसेनं तमाश्वस्य चरणानतम् । मन्द्रवत्या सहितं निनाय निजमाश्रमम् ॥
तहश्च तदातिथ्यविश्रान्तं जातनिर्युतिम् । अन्येद्युः स तमाह स्म राजपुत्रं महामुनिः ॥
श्वेतद्वीपे मया पुत्र गन्तव्यं कार्यतोऽधुना । तन्मन्दारवतीयुक्तो गच्छ स्वमळकां प्रति ॥
तत्र राजसुतामेतां परिणीयानुपालयेः । सुतेति प्रतिपन्ना हि तुभ्यमेषा मयार्पिता ॥
सुचिरं चनया सार्ध पृथ्वीराज्यं करिष्यसि । सचिवांश्च निजान्सर्वानचिरान्तानवाप्स्यसि ॥
इत्युक्त्वा सवधूकं तमामद्य नभसा ययौं । मुनिर्यमुनया साकं दुहित्रा स स्वतुल्यया ॥
ततः सुन्दरसेनोऽपि स मन्दारवतीयुतः । दृढबुद्धिसहायश्च प्रोचचालाश्रमात्ततः ॥
प्राप्य वारिनिधेस्तीरं ददर्श निकटागतम् । केनाप्यधिष्ठितं यूना वणिजा बहनं लघु ॥
ययाचे चाश्रयं तस्मिन्नवसौकर्यलोभतः । दृढबुद्धिमुखेनारात्तत्पतिं तं वणिक्सुतम् ॥
सोऽपि तीरे तथेत्यस्य वहनं तद्ढौकयत् । तां सन्दारवतीं पश्यन्कुवणिक्स्मरमोहितः ॥
ततः सुन्दरसेनोऽत्र तामारोप्याग्रतः प्रियाम् । तटस्थितः सन्नारोहुमारमना यावदिच्छति ॥
तावत्स कर्णधारस्य संज्ञां कृत्वा वणिग्दृतम् । वहनं चालयामास परस्त्रीलोलुभः शठः ॥
क्रन्दद्राजसुतं तन्च क्षणेनादृष्टिगोचरम् । अभूत्सुन्दरसेनस्य वहनं तस्य पश्यतः ॥
हा धिक्चौरैः प्रमुषितोऽस्मीत्याक्रन्दन्पपात सः । विरुपंश्च चिरं सोऽत्र जगदे दृढबुद्धिना ॥
उत्तिष्ठ युध्ध वैज्ञव्यं नायं वीरोचितः क्रमः । पहि चौरं तमन्वेष्टुं गच्छावोऽनेन वर्मना ॥
आपत्काले च कष्टेऽपि नोत्साहस्त्यज्यते बुधैः ॥
इति प्रबोधितस्तेन कथंचिदृढबुद्धिना । तीरात्सुन्दरसेनोऽब्धेरुत्थाय प्रस्थितोऽभवत् ॥
गच्छन्क्रमाच्च हा देवि हा मन्दारवतीति सः । विलपन्साश्चरनिशं संतप्तो विरहाग्निना ॥
निराहारः सबाष्पैकदृढबुद्धिपरिच्छदः। विवेश सोन्माद इव व्यामोहेन महद्वनम् ॥
न चात्र गणयामास सख्युस्तस्य वचो हितम् । तत्र तत्राभ्यधावत्तु केवढं दयितामयः ॥
उन्निद्रपुष्पाभरणा वणिक्चौरात्पलायिता । आगता हि प्रिया सा स्यादिति फुलासु वदिषु ॥
भयात्सरोनिमग्ना किं वदनं पक्ष्मलेक्षणम् । उन्नमय्येक्षते सा मामिति चाब्जेषु सालिषु ॥
किं व्याहरति सैषात्र मुग्धा मां मजुभाषिणी । इति पत्रलताच्छन्नकोकिलकूजितेष्वपि ॥
एवं प्रतिपदं मुह्यन्यथार्केण तथेन्दुना । तप्यमानः स बभ्राम तुल्यनक्तंदिनश्चिरम् ॥
कथंचिन्निर्गतस्तस्माद्वनात्सदृढबुद्धिकः । राजपुत्रोऽथ स प्राप मार्गभ्रष्टो महाटवीम् ॥
उग्रखङ्गविषमां सिंहाधिष्ठानभीषणाम् । सेनामिव सुदुर्दशं दस्युसेनानिषेविताम् ॥
सां गाहमानः सुलभानेकापायां निराश्रयाम् । दुर्दशामिव स प्रापि पुलिन्दैरुद्यतायुधैः ॥
भगवत्युपहारार्थं चिन्वलिः पुरुषान्पशून् । विन्ध्यकेतोः पुलिन्देन्द्रस्याज्ञया तन्निवासिनः ॥
विदेशो विहञ्शो नीचात्परिभवोऽपि सः । अनाहारोऽवसंताप इति पञ्चन्निविप्लवे ॥
असृजद्दस्युसंपातं षष्ठमग्निमहो विधिः । राजपुत्रस्य तस्यान्न धैर्यस्यान्तमवेक्षितुम् ॥
स चास्मना द्वितीयस्तान्प्रहणार्थं प्रधावितान् । पूषकवार्षिणो दस्यून्बहून्क्षुरिकयावधीत् ॥
तदुद्धा प्रैष्यत बलं राज्ञान्यद्विन्ध्यकेतुना । ततोऽपि सुबहूौरान्युद्धनो निजघान सः ॥
ततः स सवयस्योऽपि व्रणितक्छान्तमूर्छितः । बङा कारागृहे नीत्वा शबरैस्तैर्निचिक्षिये ॥
तत्र कीटोकराकीर्णं जालकारालयाविले । सूच्यमानाह्निसंचारे निमॅकैर्गर्तलम्बिभिः ॥
गुल्फनोच्छलद्भलावाखुखातबिलोल्बणे । अन्तःक्षिप्तस्थितानेकभीतापन्नजनाकुले ॥