पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६२
[ आदितस्तर
कथासरित्सागरः ।

त्रिंशस्तरङ्गः


( त्रयोविंशो वेतालः । )


ततो गत्वा पुनः प्राप शिंशपापापात्ततः। स त्रिविक्रमसेनस्तं वेतालं राजसत्तमः॥
स्कन्धे कृत्वा च तं मौनी दर्शितानेकवैकृतम् । यावत्प्रतिष्ठते तावरस वतालस्तमब्रवीत् ॥
राजन्न कार्येऽप्येतस्मिन्दुर्वारोऽयं प्रहस्तव । तत्ते श्रमविनोदय कथयामि कथां श्रुणु ॥
आसीत्कलिङ्गविषये नाम्ना शोभावती पुरी । दिवीव शक्रनगरी वसतिः शुभकर्मणाम् ॥
यां प्रद्युम्न इवैश्वर्यवीर्यातिशयविश्रुतः । प्रद्युम्ननामा नृपतिः शशासोर्जतशासनः ॥
गुणापकर्षश्चापेषु मुरजेपु करातिः । युगेष्वश्रुयत कलिर्यस्यां प्रज्ञासु तीक्ष्णता ॥
एकदेशे पुरस्तस्या नृपेण प्रतिपादितः । यज्ञस्थलाभिधानोऽभूदप्रहारो बहुद्विजः ॥
तत्रासीद्यज्ञ सोमाख्यो ब्राह्मणो वेदपारगः । महाधनोऽग्निहोत्री च पूजितातिथिदेवतः ॥
तस्य व्यतीते तारुण्ये मनोरथशतैः सुतः। भार्यायामनुरूपायामेक एवोदपद्यत ॥
ववृधे च पितुः सोऽस्य गृहे बालः सुलक्षणः । कृताभिधानो विधिवद्देवसोम इति द्विजैः ॥
प्राप्तषोडशवर्षश्च स विद्याविनयादिभिः । आवर्जितजनोऽकस्मअऽवरेण प्राप पश्यताम् ॥
ततः परासु स्नेहात्तमाश्लिष्य सह भार्यया । यज्ञसोमः पिता शोचन्न दाहाय जहैौ चिरम् ॥
ब्रह्मन्संसारगन्धर्वनगरस्य न वेरिस किम् । परावरज्ञोऽपि गतिं वारि द्दभङ्गम् ॥
ये सैन्यैः पूरितधरा हीपृष्ठेषु हारिषु । लसरसंगीतनावेषु रत्नपर्यङ्कवार्तनः ॥
श्रीखण्डद्रवलिप्ताङ्ग वरस्त्रीपरिवरितः । व्यलसन्नमरंमन्या भूठोकेऽस्मिन्नराधिपाः ॥
तेऽध्येककाः श्मशानेषु रुपेतानुयायिषु । चिताधिशायिनो यत्र जग्धाः क्रव्यात्कृशानुभिः ॥
शिवाभिर्वलितोपान्ताः कालेन कवलीकृताः। न रोटुं शकिताः कैश्चित्तत्रान्येषां कथेव का ॥
तदेतं प्रेतमाश्लिष्य विद्वन्वद करोषि किम् । इत्याद्यबोधयन्वृद्धा मिलितास्तं द्विजं ततः ॥
ततस्तेन कथंचित्तं मुक्तमारोप्य तत्सुतम् । शिबिकायां गतप्राणं कृतप्रेतप्रसाधनम् ॥
बान्धवा वैशसोदञ्चमिळद्वन्धुजनान्विताः। श्मशानं प्रापयामासुः कोलाहलसमाकुलः ॥
अत्रान्तरे च तत्रासीच्छुशाने कोऽपि तापसः। वृद्धः पाशुपतो योगी मठिकायां कृतस्थितिः ॥
वयसा तपसा चातिभ्य सा सुकृशां तनुम् । बिभ्राणो भङ्गभीत्येव सिराभिः परिवेष्टितम् ॥
नाम्ना वामशिवो भस्मपाण्डुरोमावृताकृतिः। विद्युत्पिङ्ग जटाजूटो महेश्वर इवापरः ॥
स तापसोऽत्र तत्कचं दत्तोपालम्भखेदितम् । पूर्वं शठं ध्यानयोगाद्यवलिप्तमहंकृतम् ॥
भिक्षाफलव्रतधरं शिष्यमन्तिकवासिनम् । जगाद दूराच्छुत्वा तं जनकोलाहलं बहिः॥
उत्तिष्ठ गत्वात्र बहिर्वज्ञायागच्छ सत्वरम् । कुतोऽत्राश्रुतपूर्वोऽयं श्मशाने तुमुलारवः ॥
इत्युक्ते गुरुणा तेन स शिष्यः प्रत्युवाच तम् । नाहं यामि स्वयं याहि भिक्षावेला हूपैति मे ॥
तच्छुत्वोवाच स गुरुर्धियूख़दरतत्पर । अहोऽर्धप्रहरे याते भिक्षवेणात्र का तव ॥
श्रुत्वैवैतत्स तं क्रुद्धः कुशिष्यः प्राह तापसम् । धिग्जराजीर्णं नाहं ते शिष्यो न त्वं गुरुर्मम ॥
अहमन्यत्र यास्यामि वह पात्रीमिमां स्वयम् । इत्युक्त्वोस्थाय स प्रायात्त्यक्त्वाने दण्डकुण्डिक ॥
विहसन्नथ निर्गत्य मठिकायाः स तापसः । तत्रागाद्यत्र ददर्थमानीतः स द्विजार्भकः ॥
दृष्ट्वा च तं जनतया शोच्यमानाश्रययौवनम् । योगी प्रवेष्टुं तद्देहं मतिं चक्रे जरार्दितः ॥
गत्वा च ऋतमेकान्ते मुक्तकण्ठं प्ररुद्य च । ननर्त स ततः क्षिप्रमङ्गद्दारैर्यथोचितैः ॥
ततो विवेश योगात्तद्विजपुत्रकलेवरम् । क्षणात्स स्वतनं त्यक्त्वा तपस्वी यौवनेच्छया ॥
तरक्षणं रचितायां च चितायां सहसैव सः । लब्धजीवो द्विजयुवा प्रोत्तस्थौ कृतचूम्भिकः ॥
तद्दृष्ट्वा बन्धुवर्गस्य दिया जीवति जीवति । इयुद्धभूव नादोऽत्र निखिलस्य जनस्य च ॥
अथामोक्ष्यन्नतं सर्वान्कूषा योगेश्वरः स तान् । विप्रपुत्रशरीरान्तःप्रविष्टस्तपसोऽब्रवीत् ॥