पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ङ्गः २९ ।]
५६१
शशाङ्कवतीलचकः १२ ।

युक्त्वा मां समश्वस्य स च कापि गतः पुमान् । अहं चेहगतस्यक्त्वा तादृशं मरणोद्यमम ॥ २१
एवं नेच्छति विधौ न मर्तुमपि लभ्यते । इदानीं च तरुं तीर्थं तपसा दाहयाम्यहम् ॥ २२
स निर्धनतादुःखभागी न स्यामहं पुनः । इत्युक्तवन्तं ज्येष्ठं तं कनिष्ठ भ्रातरोऽब्रुवन् ॥ २३
थैर्विना कथं प्राज्ञोऽण्यार्य दुःखेन बाध्यसे । किं न वेत्सि यदर्थानां शरदभ्रचला गतिः ॥ २४
हृत्य रक्ष्यमाणापि यत्नेनान्तविरागिणी । असन्मैत्री च वेश्या च श्रीश्च कस्य कदा स्थिरा ॥ २५
उद्योगेन स गुणः कोऽत्युपाय मनस्विना । आनीयन्ते हठाद्वळु। येनार्थहरिणा मुहुः ॥ २६
युक्तो भ्रातृभिधैर्य क्षणाज्ज्येष्ठोऽवलम्ब्य सः। उवाच को गुणस्ताहगर्जनीयो भवेदिति ॥ २७
हो विचिन्त्य सर्वे ते वदन्ति स्म परस्परम् । विचित्य पृथ्वीं विज्ञानं किचिच्छिक्षामहे वयम् ॥२८
श्विभ्यैतच्च संकेतस्थानमुक्त्वा समागमे । एकैकशस्ते चत्वारश्चतस्रः प्रययुर्दिशः ॥ २९
ति काले च मिलितास्ते संकेतनिकेतने । किं केन शिक्षितमिति भ्रातरोऽन्योन्यमब्रुवन् ॥ ३०
थामैकोऽब्रवीदीदृग्विज्ञानं शिक्षितं मय। येनास्थिशकलं प्राप्य प्राणिनो यस्य कस्यचित् ॥ ३१
त्पादयाम्यहं तस्मिन्मांसं तदुचितं क्षणात् । एतत्तस्य वचः श्रुत्वा द्वितीयस्ते ध्वभाषत ॥ ३२
हं तत्रैव' संजातमांसे ऽस्थिशकले किल । जाने जनयितुं लोमत्वचं तस्माणिसंभवि ॥ ३३
तस्तृतीयोऽप्यवज्जने तत्रैव चास्ॐयम् । तदप्राण्यचयवान्स्रष्टुं जालत्वङ्मांसलोमनि ॥ ३४
तुर्थश्च ततोऽवादीदुत्पन्नावयवाकृतिम् । तमेव प्राणिनं प्राणैर्युक्तं कर्तुमवैम्यहम् ॥ ३५
एवमुक्त्वा मिथः स्वस्वविज्ञानप्रथनाय ते । चत्वारोऽप्यस्थिखण्डाय प्रययुभ्रतरोऽटवीम् ॥ ३६
Iत्र सिंहस्य ते प्रापुरस्थिखण्डं विधेर्वशात् । अविज्ञातविशेषाश्च गृहन्ति स्म तथैव तत् ॥ ३७
कश्च तत्समुचितैस्ततो मां सैरयोजयत् । द्वितीयोऽजनयत्तस्य तद्वत्वग्लोमसंहतीः ॥ ३८
rतीयश्चाखिलैरर्जुस्तद्योग्यैस्तदपूरयत् । चतुर्थश्च ददौ यस्य सिंहीभूतस्य जीवितम् ॥ ३९
उदतिष्ठदथोदूतसटाभारोऽतिभैरवः । स दंष्ट्रासंकटमुखः सिंहः खरनखाङ्कशः ॥ ४०
वित्वा च स्वनिर्मातुंस्तानेव चतुरोऽपि सः। अवधीत्केसरी तृष्नो विवेश च वनं ततः ॥ ४१
वं ते सिंहनिर्माणदोषभन्नष्टr द्विजातयः । दुष्टं हि जन्तुमुत्थाप्य कस्यारमनि सुखं भवेत् ॥ ४२
इत्थं चोपर्जितो यत्नाद्रुणोऽपि विधुरे विधौ । संपत्तये न न परं जायते तु विपत्तये ॥ ४३
मूले विधृते दैवे सिते प्रज्ञानवारिणा । नयालबालः फलति प्रायः पौरुषपादपः ॥ ४४
               इति तस्यां निशि मार्गे वेतालेनांसतः कथां तेन ।
               आख्या।य स त्रिविक्रमसेनो रजा पुनर्जगदे ॥ ४५
               राजंस्तेष्वपराध्यति चतुषं कस्तत्र सिंहनिर्माणे ।
               यद्यवधीत्तत्कुतो वद समयः सोऽत्र पूर्वंस्ते ॥ ४६
               इति वेताळाच्छुत्वा राजा सोऽचिन्तयद्विमौनस्य ।
               इच्छति गन्तुमयं से यात्वानेष्याम्यमुं भूयः ॥ ४७
               इति हृदि निश्चित्य स तं महीपतिः प्रत्युवाच वेतालम् ।
               यस्तस्य जीवदयी सिंहस्य स पापभाक्तेषु ॥ ४८
               प्राणिविशेषमबुद्दा मांसत्वग्लोमगात्रनिर्माणम् ।
               युक्तिबलातु कृतं यैस्तेषां दोषोऽस्ति नाज्ञानात् ॥ ४९
               येन तु सिंहकारं दृष्ट्वा विद्याप्रकाशनोकेन ।
               प्रणस्तस्य वितीर्णास्तेन कृता ब्रह्महत्यास्ताः ॥ ५०
               एतत्स रज्ञो वचनं निशम्य स्वधाम वेतालवरो जगाम ।
               तस्यांसतस्तत्पुनरेव मायी राजापि तं सोऽनुससार भूयः ॥ ५१

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बक एकोनत्रिंशस्तरङ्गः ।


_____