पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६०
[ आदितस्तरङ्ग
कथासरित्सागरः ।

एतद्रणेभ्यः श्रुत्वा सा शरण्या शंकरप्रिया । शान्तानङ्गस्त्रयोऽप्येते जीवन्त्विति समादिशत् ॥
अथ सर्वेऽपि ते सुप्तप्रतिबुद्धा इव क्षणात् । तत्प्रसादात्समुत्तस्थुर्जीवन्तो वीतमन्मथाः ॥
ततो दृष्ट्वा तदाश्चर्यं नतमुखः कमकरःसानन्दे सकले जने । छज़ प्रायात्स्वगृहं ॥
अर्थदत्तोऽपि तां हीतामादायानङ्गमञ्जरीम् । सुतां स्वभर्तुसहितां ययौ बद्धोत्सवो गृहान् ॥
               इति कथयित्वा तस्यां रात्रैौ मनें कथां स वेतालः ।
               निजगाद तं त्रिविक्रमसेनं क्षोणीपतिं भूयः ॥
               राजन्कस्य वदैतेष्वधिको मोहोऽनुरागमूढेषु ।
               सोऽत्र च पूर्वोक्तस्ते शापो जानन्न चेद्वदसि ॥
               इत्येतद्रेतालाच्छुत्वा स प्रत्युवाच तं नृपतिः ।
               एतेषु रागमूढः प्रतिभाति ममाधिकः स मणिवर्मा ॥
               इतरौ हि तावुभावपि कालक्रमपकमन्मथाबथौ ।
               अन्योन्यसानुरागौ यदि जीवितमुज्झतः स्म तद्भवतु ॥
               मणिवर्मा त्वतिमूढो यो भार्यामन्यपुरुषसक्तमृताम् ।
               दृष्ट्वा कोपकाळे प्रत्युत रक्तः शुचामुचमणान् ॥
               इति गदितवतः स तस्य राज्ञो बत वेतालपतिः पुनर्जगाम ।
               निजमेव पदं तदंसपीठादथ राजापि तमन्वगात्स भूयः ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्यकेऽष्टाविंशस्तरङ्गः


_____


एकोनत्रिंशस्तरः ।


( द्वाविंशो वेतालः।)


ततो राजा पुनर्गत्वा वेतालं शिंशपाग्रतः । स त्रिविक्रमसेनस्तं प्राप्यांसारोपितं व्यधात् ॥
आयान्तं तं च राजानं स वेतालोऽब्रवीत्पथि । राजन्साधुः सुसत्वस्त्वं तव पूर्वी कथां श्रुणु ॥
बभूव पूवे कुसुमपुराख्यनगरेश्वरः। पृथ्वीतलेऽस्मिन्धरणीवराहो नाम भूपतिः ॥
तस्य ब्राह्मणभूयिष्ठे राष्ट्रे ब्रह्मस्थळाभिधः । अग्रहारोऽभवत्तत्र विष्णुस्वामीत्यभूद्विजः ॥
तस्यानुरूपा भार्याभूद्यथा स्वाहा हविभुजः । तस्यां च तस्य चत्वारः क्रमादुपेदिरे सुताः ॥
अधीतवेदपूतक्रान्तशैशवेषु च तेषु सः । विष्णुस्वामी दिवं प्रायन्नर्ययानुगतस्तया ॥
ततस्ते तत्र तत्पुत्राः सर्वेऽप्यानाथ्यदुःस्थिताः । गोत्रजैर्हतसर्वस्वा मन्त्रयांचक्रिरे मिथः ॥
नास्तीह गतिरस्माकं तद्रजामो वयं न किम् । इतो मातामहगृहं ग्रामं यज्ञस्थलाभिधम् ॥
एतदेव विनिश्चित्य प्रस्थिता भैक्ष्यभोजनाः । मातामहगृहं प्रापुस्तेऽथ तद्वहुभिर्दिनैः ॥
तत्र मातामहाभावान्मातुलैर्दत्तसंश्रयाः । भुजानास्तङ्हे तस्थुः स्वाध्यायाभ्यासतत्पराः ॥
कालक्रमच तेषां ते मातुळानामकिंचनाः। अवज्ञापात्रतां जग्मुभंजनाच्छादनादिषु ॥
ततः स्वजनसंस्फूर्जद्वमानहतात्मनाम् । तेषां रहः सचिन्तानां ज्येष्ठो भ्रातात्रवीदिदम् ॥
भो भ्रातरः किं क्रियते सर्वमाचेष्टते विधिः । न शक्यं पुरुषस्येह कचित्किचित्कदाचन ॥
अहं युद्वेगतो भ्राम्यन्प्राप्तोऽद्य पितृकानने । विपन्नस्थितमद्राक्षी त्रस्ताङ्ग पुरुषं भुवि ॥
अचिन्तयं च दृष्ट्वा तमहं तां स्पृहयन्गतिम् । धन्योऽयमेवं विश्रान्तो दुःखभारं विमुच्य यः ॥
इति संचिन्त्य तत्कालं कृत्वा मरणनिश्चयम् । वृक्षाप्रसङ्गिना पाशेनास्मानमुदलस्वयम् ॥
यावच मे विसंज्ञस्य तदानिर्यान्ति नासवः । तावच्छुटितपाशोऽत्र पतितोऽस्मि महीतले ॥
लब्धसंज्ञश्च केनापि पुंसा क्षिप्रास्कृपालुना । आश्वास्यमानमात्मानमपश्यं पटमारुतैः ॥
सखे कथय विद्वानप्येवं कं प्रति खिद्यसे । सुखं हि सुकृतादुःखं दुष्कृतादेति नान्यतः ॥
दुःस्रायदि तवोद्वेगः सुकृतं तत्समाचर । कथं तु नरकं दुःखमात्मत्यागेन वाञ्छसि ॥