पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५८
[ आदितस्तर
कथासरित्सागरैः ।

पत्युस्तु सास्य सुमुखी जीवितदप्यभूत्प्रिया । धनद्भिः कृपणस्येव छुच्छासुचिरसंचिता ॥
एकदा चान्तिकं पित्रोस्ताम्रलिप्त निजं गृहम् । उत्कण्ठादिनिमित्तेन मणिवर्मा जगाम सः ॥
ततो दिनेषु यातेषु तीक्ष्णसूर्याद्यसायकैः। प्रोषितानां निरुद्धाध्वा घर्मकाल इहाभ्यगात् ॥
वसन्तविरहादुष्णा निःश्वासाः ककुभामिव । मल्लिकापाटलामोदमेदुरा मरुतो वसुः ॥
उत्पेतुः पवनोदूता गगने रेणुराजथः । दूव्यो घनागमायेव प्रहितास्तप्तया भुवा ॥
आकाङ्किततरुच्छायाः कठोरातपतापिताः। पथिका इव यान्ति स्म चिरेण दिवसा अपि ॥
चन्द्रांशुपाण्डुरुचयो गाढाश्लेषसुखप्रदम् । विना हेमन्तमगमन्नतिदुर्बलतां निशः ॥
तत्कारुं चन्दनालेपधवलाा सा वणिक्सुता । संबीततनुकौशेयशोभितानङ्गमञ्जरी ॥
दर्श स्खगुहोलुङ्गवातायनगतैकद । आप्तसख्या युता भव्यं युवानं विप्रपुत्रकम् ॥
संचरन्तं रतिप्राप्यै नवोत्पन्नमिव स्मरम् । कमलाकरनामानं पुत्रं राजपुरोधसः ॥
सोऽपीन्दोरिव मूर्ति तां कान्तां दृष्टोपरिस्थिताम् । कुमुदाकरतां भेजे सानन्दः कमलाकरः ॥
तयोरभूदमूल्यं तन्मनःसंवननं तदा। स्मरगुर्वाज्ञया यूनोरन्योन्यस्यावलोकनम् ॥
उन्मूलितह्रियौ तौ च दूरविक्षिप्तचेतसा । रजोभिभूतौ जह्राते मन्मथाबेगवात्यया ॥
दृष्ट च मदनाविष्टः सख्या स कमलाकरः। सहस्थितेन नीतोऽभूत्कथंचिद्वनं निजम् ॥
सापि तं नामतोऽन्विष्य विवशानङ्गमञ्जरी । तया स्वया समं सख्या प्राविशद्वासकं शनैः ॥
तत्र संचिन्तयन्ती च कान्तं कामज्वरातुरा । नापश्यन्नाशृणोर्सिकाचिकुठन्ती शयनीयके ॥
गतेष्वहःसु द्वित्रेषु सत्रपा सभया च सा । असह विरहोन्मादं विसोढं कृशपाण्डुरा ॥
दुष्प्रापप्रियसंयोगनिरास्था नक्तमेकदा। गवाक्षप्रेरितकरेणाकृष्टैव हिमांशुना ॥
सुते परिजने स्वैरं निर्गत्य मरणोन्मुखी । जगाम स्वगृहोद्यानवापीं तरुलतावृताम् ॥
तत्र पित्रा कृतोदारप्रतिष्ठां कुळदेवताम् । उपेत्य चण्डिकां देवीं नत्वा स्तुवा व्यजिज्ञपत् ॥
अस्मिजन्मनि चेद्भर्ता न मया कमलाकरः । प्राप्तस्तद्देवि भूयान्मे सोऽन्यस्मिन्नपि जन्मनि ॥
इत्युक्त्वा पुरतस्तस्या देव्याः साशोकपादपे । पाशं विरचयामास स्वोत्तरीयेण रागिणी ॥
सावदाप्ता सखी तस्याः सा प्रबुध्यात्र वसके । तामदृष्ट्वा तदुद्यानं दैवादागाद्विचिन्वती ॥
तत्र दृष्टा च तां पाशमर्षयन्तीं तथा गले । मामेत्युक्खा प्रधाव्यैव पाशं तस्यास्तमच्छिनत् ॥
सापि तां वीक्ष्य संप्राप्तां कृत्तपाशां निजां सखीम्। अनङ्गमञ्जरी भूमौ पपातधिकदुःखिता ॥
आश्वासिता स्वसख्या च तया पृष्टा च सा क्षणात् । दुःखहेतुं समाख्याय पुनरेतामभाषत ॥
सखि मालतिके तन्मे दुर्लभे प्रियसंगमे । गुर्वादिपरतत्राया न सुखं मरणात्परम् ॥
इति ब्रुवाणैवानङ्गशराग्निज्वलिता भृशम् । सानङ्गम जरी मोहं ययौ नैराश्यनिःसहा ॥
कष्टं स्मराज्ञा दुर्घड्या यया नीता दशामिमाम् । अन्याविनीतवनिताहसिनीयं सखी मम ॥
इत्यादि विलपन्तीं च तां सा मालतिका सखी । शनैराश्वासयामास शीत(म्युपवनादिभिः ॥
तापोपशान्तये चास्याश्चकार नलिनीदलैः । शय्यां ददौ च हृदये हारं तुहिनशीतलम् ॥
ततः साश्रुरुवाचैतां सखीं सानङ्गमञ्जरी । सखि हारादिभिर्नायं दाहोऽन्तर्मम शाम्यति ॥
येन प्रशाम्यति पुनः स्वबुद्धयैव विधत्स्व तत् । मां संयोजय कान्तेन जीवितं मे यदीच्छसि ॥
एवमुक्तवतीं तां सा स्नेहन्मालतिकात्रवीत् । सखि भूयिष्ठयाताद्य रात्रिः प्रातरहं पुनः॥
इहैव कृतसंकेतमानेष्यामि प्रियं तव । तदालम्ब्य धृतिं तावन्निजं प्रविश मन्दिरम् ॥
इत्युक्तवत्यै संतुष्य तस्यै सानङ्गमञ्जरी । हारं स्वकण्ठादाकृष्य प्रददौ पारितोषिकम् ॥
गच्छाधुनैव स्वगृहं प्रातः सिज्यै ततो व्रज । इति चैतां सखीं प्रेष्य सा विवेश स्ववासकम् ॥
प्रातश्च सा माळतिका केनाप्यनुपलक्षित। तत्सखी तस्य कमलाकरस्य भवनं ययौ ॥
चिन्वती तत्र चोद्याने तरुमूले ददर्श तम् । चन्दनाद्रुम्बुरुहिणीपत्रशय्याविवर्तनम् ॥