पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५६
[ आदितस्तरङ्गः
कथासरित्सागरः ।

दास्यामि चेप्सितं तुभ्यमानीय पुरुषं पशुम् । येन ते भविता तृप्तिस्तस्रसीद छैधं त्यज ॥
इति राज्ञो वचः श्रुत्वा शान्तः स ब्रह्मराक्षसः । अस्तु को दोष इत्यन्तविचिन्त्यैवमभाषत ॥
यः सप्तवर्षदेश्योऽपि महासत्त्वो विवेकवान् । त्वदर्थे स्वेच्छयात्मानं दद्याद्धाह्मणपुत्रकः ॥
हन्यमानं च यं माता हस्तयोः पादयोः पिता । अवष्टभ्यातिसुदृढं संनिवेश्य महीतले ॥
तादृशं पुरुषं मह्ममुपहारीकरोषि चेत् । स्वयं खङ्गप्रहारेण हत्वा सप्तदिनान्तरे ॥
तन्ते क्षमिष्ये न्यक्कारमन्यथा तु महीपते । सद्यो विनाशयिष्यामि त्वामहं सपरिच्छदम् ॥
श्रुत्वैतत्स भयाद्राजा प्रतिपेदे तथेति तत् । तिरोबभूव च ब्रह्मराक्षसः सोऽपि तत्क्षणम् ॥
अथ चन्द्रावलोकोऽसौ राजा सेन्दीवरप्रभः । हयारूढस्ततः प्रायात्सैन्यं चिन्वन्सुदुर्मनाः ॥
अहो अहं मृगयया मदनेन च मोहितः । गतः पाण्डुरिवाकाण्डे विनाशं बत बालिशः ॥
प्राप्यते ह्यपहारोऽस्य राक्षसस्तादृशः कुतः । तन्निजं नगरं तावद्यामि पश्यमि भावि झिम् ॥
इति ध्यायन्स च प्राप स्वसैन्यं चिन्वदागतम् । तद्युक्तश्च सदारः स्वं चित्रकूटमगात्पुरम् ॥
तत्र तस्योचितां भार्याप्राप्तिं वीक्ष्य कृतोत्सवे । राष्ट्रेऽन्तर्गतदुःखस्य दिनशेषो जगाम सः ॥
द्वितीयेऽह्नि रहः सर्वं स्ववृत्तान्तं शशंस सः । मञ्जिभ्यस्तेषु चैकस्तं सी सुमतिरब्रवीत् ॥
विषादो देव ते मा भूदुपहरं हि तादृशम् । आनेष्याम्यहमन्विष्य बह्वाश्चर्या हि मेदिनी ॥
एवमाश्वास्य राजानं स सौवर्णामकारयत् । मन्त्री सप्ताब्ददेशीयबालकप्रतिमां द्रुतम् ॥
रत्नैरलंकृतां तां च कृत्वा कर्णीरथार्पिताम् । भ्रामयामास नगरग्रामघोषेष्वितस्ततः ॥
यः सप्तवर्षदेशीयः स्वेच्छया विप्रपुत्रकः। ददाति सर्वसत्त्वार्थमात्मानं ब्रह्मरक्षसे ॥
उपहाराय सत्वस्थो मातापित्रोरनुज्ञया । हन्यमानश्च यस्ताभ्यां हस्तपादे प्रमृष्यत ॥
तस्मै प्रामशतोपेतां हेमरत्नमयीमिमाम् । ददाति प्रतिमां राजा पित्रोरुपचिकीर्षवे ॥
= इति च भ्राम्यमाणायास्तस्याः प्रतिकृतेः शिशोः । पटहोद्धोषणां मत्री सोऽग्रेऽजस्रमदापयत् ॥
तावच्छुत्वा तदेकस्मिन्नग्रहारे द्विजार्भकः । कोऽपि सप्ताब्ददेशयिोऽप्यतिधीरोऽद्भुताकृतिः ॥
पूर्वाभ्यासेन बाल्येऽपि सदा परहिते रतः । प्रजापुण्यपरीपाक इव साकारतां गतः ॥
उवाचोद्धोषकानेत्य युष्मदर्थे ददाम्यहम् । आत्मानं पितरौ गत्वा बोधयित्वाभ्युपैमि च ॥
इत्यूचिवांस्तान्मुवितान्स बालोऽनुमतश्च तैः। गत्वा गृहं जगाद स्वै पितरौ रचिताञ्जलिः ॥
ददामि सर्वसत्त्वार्थं देहमेतं विनश्वरम् । तन्मामभ्यनुजानीतं हतां चापदमात्मनः ॥
आत्मप्रतिकृतिं तां गृहीत्वा वितरामि वाम् । हेमरनमयीं राज्ञा दत्तां ग्रामशतान्विताम् ॥
एवं मे युष्मद्बृण्यं परार्थश्चैव सिद्ध्यति । युवां च ध्वस्तदारिद्धौ बहून्पुत्रानवाप्स्यथः ॥
इत्युक्तवन्तं सहसा पितरौ तौ तमूचतुः । किमेतद्भाषसे पुत्र वातेन क्षुभितोऽसि किम् ॥
किं वा ग्रहगृहीतोऽसि प्रलपस्यन्यथा कथम् । को ह्यथैषीतयेत्पुत्रं देहं दद्याच्च कः शिशुः ॥
एतत्पित्रोर्वचः श्रुत्वा बालः पुनरुवाच सः । न बुद्धिमोहजाल्पामि शृणुतं मेऽर्थवद्वचः ॥
अवाच्याशुचिसंपूर्णमुत्पत्यैव जुगुप्सितम् । दुःखक्षेत्रं विनाश्येब शरीरमचिरादिदम् ॥
तदेतेनात्यसारेण सुकृतं यदुपार्यते । तदेव सारं संसारे कृतबुद्धिभिरुच्यते ॥
सर्वभूतोपकाराच्च किमन्यत्सुकृतं परम् । तत्रापि पित्रोर्भक्तिश्चेकि देहदृश्यते फलम् ॥
इत्यादिवाक्यैः स शिशुः शोचन्तौ दृढनिश्चयः । तावङ्गीकारयामास पितरौ स्वमनीषितम् ॥
गत्वा च राजभृत्येभ्यः प्रतिमां तां हिरण्मयीम् । आनीय प्रददौ ताभ्यां सग्रामशतशसनाम् ॥
ततः क्रुखात्रतो राजभृत्यांस्तानेव स द्रुतम् । पितृभ्यामन्वितः प्रायाचित्रकूटं नृपान्तिकम् ॥
तत्र चन्द्रावलोकस्तं वीक्ष्णखण्डिततेजसम् । रक्षारत्नमिव प्राप्तं बालं राजा ननन्द सः ॥
आरोप्य गजपृष्ठं च रचितस्रग्विलेपनम् । निनाय तं सपितृकं केतनं ब्रह्मरक्षसः ॥
तत्र मण्डलमालिख्य तस्याश्वत्थस्य पार्श्वतः । विहितोचितपूजेन हुते वह्नौ पुरोधसा ॥