पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५४
[ आदित
कथासरित्सागरः ।

सप्तविंशस्तरङ्गः


( विंशो वेतालः । )


ततो गत्वा गृहीत्वांसे वेतालं शिंशपातरोः । स त्रिविक्रमसेनस्तमुञ्चचाल पुनर्द्धपः ॥ १
मौनेन प्रस्थितं तं च वेताळऽसादुवाच सः । राजन्कस्तेऽनुबन्धोऽयं गच्छ रात्रिसुखं भज ॥ २
न युक्तं तव नेतुं मां कुभिक्षोस्तस्य गोचरम् । प्रहो वा तत्र चेदस्तु कथामेक मिमां शृणु ॥ ३
अस्ति स्वरेखानुक्रान्तवर्णभेदव्यवस्थिति । नगरं चित्रकूटाख्यं बिभ्राणं सत्यनामताम् ॥ ४
तत्रामृतरसासारवर्षी प्रणयिचक्षुषाम् । चन्द्राबलोक इत्यासीद्राजा राजशिखामणिः ॥ ५
आलानं शौर्यकरिणस्त्यागस्योत्पत्तिकेतनम् । विळसवेश्म रूपस्य शशंसुर्यं विचक्षणाः ॥ ६
सतीषु सर्वसंपत्सु यन्न प्राप निजोचिताम् । भार्या सैका परं चिन्ता यूनस्तस्याभवद्धृदि ॥ ७
एकदा च तदुद्वेगविनोदाय महाटवीम् । जगामाश्रीयसहितो भृगयायै स भूपतिः ॥ ८
तत्र सूकरवृन्दानि भिन्न्बाणैर्निरन्तरैः। श्यामलाम्बररोचिष्णुस्तमांसीव रविः करैः। ॥ ९
शाययञ्शरशय्यासु सिंहान्समरदुर्मदान् । मूर्धजैर्धवटैर्भाष्मानर्जुनाधिकविक्रमः ॥ १०
विपक्षीकृत्य शरभान्पातयन्पर्वतोपमान् । दम्भोलिकर्कशप्रासपतैर्जम्भारिविक्रमः ॥ ११
रसाद्विविक्षुः स नृपो वनाभ्यन्तरमेककः । तीव्रपाष्णिप्रहारेण प्रेरयामास वाजिनम् ॥ १२
स वाजी तेन च कशाघातेनोत्तेजितो भृशम् । पाणिघातेन विषमं समं चागणयन्क्षणात् ॥ १३
वनान्तरं ततोऽनैषीद्वाताधिकजवो नृपम् । मोहितेन्द्रियवृतिं तं व्यतीत्य दशयोजनीम् ॥ १४
तत्र तस्मिन्स्थिते वाहे राजा दिओोहमेत्य सः। भ्रमवश्रान्तो ददसैंकमारात्सुविपुत्रं सरः ॥ १५
मारुतेनाभिमुख्येन नमितोन्नमितैर्मुः । इत एहीति हस्तामैः संज्ञां कुर्वंद्विवाम्बुजैः ॥ १६
तत्र गत्वा च तुरगं विपर्याणोपवार्तितम् । स्नातपीतं तरुच्छायबढं दततृणोत्करम् ॥ १७
कृत्वा स्वयं कृतस्नानः पीताम्बुर्गलितश्रमः । रम्येषु तत्प्रदेशेषु ददौ दृष्टिमितस्ततः ॥ १८
एकत्र चाशोकतरोरधस्तान्मुनिकन्यकाम् । आमुक्तपुष्पाभरणं वल्कलांशुकशोभिनीम् ॥ १९
मुग्धबद्धजटाजूटसविशेषमनोरमाम् । सखीद्वितीयामाश्चर्यरूपां राजा ददर्श सः ॥ २०
अचिन्तयञ्च पुष्पेषोः पतितः शरगोचरे । केयं स्यात्सरसि स्नातुं सावित्री किंस्विदागता ॥ २१
किं हरस्याङ्गविभ्रष्टा गौरी भूयः श्रिता तपः। अहन्यस्तंगतस्येन्दोः कान्तिः किं वा धृतव्रता ॥ २२
तदेतामुपसृत्येह शनैरुपलभे वरम् । इत्यालोच्य ययौ तस्याः कन्यायाः सोऽन्तिकं नृपः ॥ २३
सापि दृष्ट्वा तमायान्तं तद्वैपाकुलितेक्षणा । पूर्वप्रारब्धपुष्पस्रक्सन्नहस्ता व्यचिन्तयत् ॥ २४
कोऽयमीदृगरण्येऽस्मिन्सिद्धो विद्याधारो नु किम् । बतास्य रूपं विश्वस्य कृतार्थीकरणं दृशोः ॥ २५
एवं वितथं पश्यन्ती तिर्यक्तं त्रपया ततः। उस्थाय सोरुस्तम्भापि गन्तुं प्रावर्ततैव सा ॥ २६
अथोपेत्य स राजा तामेवं नागरिकोऽब्रवीत् । आस्तां प्रथमदृष्टस्य दर्शनैकफलार्थिनः ॥ २७
जनस्य दूरायातस्य सुन्दरि स्वागतादिकम् । कोऽयं न्वाश्रमिणां धर्मो यदेतस्मात्पलाय्यते ॥ २८
इत्युक्ते भूभुजा तस्याः सखी तद्वद्विचक्षणा । तत्रोपवेश्य नृपतेश्चकारातिथ्यसत्क्रियाम् ॥ २९
अथ सप्रणयं राजा त स पप्रच्छ सोत्सुकः। भद्रे कः पुण्यवान्वंशस्त्वत्सख्यालंकृतोऽनया ॥ ३०
कानि श्रोत्रामृतस्यन्दीन्यस्या नामाक्षराणि च । किं चैवमनया पुष्पसुकुमारमिदं वपुः ॥ ३१
तापसोचितया वृत्या विजनेऽस्मिन्कर्यते । इति राज्ञो वचः श्रुत्वा तत्सर्वं प्रत्युवाच सा ॥ ३२
एषा महर्षेः कण्वस्य दुहिता वर्धिताश्रमे । मेनकासंभवा कन्या नाम्ना चेन्दीवरप्रभा ॥ ३३
इहास्मिन्सरसि स्नातुमागतानुज्ञया पितुः। इतोऽत्र नातिदूरेऽस्ति तस्यैतत्पितुराश्रमः ॥ ३४
इत्युक्तः स तया हृष्टो राजारुह्य तुरङ्गमम् । याचितुं तां सुतां तस्य कण्वपैराश्रमं ययौ ॥ ३५
विवेश च विनीतस्तं बहिः स्थापितवाहनः । जटावल्कलिभिः पूर्ण पादपैरिव तापसैः ॥ ३६
च तमद्राक्षीदषिभिः परिवारितम् । तेजसाहादनं कण्वमुनिं चन्द्रमिव ग्रहैः ॥ ३७