सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५२
[ आदितस्तरङ्गः
कथासरित्सागरः ।

तत्र सूर्यप्रभे राज्ञि सौराज्यसुखिते जने । निरुपद्रवनिश्चिन्ता स्थास्यसि त्वं यथेच्छसि ॥
इत्युक्त्वा तृषितः पीत्वा तयैवोपहृतं जलम् । शूलख्यधव्यथोत्क्रान्तजीवश्चौरो बभूव सः ॥
ततो गत्वा वणिक्स्त्री सा स्वर्ण बटतरोस्तलात् । गृहीत्वा ससुता गुप्तमगाद्भर्तृसुहळुहम् ॥
तत्र स्थित्वा च युक्त्या तदहयित्वा कलेवरम् । चौरस्य तस्य तीर्थेऽस्थिक्षेपादिकमकारयत् ॥
अन्येद्युश्चातगुप्तायी ततो निर्गत्य सात्मजा । प्रयान्ती क्रमशः प्राप सा तद्वनोलकं पुरम् ॥
तत्रैकं वसुदत्ताख्यातृहं क्रीत्वा वणिग्वरात् । तस्मिञ्बास सुतया धनवत्या तया सह ॥
तवा च तत्रोपाध्यायो विष्णुमीत्यभूपुरे । मनःखामीति तस्यासीच्छिष्यो विप्रोऽतिरूपवान् ॥
विद्याभिजनयुक्तोऽपि स यौवनवशीकृतः । तत्र हंसावलीं नाम वाञ्छति स्म विलासिनीम् ॥
सा च सौवर्णदीनारशतपञ्चकमग्रहीत् । भाटिं तस्य च तन्नाभूद्यषीदत्तेन सोऽन्वहम् ॥
एकदा च तमद्राक्षीत्तादृशं सा वणिक्सुता । क्षामभिरामवपुषं धनवत्यत्र हर्यतः ॥
तद्रुपहतचित्ता च भर्तुश्चौरस्य तस्य सा। स्मृत्वानुज्ञां समीपस्थो युक्स्यावोचत्स्वमातरम् ॥
अम्ब विप्रसुतस्यास्य पश्यैते रूपयौवने । कीदृशे बत विश्वस्य नयनमृतवर्षिणी ॥
एतच्छुत्वैव तस्मिस्तां बद्धभावामवेत्य च । तन्माता सा वणिग्भार्या मनस्येवमचिन्तयत् ॥
महुहित्रानया तावद्वरणीयः सुताप्तये । कश्चिद्धर्माज्ञया तस्मादेष एवायंते न किम् ॥
इत्याकलय्य व्यसृजत्तत्संदिश्य मनीषितम् । रहस्यधारिणीं चेटीं तमानेतुं सुताकृते ॥
सा गत्वा विजने नीत्वा चेटी तस्मै शशंस तत् । स च श्रुत्वा द्विजयुवा व्यसनी तामभाषत ॥
यदि हंसावलीतोर्दीनारशतपञ्चकम् । सौवर्णं दीयते मध्यं तदेकामेमि यामिनीम् ॥
इति तेनोक्तया चेट्या तया गत्वा तथैव सा । उक्ता वणिक्स्त्री तस्मै तत्तद्धस्ते प्राहिणोद्धनम् ॥
तद्रुहीत्या मनःस्वामी तत्पुत्र्या वासकं ययौ । तस्याः स तन्निसृष्टाया धनवत्याः सचेटिकः ॥
तत्र तां विततोस्कण्ठां कान्तां भूषितभूतलम् । स चकोर इव ज्योत्स्नां ददर्श च जहर्ष च ॥
तया समं च नीत्वा तां रात्रिं संभोगलीलया । निर्गत्य स ततो गुरुं ययौ प्रातर्यथागतम् ॥
सापि तस्माद्धनवती सगर्भाभूद्धणिक्सुता । काले च सुषुवे पुत्रं लक्षणानुमितायतिम् ॥
परितुष्टां तदा तां च सुतोपस्या समातृकाम् । आदिदेश हरः स्वप्ने दर्शितस्ववपुर्निशि ॥
युक्तं हेमसहस्त्रेण नीत्वा बालमुषस्यमुम् । सूर्यप्रभनृपस्येह मञ्चस्थं द्वारि मुञ्चतम् ॥
एवं स्यारक्षेममित्युक्ता शूलिना सा वणिक्सुता । तन्माता च प्रयुज्यैतं स्खन्नमन्योन्यमूचतुः ॥
नीवा च तं तत्यजतुर्भगवत्प्रत्ययाच्छिशुम् । राज्ञः सूर्यप्रभस्यास्य सिंहद्वारे सहेमकम् ॥
तावच्च तमपि स्खन्ने सुतचिन्तातुरं सदा । तत्र सूर्यप्रभं भूपमादिदेश वृषध्वजः॥
उत्तिष्ठ राजन्बालरते सिंहद्वारे सकाञ्चनः । केनापि स्थापितो भख्यो मञ्चकस्थं गृहाण तम् ॥
इत्युक्तः शंभुना प्रातः प्रबुद्धोऽपि तथैव सः । द्वाःयैः प्रविश्य विशप्तो निर्ययौ नृपतिः स्वयम् ॥
इष्ट्रा च सिंहद्वारे तं बाहुं सकनकोत्करम् । रेखाच्छत्रध्वजाद्यक्पाणिपादं शुभाकृतिम् ॥
दत्तो समोचितः पुत्रः शंभुनायमिति ब्रुवन् । स्वयं गृहीत्वा बाहुभ्यां राजधानीं विवेश सः ॥
चकार चोत्सवं तावदसंख्यातं ददद्वसु । दरिद्रशब्दस्यैकस्य यावदासीन्निरर्थता ॥
नृतवाद्यादिभिर्नात्वा द्वादशाहं ततः स तम् । पुत्रं चन्द्रप्रभं नाम्ना चक्रे सूर्यप्रभो नृपः ॥
ववृधे राजपुत्रोऽत्र सोऽथ चन्द्रप्रभः क्रमात् । वपुषेव गुणौघेनाप्याश्रितानन्ददायिना ॥
शनैर्युवा च संजज्ञे शौयदार्यश्रुतादिभिः । आवाजतप्रकृतिकः क्ष्माभारोद्वहनक्षमः ॥
तादृशं च ततो दृष्ट्वा तं स सूर्यप्रभः पिता । राज्येऽभिषिच्यैव कृती वृद्धो वाराणसीं ययौ ॥
पृथ्वीं शासति तर्मिश्च तनये नयशालिनि । स राजा तत्र तत्याज चरंस्तीव्रतपस्तनुम् ॥
बुद्ध पितृविपतिं तामनुशोच्य कृतक्रियः । सोऽथ चन्द्रप्रभो राजा सचिबान्धार्भिकोऽब्रवीत् ॥
तातस्य तावत्केनाहमनृणो भवितुं क्षमः । तथाप्येकां स्वहस्तेन ददाम्येतस्य निष्कृतिम् ॥
नीत्वा क्षिपामि गङ्गायामस्थीन्यस्य यथाविधि । गत्वा सर्वपितृभ्यश्च गयां पिण्डं ददाम्यहम् ॥