पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ङ्गः २६ ।]
४५१
शशाङ्कवतीलम्षकः १२ ।

          राजन्संशयमेतं छिन्द्धि म गृहि हेतुना केन ।
          विहितेऽपि यथोद्दिष्टे कर्मणि वैिद्योभयोस्तयोर्नष्टा ॥ ८३
          एतत्स वेताळबचो निशम्य तं प्रत्यवोचन्मनुजेन्द्रवीरः।
          जाने भवान्। क्षिपतीह कालं योगेश्वरैवं तदपि ब्रवीमि ॥ ८४
          न दुष्करेणापि हि कर्मणैव शुद्धेन सिद्धिः पुरुषस्य लभ्या ।
          यावन्न निष्क्रम्यविकल्पशुद्धं धीरं मनो निर्मलसत्त्ववृत्ति ॥ ८५
          तस्यात्र मन्दस्य तु विप्रयूनश्चित्तं प्रबुध्यापि विकल्पते स्म ।
         विद्या न सा तेन गतास्य सिद्धिमस्थानदानाच गुरोर्विनष्टा ॥ ८६
         इति तस्य नृपस्य सृष्टवाचो बत वेतालवरोंऽसतः स भूयः।
         निजमेव पदं ययावलक्ष्यो नृपतिस्तं च तथैव सोऽन्वयासीत् ॥ ८७

इति महाकविश्रीसोमदेवभटुचिरचिते कथासरित्सागरे शशाङ्कवतीलम्बके पञ्चविंशस्तरङ्गः।


_____


षड्विशस्तरङः


(एकोनविंशो वेतालः।)


( गत्वा पुनः स्कन्धे बेतालं शिंशपाङ्मात् । स त्रिविक्रमसेनस्तं गृहीत्वोचलखूपः ॥ १
गच्छन्तं च तं भूयो वेतालः सोऽभ्यभाषत । राजञ्श्रुणु कथामेकां हृद्यां ते कथयाम्यहम् ॥ २
त वक्रोलकं नाम पुरं सुरपुरोपमम् । तस्मिन्सूर्यप्रभाख्योऽभूद्राजा जम्भारिसंनिभः ॥ ३
झय्द्यतया सूर्यो दत्तानन्दो वसुंधराम् । इमां हरिरिवोद्धृत्य यो बभार चिरं भुजे ॥ ४
सङ्केऽशुसंपातः ४ङ्गारे मरसंकथाः। द्वाःस्थेषु हेमदण्डाश्च राष्ट्रे यस्याभवन्प्रभोः ॥ ५
संपत्समृद्धस्य तस्यैकाभूदनिधृतिः । नोपद्यत यत्पुत्रो बहुष्वन्तःपुरेष्वपि ॥ ६
मश्च कथासंधौ ताम्रलिप्यां महापुरि । बभूव धनपालाख्यो धुर्यो धनवतां वणिक् ॥ ७
न चाजायतैकैव नाम्ना धनवती सुता । विद्याधरी च्युता शापात्सैौन्दर्येणैव सूचिता ॥ ८
i च यौवनस्थायां स वणिक्पश्यतां ययौ । तद्धनं राजसानाथ्यादाक्रान्तमथ गोत्रजैः ॥ ९
हिरण्यवत्याख्या वणिजस्तस्य गेहिनी । आदाय रत्नाभरणं निजमप्रकटस्थितम् ॥ १०
मया तया साकं स्वदुहित्रा निशामुखे । पलाय्य दायादभयाद्रुहाङतं विनिर्ययौ ॥ ११
तेन बहिरन्तश्च सा दुःखेनान्धकारिता । कृच्छाद्वहिःपुरं प्रायासुताहस्तावलम्बिनी ॥ १२
संतमसे यान्ती विधियोगादलक्षितम् । अंसेनाताडयचौरं शळाप्रारोपितस्थितम् ॥ १३
अजीवस्तदंसाम्रघट्टनाधिकपीडितः । आः क्षते क्षारमेतन्मे क्षिप्तं केनेत्यभाषत ॥ १४
तत्रैव सा कोऽसीत्यपृच्छत्तं वणिग्वधूः । प्रत्युवाच ततश्चौरश्चौरोऽहमिह सूचितः ॥ १५
पापस्य चाद्यापि नोक्रामन्ति ममासवः । तदर्थे त्वं मम ब्रूहि कासि कैवं प्रयासि च ॥ १६
एंव तं वणिग्भार्या यावत्स्योदन्तमाह सा । तावत्तिलकितं प्राच्या मुखमुद्भासितेन्दुना ॥ १७
दिक्षु प्रकाशामु स चौरस्तां वणिक्सुताम् । दृष्ट्वा धनवतीं कन्यां तन्मातरमुवाच ताम् ॥ १८
मे प्रार्थनामेकां सहनं काञ्चनस्य ते । दामि तदिमां सर्वां स्वसुतां देहि कन्यकाम् ॥ १९
तया तवेत्युक्तो हसन्त्याथ तयात्र सः। पुनश्चौरोऽब्रवीन्नास्ति पुत्रो मम गतायुषः ॥ २०
पुत्रोऽश्रुते लोकांस्तदोषा यं मदाज्ञया । कुत्रचिजनयेत्पुत्रं क्षेत्रजः स भवेन्मम ॥ २१
|ां प्रार्थये त्वं तु तद्विधत्स्व ममेप्सितम् । तच्छुत्वा सा वणिग्योषिलोभात्तत्प्रत्यपद्यत ॥ २२
य च कुतोऽप्यम्बु पाणैौ चौरस्य तस्य सा । एषा सुत मया तुभ्यं कन्या दत्तेयपातयत् ॥ २३
पि तदुहितुर्दत्तयथोक्ताज्ञो जगाद ताम् । गच्छामुष्य वटस्याधः खास्वा खणं गृहाण तत् ॥ २४
सोदाहयित्वा मे देहं युक्त्या विसृज्य च । अस्थीनि तीर्थं ससुता गच्छेर्वक्रोलकं पुरम् ॥ २५