पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४४
[ आदितस्तरङ्गः ९०
कथासरित्सागरः ।

तेन वैरेण गरुडस्तामुन्मोच्यापि मातरम् । यी भक्षयितुं नागान्कहूपुत्रान्प्रचक्रमे ॥ ९८
सदाप्रविश्य पातालं सोऽथ कांश्चिज्जघास तान् । कांश्चिन्ममर्द केचित्तु स्वयं त्रासाद्विपेदिरे ॥ ९९
तदृचैकपदे सर्वक्ष्यमाशङ्क्य नागराट् । वासुकिः प्रार्थनापूर्व तार्यस्य समयं व्यधात् ॥ १००
एकमेकमहं नागमाहारार्थं खगेन्द्र ते । प्रत्यहं प्रेषयाम्यत्र पुलिने दक्षिणोदधेः ॥ १०१
त्वया तु न प्रवेष्टव्यं पातालेऽस्मिन्कथंचन । को हि स्वार्था विनष्टेषु नागेष्वेकपदे तव ॥ १०२
इत्युक्ते नागराजेन समयं प्रत्यपद्यत । स्वार्थदर्श तथेत्येव गरुडो गुरुविक्रमः ॥ १०३
तदाप्रभृति चैकैकं नागै भुले दिने दिने । वासुकिप्रेषितं सोऽत्र खगेन्द्रः पुलिनेऽम्बुधेः ॥ १०४
अतस्तद्रक्ष्यमाणानां नागानामस्थिसंचयाः। एतेऽत्र गिरिशृङ्गाभा वृद्धिं कालक्रमाद्गताः ॥ १०५
इति मित्रावसोर्वकासान्तर्मुखो निशम्य सः । निजगाद द्यधैर्यनिधिर्जीमूतवाहनः ॥ १०६
शोच्यः स वासुकी राजा यः स्वहतेन विद्विये । उपहारीकरोति स्वाः प्रजाः क्लीबो दिने दिने ॥ १०७
धृताननसहन्नः सन्नेकेनाप्याननेन सः । मामादौ भुङ्क्ष्व ताक्ष्यैति भाषितुं नाशकत्कूथम् ॥ १०८
कथं चाभ्यर्थयामास निःसत्वः स्वकुलक्षयम् । ताद्र्य नागाङ्गनाक्रन्दनित्याकर्णननिर्गुणः ॥ १०९
ताभ्योंऽपि काश्यपिर्वीरः कृष्णधिष्ठानपावनः । ईदृशं कुरुते पापमहो मोहस्य गाढता ॥ ११०
इत्युक्त्वा स महसत्रो हृदि चक्रे मनोरथम् । अप्यसारेण देहेन सारमत्राप्नुयामहम् ॥ १११
एकस्याप्यद्य नागस्य कुर्यं जीवितरक्षणम् । अबान्धवस्य भीतस्य दरवारमानं गरुते ॥ ११२
इति संचिन्तयत्येव तस्मिञ्जीमूतवाहने । मित्रावसोः पितुः पार्श्वत्क्षत्ताह्नानार्थमाययौ ॥ ११३
व्रज त्वमहमेष्यामि पश्चादिति ततश्च तम् । मित्रावसुं स जीमूतवाहनो व्यसृजद्रुहम् ॥ ११४
गते तस्मिन्ख यापैको वाञ्छितार्थान्मुखो भ्रमन् । कृपालुरणोदूरात्करुणं रुदितध्वनिम् ॥ ११५
गत्वा ददर्श चोत्तुङ्ग शिलातलसमीपगम् । युवानमेकं पुरुषं दुःखितं सुन्दराकृतिम् ॥ ११६
पैसा राजभटेनेव त्यक्तमानीय तरक्षणम् । निवर्तयन्तं रुदतीं वृद्धां सानुनयं स्त्रियम् ॥ ११७
कोऽयं स्यादिति यावश्च जिज्ञासुः सोऽत्र तिष्ठति । करुणाकुलितश्छन्नः ण्वीमूतवाहनः ॥ ११८
तावत्सा तत्र वृद्धा स्त्री दुःखभारातिपीडिता । प्रावर्तत युवानं तं दृष्ट्वा दृष्ट्वानुशोचितुम् ॥ ११९
हा शङ्कचूड हा दुःखशतसंप्राप्त हो गुणिन् । कुनैकतन्तो हा पुत्र क खां द्रक्ष्याम्यहं पुनः ॥ १२०
वत्स त्वन्मुखचन्द्रेऽस्मिन्नातेऽस्तं स पिता तव । शोकान्धकारपतितः कथं वृद्धो भविष्यति ॥ १२१
अथार्ककरसंस्पर्शादी दूयेत यत्तव । कथं शक्ष्यति तत्सोढं तार्यभक्षणजां रुजम् ॥ १२२
विस्तीर्णे नागलोकेऽपि धात्रा नागाधिपेन च । लढधस्त्वं किमभध्याया विचित्रैकसुतो मम ॥ १२३
इति तां विलपन्तीं च स युवा तनयोऽब्रवीत् । दुःखार्तमपि मामम्ब किं दुःखयसि हा भृशम् ॥ १२४
निवर्तस्व गृहानेष प्रणामः पश्चिमस्तव । इहगमनवेल हि भवेज्जातु गरुत्मतः ॥ १२५
तच्छुत्वा हा हतास्मीह को मे पास्यति पुत्रकम् । इति चक्रन्द सा वृद्ध दिक्षु क्षिप्तार्तलोचना ॥ १२६
तावच्च बोधिसत्त्वांशः स तजीमूतवाहनः। श्रुत्वा दृष्ट्वा च कृपया गा(ढाक्रान्तो व्यचिन्तयत् ॥ १२७
हन्तायं शङ्कचूडाख्यो नागो वासुकिना बत । आहारहेतोस्तार्यस्य तपस्वी प्रेषितोऽधुना ॥ १२८
इयं चैतस्य जननी स्नेहेनेहन्वगागता । एतदेकसुता वृद्ध दुःखदीनप्रलापिनी ॥ १२९
तदेनमेकार्त चेद्देहेनैकान्तनाशिना । रक्षामि नामुना नागं तन्मे धिग्जन्म निष्फलम् ॥ १३०
इत्यालोच्योपगम्यैब मुदा जीमूतवाहनः । वृद्धामुवाच तां मातः पुत्रं रक्ष्याम्यहं तव ॥ १३१
तच्छुत्वा भावितभया वृद्धा गरुडशङ्किनी। संत्रस्त ताक्ष्यै मां भुङ्क्ष्व मां भुङ्क्ष्वेति जगाद सा ॥ १३२
शङ्कचूडस्ततोऽवादीनैष ताक्ष्यऽम्व मा त्रसीः। कायं चन्द्र इवाहदी क स ताक्ष्यं भयंकरः ॥ १३३
इत्युक्ते शङ्कचूडेन प्राह जीमूतवाहनः । विद्याधरोऽहमायातो रक्षितुं सुतमम्न ते ॥ १३४
दास्यामि हि शरीरं स्वं वनच्छन्नं गरुत्मते । क्षुधिताय प्रयाहि त्वमादायैतं सुतं गृहम् ॥ १३५
तच्छुत्वा साधवीवृद्ध मैवं त्वं ह्यधिको मम । पुत्रो यस्येदृशे काले कृपास्मास्विंयमीदृशी ॥ १३६