पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः २३ ।]
४४५
शशाङ्कवतीलम्बकः १२ ।

एतच्छुत्वा स जीमूतवाहनः पुनरब्रवीत् । न मे मनोरथस्यास्य भद्रं कर्तुमिहार्हथ ॥ १३७
ग्रहादेवं ब्रुवाणं च शङ्कचूडो जगाद तम् । शीितैव महासत्व सत्यंवया कृपालुत ॥ १३८
नत्वहं त्वच्छरीरेण रक्ष्यामि स्वशरीरकम् । रनव्ययेन पाषाणं को हि रक्षितुमर्हति ॥ १३९
मादृशैस्तं जगत्पूर्णं स्वात्ममात्रानुकम्पिभिः। अनुकम्प्यं जगधेषां विरलास्ते भवादृशाः ॥ १४०
न चाहं मलिनीकर्तुं शकपालकुलं शुचि। कलङ्क इव तीक्ष्णांशुबिम्बं शक्ष्यामि सन्मते ॥ १४१
इति तं प्रतिषिध्यैव शङ्कचूडः स्वमातरम् । जगादाम्ब निवर्तस्व कान्ताराहुर्गमादितः ॥ १४२
न पश्यसि किमत्रैतन्नागासृकर्दमोक्षितम् । कृतान्तलीलापर्यङ्करौद्रे वध्यशिलातलम्। ॥ १४३
अहं चब्धितटे गत्वा नत्वा गोकर्णमीश्वरम् । आगच्छामि व्रतं यावन्नायाति गरुडोऽत्र सः ॥ १४४
इत्युक्त्वा कृपणाक्रन्दां प्रणम्यापृच्छय मातरम् । स गोकर्णप्रणामार्थं शङ्कचूडो ययौ ततः ॥ १४५
आस्मिश्चेदन्तरे प्राप्तस्तार्यः सिद्धो ममेप्सितः । परार्थ इति जीमूतवाहनोऽप्यकरोद्धृदि ॥ १४६
तावच्चासन्नपक्षीन्द्रपक्षानिलजलांस्तरून् । विलोकयात्र स ममेति निवारणपनिव ॥ १४७
मत्वा गरुडवेयां च प्राप्तां जीमूतवाहनः । परार्थप्राणदो वध्यशिलामध्यारुरोह ताम् ॥ १४८
पवनाघूर्णिते चाष्टधौ स्फुरद्रत्नप्रभावश । तं सस्वातिशयं तस्य पश्यतीव सविस्मयम् ॥ १४९
आगत्याच्छादितनभा निपयैतच्छिलातलात् । चवा गरुत्मानाहत्य महासत्त्वं जहर तम् ॥ १५०
न तसृग्धशरमुत्खातशिरोरत्नं च तं जवात् । नीत्वा भक्षयितुं ऋद्धे मलयार्द्रः प्रचक्रमे ॥ १५१
एवमेव परार्थाय देहः स्यात्प्रतिजन्म से । मा भूतां स्वर्गमोक्षौ तु परोपकृतिवर्जितौ ॥ १५२
इति ताक्ष्याद्यमानस्य तस्यानुध्यायतस्तदा । विद्याधरेन्द्रपतत्पुष्पवृष्टिर्नभस्तलात् ॥ १५३
अत्रान्तरे स तद्रक्तधारास्रवशिरोमणिः। तस्या मलयवत्याश्च तपन्याः प्रापतत्पुरः ॥ १५४
सा तद्वंश्च परिज्ञाय चूडारत्नं सुविह्वला । अन्तिकस्था श्वशुरयोस्ताभ्यां साश्चरदर्शयत् ॥ १५५
तौ च जायापती सूनोः शिरोरत्नं विलोक्य तत् । किमेतदिति संभ्रान्तौ सह सैव बभूवतुः ॥ १५६
ततः स्वविद्यानुध्याद्यथावृत्तमवेक्ष्य तत् । राजा जीमूतकेतुः सा राखी कनकवत्यपि ॥ १५७
वध्वा मलयवत्या तौ प्रावर्ततां सह द्रुतम् । गन्तुं तत्रैव तौ यत्र तादर्थेजीमूतवाहनैौ ॥ १५८
तावत्स शङ्कचूडोऽत्र नत्वा गोकर्णमागतः । ददर्श रुधिरार्द्ध तद्विनो वध्यशिलातलम् ॥ १५९
हा हतोऽस्मि महापापो ध्रुवं तेन सहटमना । आत्मा गरुत्मते दत्तो मत्कृते सुकृपालुना ॥ १६०
तदन्विष्यामि नीतः स क्षणेऽस्मिन्कहिवैरिणा। मजेयं नायशःपङ्के जीवन्तं चेत्तमप्रयाम् ॥ १६१
इत्युदथुर्वन्सोऽथ साधुईgा निरन्तराम् । पतितां भुवि तद्रक्तधारामनुसरन्ययौ ॥ १६२
अश्रान्तरे भक्षयंस्तं दृष्ट्वा जीमूतवाहनम् । हृष्टं विरम्य गरुडश्चिन्तयामास तत्क्षणम् ॥ १६३
अहो अपूर्वः कोऽप्येष भक्ष्यमाणोऽपि यो मया । प्रहृष्यति महासत्त्वो न तु प्राणैर्वियुज्यते ॥ ११४
बिभेत झुप्तशेषे च गात्रे रोमाञ्चकबुकम् । किं चोपकारिणीवास्य सयि दृष्टिः प्रसीदति ॥ १६५
तन्नैप नागः कोऽप्येष साधुः पृच्छामि नाड्यमुम् । इति ताक्ष्यै विमृश्यन्तं प्राह जीमूतवाहनः ॥१६६
पक्षीन्द्र किं निवृत्तोऽसि नहि मे मांसशोणितम् । देहे नास्ति न चाद्यापि परितृप्तोऽसि भुङ्क्ष्व तत् ॥ १६७
एतच्छुत्वातिसाश्चर्यंस्तं पप्रच्छ स पक्षिराट् । नागो नैवासि तचूहि महात्मन्को भवानिति ॥ १६८
नाग एवास्मि कोऽयं ते प्रश्नः प्रकृतमाचर । प्रस्तुतार्थविरुद्धं हि कोऽभिदध्याद्बालिशः ॥ १६९
एवं प्रतिपद्येव ताक्ष्ये जीमूतवाहने । प्राप्तः स शङ्कचूडोऽत्र दूरादेवाभ्यभाषत ॥ १७०
मा मा कृथा महापापं साहसं विनतात्मज । कोऽयं भ्रमस्ते नष नागो नागोऽहमेष ते ॥ १७१
इत्युक्त्वा हुतमागत्य मध्ये स्थित्वा तयोर्द्धयोः । दृष्ट्वा च ताक्ष्यें विभ्रान्तं शङ्कचूडोऽब्रवीत्पुनः ॥ १७२
किं भ्राम्यसि फणाः किं से जिद्वे द्वे च न पश्यसि। विद्याधरस्य किं चास्य सौम्यां पश्यसि नाकृतिम् ॥ १७३
शङ्खचूडे वद्येवं भार्या च पितरौ च तौ । जीमूतवाहनस्यात्र सवं सत्वरमाय ॥ १७४
ऋप्ती च तं दृष्ट्वा पितरौ तस्य तत्क्षणम् । चक्रन्तुस्तौ हा पुत्र हा हा जीमूतवाहन ॥ १७५