पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२२
[ आदितस्तरङ्गः
कथासरित्सागरः ।

तत्र प्रख्याप्य तद्भक्तिं वसुभिर्विषयैश्च तम् । अपूरयत्कार्पटिकं न चामन्यत निष्कृतिम् ॥
ततः कृतार्थः पार्थेऽस्य चण्डसिंहस्य भूपतेः। मुक्तकार्पटिकाचारः सत्रुवशीलः स तस्थिवान् ॥
एकदा तेन राज्ञा च स सिंहलपतेः सुताम् । याचितुं सिंहलद्वीपमात्मार्थं प्रेषितोऽभवत् ॥
तत्राब्धिवर्मना गच्छन्नचिताभीष्टदेवतः । आरुरोह प्रवहणं राजादिकैः सह द्विजैः ॥
गते तस्मिन्प्रवहणे मध्यभागमशङ्कितम् । उत्तस्थौ जलधेस्तस्माद्वजो जनितविस्मयः ॥
अप्रंलिहानः सुमहाञ्जाम्बूनदविनिर्मितः । विचित्रवर्णविचलद्वेजयन्तीविराजितः ॥
तत्कालं चात्र सहसा समुन्नम्य घनावली । भृशं वर्षितुमारेभे ववौ तीव्रश्च मारुतः ॥
तैर्वर्षवातैः स बलादाकृष्याधोरणैरिव । आसज्यत ध्वजस्तम्भे तस्मिन्प्रवहणद्विपः ॥
तावच्च स ध्वजस्तस्मिन्वारिधौ वीचिविष्टुते । बहनेन समं तेन प्रावर्तत निमजितुम् ॥
ततो द्विजास्ते तत्रस्थाश्चण्डसिंहं स्वभूपतिम् । उद्दिश्योद्धोषयामासुरब्रह्मण्यं भयाकुळाः ॥
तदाकर्यांसहिष्णुश्च स्वामिभक्तेरनुध्वजम् । स सत्वशीलो निस्त्रिंशहस्तो बद्धोत्तरीयकः ॥
आत्मानमक्षिपत्तत्र निरपेक्ष महोदधौ । उदधेः कारणाशी वीरः प्रतिविधित्सया ॥
मग्ने च तस्मिन्वातोर्मिदूरोत्क्षिप्तमभज्यत । बहनं तच्च तत्स्थाश्च निपेतुर्यादसां मुखे ॥
स च मनोऽम्बुधौ तत्र सर्वशीलो निरीक्षते । यावत्तावद्ददर्शात्र पुरीं दिव्यां न वारिधिम् ॥
तस्मिन्मणिमयस्तम्भैर्भास्वरे हेममन्दिरे । सद्रत्नबद्धसोपानवापीकोद्यानशोभिनि ॥
नानामणिशिलाभित्तिरत्नचित्रोच्छूितध्वजम् । कात्यायनीदेवगृहं मेरुप्रोन्नतमैक्षत ॥
तत्र प्रणम्य देवीं तां स्तुत्याभ्यर्य तदग्रतः । इन्द्रजालं किमेतत्स्यादित्याश्चर्यादुपाविशत् ॥
तावच्च देव्यग्रगतप्रभामण्डलकान्तरात् । अकस्मान्निरगात्कन्या दिव्योद्धाट्य कवाटकम् ॥
इन्दीवराक्षी फुलाब्जबना कुसुमस्मिता । मृणालनालमृद्वी जङ्गमेव सरोजिनी ॥
स्त्रीसहस्रपरीवारा देवीगर्भगृहं च सा । विवेश सत्यशीलस्य हृदयं च ततः समम् ॥
निरगात्कृतपूजा च देवीगर्भगृहत्ततः । न पुनः सत्त्वशीलस्य हृदयात्सा कथंचन ॥
प्राविशत्सा च तत्रैव प्रभामण्डलकान्तरे । सत्त्वशीलोऽप्यसौ तस्याः पश्चात्तत्र प्रविष्टवान् ॥
प्रविश्य च ददर्शान्तरन्यदेवोत्तमं पुरम् । संकेतोद्यानमिव यत्सर्वासां भोगसंपदाम् ॥
तत्रान्तर्मणिपर्यङ्कनिषण्णां तां विलोक्य सः । कन्यामुपेत्य तत्पवैि सत्त्वशील उपाविशत् ॥
आसीच तन्मुखासक्तलोचनो लिखितो यथा। अत्रैः सोत्कम्पपुलकैर्वदन्नालिङ्गनोकताम् ॥
दृष्ट्वा च तं स्मराविष्टं चेटीनामत्र सा मुखम् । अद्राक्षीत्ताश्च तत्कालमिङ्गितज्ञास्तमब्रुवन् ॥
अतिथिस्त्वमिह प्राप्तस्तदस्मत्स्वामिनीकृतम् । भजस्वातिथ्यमुत्तिष्ठ स्नाहि भुङ् ततः परम् ॥
तच्छुत्वा सोऽवलम्ब्याशां कथमप्युत्थितस्ततः । ययौ प्रदर्शितां ताभिरेकामुद्यनवापिकाम् ॥
तस्यां निमग्नश्चोत्तस्थौ ताम्रलिप्यां स तत्क्षणात् । चण्डसिंहनृपोद्यानवापीभध्यात्ससंभ्रमः ॥
तत्र प्राप्तमकस्माच वीक्ष्यात्मानमचिन्तयत् । अहो किमेतत्कोद्यानमिदं दिव्यं क तत्पुरम् ॥
तत्रामृतासारसमं क तत्तस्याश्च दर्शनम् । क चानन्तरमेवेदं तद्विश्लेषमहाविषम् ॥
स्वप्नश्च नायं सुस्पष्टो विनिद्रोऽनुभवो हि मे । ध्रुवं पाताळकन्याभिस्ताभिघूढोऽस्मि वञ्चितः ॥
इति ध्यायन्विना तां स कन्यामुन्माद्वानिव । उद्याने तत्र बभ्राम कामार्ता विललाप च ॥
तदवस्थं च तं दृष्ट्वा पिशद्वैः पुष्परेणुभिः । वातोद्धृतैः परीताङ्ग विप्रयोगानलैरिव ॥
उद्यानपाया गत्वैव चण्डसिंहमहीभृतम् । व्यजिज्ञपन्स चोद्धान्तः स्वयमेत्य ददर्श तम् ॥
सान्त्वयित्वा च पप्रच्छ किमिदं ब्रूहि नः सखे । क प्रस्थितस्त्वं क प्राप्तः कास्तः क पतितः शरः॥
तच्छत्वा स स्ववृत्तान्तं तस्मै सर्वं शशंस तम् । सत्त्वशीयो नृपतये सोऽप्यथैवमचिन्तयत् ॥
हन्त वीरोऽपि मत्पुण्यैः कामेनैष विडम्बितः । आनृण्यं गन्तुमेतस्य लब्धो ह्यबसरो मया ॥
इत्यन्तश्चिन्तयित्वा स वीरो राजा जगाद तम् । तर्हि मुञ्च मुधा शोकमहं त्वां प्रापयामि ताम् ॥