पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१४
[ आदितस्तरङ्गः ७
कथासरित्सागरः ।

स निन्ये ' वणिजा तेन श्वशुरेण वणिक्सुतः। तया भार्यया छिन्ननासथा ॥
राजान्तिकं साथै
राजा च कृतविज्ञप्तिः स्वरद्रोह्यासविति । तस्यादिशद्वणिक्सूनोर्बधं न्यञ्चततद्वचः ॥
ततो वक्ष्यभुवं तस्मिन्नीयमाने सखडिण्डिमम् । उपागम्य स चौरोऽत्र बभाषे राजपूरुषान् ॥
निष्कारणं न वध्योऽयं यथावृत्तं तु वेश्यहम्। मां प्रापयत राजामुं यावत्सूर्ये चदास्यतः ॥
इत्यूचिवान्स नीततैर्युपस्याग्रं वृताभयः । आ मूलाद्रात्रिवृत्तान्तं चौरः सर्वं न्यवेदयत् ॥
अब्रवीच्च न चेद्ध मद्वाचि प्रत्ययस्तव । तसा नासा मुखे तस्य शवस्याद्यापि वीक्ष्यताम् ॥
तच्छुत्वा वीक्षितुं भृत्यान्प्रेष्य सस्यमय तत् । स राजा तं वणिक्पुत्रं मुक्तवान्वधनिग्रहात् ॥
तां च कर्णावपि च्छित्वा दुष्टां देशान्निरस्तवान् । तत्रार्या श्वशुरं चास्य तं सर्वस्वमण्डयत् ॥
चौरं च तं पुराध्यक्षे तुष्टश्चक्रे स भूपतिः। एवं स्त्रियो भवन्तीह निसर्गविषमाः शठः ॥
इत्युक्तवानेव शुको भूत्वा चित्ररथाभिधः। क्षीणेन्द्रशाषो गन्धर्वो दिव्यरूपो दिवं ययौ ॥
शारिक सापि तत्कालै भूत्वा स्वःी तिलोत्तमा । तथैव क्षीणतच्छापा जगाम सहसा दिवम् ॥
विवाश्चाप्यनिर्णीतः सभायां सोऽभवतयोः। इत्याख्याय कथां भूयस्तं वेतालोऽब्रवीळुपम् ॥
तद्भवान्वक्तु किं पापाः पुरुषाः किमुत स्त्रियः । अजपतो जानतस्ते ' शिरो यास्यति खण्डशः ॥
एतन्निशम्य वचनं वेतालस्थांसवर्तिनस्तस्य ।
स जगाद भूपतिस्तं योगेश्वर योषितः पापाः ॥
पुरुषः कोऽपि हि तादृक्काषि कच्चिद्भवेद्भराचरः ।
प्रायः सर्वत्र सदा स्त्रियस्तु तादृग्विधा एव ॥
इत्युक्तवतो नृपतेः प्राग्वत्स्कन्धास तस्य वेतालः।
नष्टोऽभूत्स च राजा जग्राह पुनस्तदानयनयनम् ॥

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कधतीलम्वके दशमस्तरः ।


_____


एकादशस्तर


(चतुर्थो वेतालः)


ततो गत्वा पुनस्तस्य निकटं शिंशपातरोः । स त्रिविक्रमसेनोऽत्र श्मशानं निशि भूपतिः ॥
लब्ध्वा मुक्ताट्टहसं तं वेतालं भृशरीरगम् । निष्कम्पः स्कन्धमारोप्य तूष्णीमुदचलत्ततः॥
चलन्तं च तमस
सस्थो वेतालः सोऽब्रवीत्पुनः । राजन्कुभिक्षोरेतस्य कृते कोऽयं तव श्रमः ॥
आयासे निष्फलेऽमुष्मिन्विवेको बत नास्ति ते । तदिमां शृणु मतस्त्वं कथां पथि विनोदिनीम् ॥
अस्ति शोभावती नाम सत्याख्या नारी भुवि । तस्यां च द्रकाख्योऽभूद्रुपतिः प्राच्यविक्रमः ॥
यस्य जज्वाळ जयिनः प्रतापज्वलनोऽनिशम् । बन्दीकृतारिछनधूतचामरमारुतैः ॥
अलुप्तधर्मच्चरणस्फीता मन्ये वसुंधरा । राज्ञि यस्मिन्विसस्मार रामादीनपि भूपतीन् ॥
तं कदाचिन्महीपाठं प्रियशमुपाययौ । सेवायें मालवादेको नाना वीरवरो द्विजः ॥
यस्य धर्मवती नाम भार्या सत्खवरः सुतः। कन्या वीरवती चेति त्रयं गृहपरिछदः ॥
सेवापरिच्छदान्यत्रयं कट्यां कृपाणिका। करे करतलैकत्र चारु चर्म परत्र च ॥
तावन्मात्रपरीवारो दीनारशतपञ्चकम् । प्रत्यहं प्रार्थयामास राज्ञस्तस्मात्स वृत्तये ॥
राजापि स तमाकारसूचितोदारपौरुषम् । वीक्ष्य तस्मै ददौ वृतिं शूद्रकस्तां यथेप्सिताम् ॥
अल्पे परिकरेऽप्येभिरियद्भिः स्वर्णरूपकैः । किमेष व्यसनं पुष्णात्यथ कंचन सध्ययम् ॥
इत्यन्वेष्टं समाचारं कैतुकात्तु महीपतिः । प्रच्छन्नान्स्थापयामास चारानस्यात्र पृष्ठतः ॥
स च वीरवरः प्रातः क्रुखा भूपस्य दर्शनम् । स्थित्वा च तस्या मध्याहं सिंहद्वारे धृतायुधः ॥
गत्वा स्ववृत्तिलब्धानां वीनाराणां शतं गृहे । भोजनार्थं स्वभार्याया हस्ते प्रादात्किलान्वहम् ॥