पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
रङ्गः ८।]
४०७
शशाङ्कवतीलम्बकः १२ ।

(प्रथमो वेतालः )


(स्ति वाराणसी नाम पुरारिवसतिः पुरी । स्थलीव कैलासगिरेर्या पुण्यजनसेविता ॥ ५९
रिवारिभृता शश्वदुपकण्ठनिवेशिनी । हारयष्टिरिवाभाति यस्याः स्वर्गतरङ्गिणी ॥ ६०
तापानलनिर्दग्धविपक्षकुलकाननः । तस्यां प्रतापमुकुटो नाम राजाभवत्पुरा ॥ ६१
स्याभूद्वजमुकुटस्तनयो रूपशौर्ययोः । कुर्वाणो दर्पदलनं स्मरस्यारिजनस्य च ॥ ६२
जपुत्रस्य तस्यात्र मञ्जिपुत्रो महामतिः । आसीद्वद्धिशरीराख्यः शरीराभ्यधिकः सखा ॥ ६३
न सख्या सह क्रीडन्स कदाचिन्नृपात्मजः । जगाम दूरमध्वानं मृगयातिप्रसङ्गतः ॥ ६४
भेर्यश्रीचामराणीव सिंहानां मस्तकानि सः । छिन्दञ्शरैः सटालानि विवेशैकं महबनम् ॥ ६५
त्रास्थाने स्मरस्येव पठत्कोकिलबन्दिनि । दत्तोपकारे तरुभिर्मजरीचलचामॅरैः ॥ ६६
ऽन्वितो मत्रिपुत्रेण तेनापश्यत्सरोवरम् । विचित्रकमलोत्पतिधामाम्बुधिमिवापरम् ॥ ६७
स्मिस्तदैव सरसि स्नानार्थं काचिदागता । तेन दिव्याकृतिः कन्या ददृशे सपरिच्छदा ॥ ६८
रायन्तीव लावण्यनिझीरेण सरोवरम् । दृष्टिपातैः सृजन्तीव तत्रोत्पलवनं नवम् ॥ ६९
यादिशन्तीव मुखेनाम्बुजानि जितेन्दुना । सा जाहार मनस्तस्य राजपुत्रस्य तत्क्षणम् ॥ ७०
tऽप्यहार्षीतथा तस्या युवा दृष्ट्वा विलोचने । यथा मैक्षत सा कन्या लज्जां स्वासष्यलंकृतिम् ॥ ७१
नि पश्यति तस्मिन्सा केयं स्यादिति सानुगे। संज्ञां स्वदेशाद्याख्यातुं विलासच्छद्मनाकरोत् ॥ ७२
रोति स्मोत्पलं कर्णं गृहीत्वा पुष्पशेखरात् । चिरं च दन्तरचनां चकारादाय च व्यधात् ॥ ७३
मं शिरसि साकूतं हृदये चाधे करम् । राजपुत्रश्च तस्यास्तां संज्ञां न ज्ञातवांस्तदा ॥ ७४
त्रिपुत्रस्तु बुबुधे स सखा तस्य बुद्धिमान् । क्षणाञ्च सा ययौ कन्या नीयमानानुगैस्ततः ॥ ७५
प्य च स्वगृहं तस्थौ पर्यङ्कऽङ्ग निधाय सा । चित्तं तु निजसंज्ञार्थमास्थात्तस्मिनृपात्मजे ॥ ७६
ऽपि राजसुतो भ्रष्टविद्यो विद्याधरो यथा । गत्वा स्वनगरीं कृच्छां प्रापावस्थां तया विना ॥ ७७
ख्या च मन्त्रिपुत्रेण तेन पृष्टस्तदा रहः। शंसता तामदुष्प्रापां त्यक्तधैर्यं जगाद सः ॥ ७८
या न नाम न ग्रामो नान्वयो वावबुध्यते । सा कथं प्राप्यते तन्मामाश्वासयसि किं मृषा ॥ ७९
युक्तो राजपुत्रेण मत्रिपुत्रस्तमभ्यधात् । किं न दृष्टं त्वया तद्यत्संज्ञया सूचितं तया ॥ ८०
स्तं यदुत्पलं कर्णं तेनैतन्ते तयोदितम् । कर्णात्पळस्य राष्ट्रेऽहं निवसामि महीभृतः ॥ ८१
। यद्दन्तरचना तेनैतत्कथितं तया । तत्र जानीहि मां दन्तघाटकस्य सुतामिति ॥ ८२
भवतीति नामोक्तं तयोत्तंसितपया । त्वयि प्राणा इति प्रोक्तं हृदयार्पितहस्तया ॥ ८३
लेङ्गदेशे ह्यस्त्यत्र ख्यातः कर्णात्पलो नृपः । तस्य प्रसादवित्तोऽस्ति महान्यो दन्तघाटकः ॥ ८४
बामवर्धनाख्यस्य तस्याप्यस्ति जगत्रये । रत्नं पद्मावती नाम कन्या प्राणाधिक प्रिया ॥ ८५
च लोकतो देव यथावद्विदितं मम । अतो ज्ञाता मया संज्ञा तस्या देशादिशंसिनी ॥ ८६
युक्तो मन्त्रिपुत्रेण तेन राजसुतोऽथ सः । तुतोष तस्मै सुधिये लब्धोपायो जहर्ष च ॥ ८७
अद्य च समं तेन स तद्युक्तः स्वमन्दिरात् । प्रियार्थं मृगयाव्याजात्पुनस्तामगमद्दिशम् ॥ ८८
धमार्गे च वाताश्ववेगवञ्चितसैनिकः । तं मन्त्रिपुत्रैकयुतः कलिङ्गविषयं ययौ ॥ ८९
तौ प्राप्य नगरं कर्णात्पलमहीभृतः । अन्विष्य दृष्ट्वा भवनं दन्तघाटस्य तस्य च ॥ ९०
दूरे च वासार्थमेकस्या वृद्धयोषितः। वं प्राविशतां मत्रिपुत्रराजसुतावुभौ ॥ ९१
म्युयवसौ वाहौ गुप्तेऽवस्थाप्य चात्र सः । राजपुत्रे स्थिते वृद्धां मन्त्रिपुत्रो जगाद ताम् ॥ ९२
चेद्वेत्स्यम्ब सङ्गामवर्धनं दन्तघाटकम् । तच्छुत्वा सा जरद्योषित्सश्रद्द तमभाषत ॥ ९३
येव धात्री तस्यास्मि स्थापिता तेन चाधुना । पद्मावत्याः स्खदुहितुः पार्श्व ज्येष्ठतरेत्यहम् ॥ ९४
त्वहं न सदा तत्र गच्छाम्युपहताम्बरा । कुपुत्रः कितवो वस्त्रं दृष्ट्वा हि हरते मम ॥ ९५
मुक्तवतीं प्रीतः स्वोत्तरीयादिदानतः। संतोष्य सोऽत्र वृद्धां तां मत्रिपुत्रोऽब्रवीत्पुनः ॥ ९६