पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०८
आदितस्तरङ्गः
कथासरित्सागरः ।

माता त्वं तद्वदामस्ते तं यत्तत्कुरुष्व नः । दन्तघाटसुतामेतां गत्वा पद्मावतीं वद ॥
सोऽत्रागतो राजपुत्रो दृष्टो यः सरसि त्वया । तेन चेह तवाख्यातुं प्रेषिता प्रणयादहम् ॥
तच्छुत्वा स तथेत्युक्त्वा वृद्धा दानवशीकृता । गत्वा पद्मावतीपार्श्वमाजगाम क्षणान्तरे ॥
पृष्ट जगाद तौ राजसुतमत्रिमुतौ च सा । युष्मदागमनं गत्वा गुप्तं तस्या मयोदितम् ॥
तया श्रुत्वा च निर्भत्र्यं पाणिभ्यामहमाहता। द्वाभ्यां कर्णीरलिप्तभ्यामुभयोर्गण्डयोर्मुखे ॥
ततः परिभवोद्विग्ना रुदत्यहमिहागता । एतास्तदङ्गीमुद्राः पुत्रौ मे पश्यतं मुखे ॥
एवं तयोक्ते नैराश्यविषण्णं तं नृपात्मजम् । जगाद स महाप्राज्ञो मन्त्रिपुत्रो जनान्तिकम् ॥
मा गा विषादं रक्षन्त्या मन्त्रं निर्भयं यत्तया । कर्णीरशुभ्रा वक्रेऽस्याः स्वाङ्गुल्यो दश पातिताः ॥
तदेतदुक्तं पक्षेऽस्मिञ्शुद्धे चन्द्रवतीरिमाः । रात्रीर्दश प्रतीक्षध्वं संगमानुचिता इति ॥
इत्याश्वास्य स तं राजसुतं मन्निसुतस्ततः । विक्रीय गुनं हस्तस्थं काञ्चनं किंचिदापणे ॥
वृद्धया साधयामास सहा’ भोजनं तया । ततस्तौ बुभुजाते द्वौ ततया सह वृद्धया ॥
एवं नीत्वा दशाहानि जिज्ञासार्थं पुनः स ताम् । पझावत्यन्तिकं वृद्धां मन्त्रिपुत्रो विसृष्टवान् ॥
सापि मृष्टान्नपानादिक्षुब्धा तदनुरोधतः । गत्वा वासगृहं तस्या भूयोऽभ्येत्य जगाद तौ ॥
इतो गत्वाद्य तूष्णीमष्यहं तत्र स्थिता तया । युष्मत्कथापराधं तमुद्भिरन्त्या स्वयं पुनः ॥
सालक्तकाभिस्तिसृभिः कराङ्गुलिभिराहता । उरस्यस्मिन्नर्थेषाहमिहायाता तदन्तिकात् ॥
तच्छुत्वा राजपुत्रं तं स्वैरं मन्निसुतोऽब्रवीत् । मा कार्षीरन्यथा शङ्कमस्या हि हृद्ये तया ॥
खाॐक्तकाङ्गुलीमुद्रात्रयं विन्यस्य युक्तितः। रजस्वला निशास्तिस्रस्थिताहमिति सूचितम् ॥
एवमुक्त्वा नृपसुतं माञ्जिपुत्ररूयते गते । पद्मावत्यै पुनस्तस्यै वृद्धां तां प्रजिघाय खः ॥
सा गता मन्दिरं तस्यास्तया संमान्य भोजिता । प्रीत्या पानादि लीलाभिर्दिनं चात्र चिनोदिता ॥
सायं च यावत्सा वृद्धा गृहमागन्तुमिच्छति । उद्भूद्भयकृतावत्तत्र कोलाहलो बहिः ॥
हा हा भ्रष्टोऽयमाणानाज्जनान्मनून्प्रधावति । मत्तदस्तीति लोकस्य तत्राक्रन्दोऽथ शुश्रुवे ॥
ततः पद्मावती सा तां वृद्धामेवमभाषत । स्पष्टेन हस्तिरुद्धेन गन्तुं युक्तं न ते पथ ॥
तत्पीठिकां समारोष्य बद्धालम्बनरज्जुकाम् । बृहद्वाक्षेणानेन त्वसत्र प्रक्षिपामहे ॥
गृहोद्याने ततो वृक्षमारुह्यमुं विलङ्घ्य च । प्राकारमवरुह्यान्यवृक्षेण स्वगृहं व्रज ॥
इत्युक्त्वा सा गवाक्षेण क्षेपयामास तत्र ताम् । वृद्धां चेटीभिरुद्याने रज्जुपीठिकया T ततः ॥
साथ गत्वा यथोक्तेन पथा सर्वं शशंस तत् । यथावद्राजपुत्राय तस्मै मञ्जिसुताय च ॥
ततः स मन्त्रिपुत्रस्तं राजपुत्रमभाषत । सिद्धं तवेष्टं मार्गो हि युक्त्या ते दर्शितस्तया ॥
तद्च्छायैव तत्र त्वं प्रदोषेऽस्मिनृपागते । एतेनैव पथा तस्याः प्रियाया मन्दिरं विश ॥
इत्युक्तस्तेन तद्युक्तो राजपुत्रो ययौ स तत् । उद्यानं वृद्धयोक्तेन तेन प्राकारवर्मना ॥
तत्रापश्यच्च रज्ठं तां लम्बमानां सपीठिकाम् । मार्गान्मुखाभिश्चेटीभिरुपरिष्टादधिष्ठिताम् ॥
आरूढस्तां च दृष्टुंब दासीभिस्ताभिराशु सः। रज्जूत्क्षिप्तो गवाक्षेण प्रविवेश प्रियान्तिकम् ॥
तस्मिन्प्रविष्टे स ययौ मन्त्रिपुत्रः स्वमास्पदम् । राजपुत्रस्तु तां पद्मावतीं तत्र ददर्श सः ॥
पूर्णामृतांशुवदनां प्रसरत्कान्तिचद्रिकाम् । कृष्णपक्षभयटुप्तस्थितां रकानिशामिव ॥
सापि दृष्ट्वा तमुत्थाय चिरौत्सुक्योचितैस्ततः । कण्ठप्रहादिभिस्तैस्तैरुपचारैरमानयत् ॥
ततस्तया ख गान्धर्वविधिनोलूढया सह । गुप्त राजसुतस्तस्थौ पूर्णच्छस्तत्र कान्तया ॥
स्थित्वा चाहनि कतिचिद्रात्रौ तामवदत्प्रियाम् । सखा मम सहायातो मन्त्रिपुत्र इह स्थितः ॥
स चात्र तिष्ठत्येकाकी त्वज्ज्येष्ठतरिकागृहे । गत्वा संभाव्य तं तन्वि पुनरेष्यामि तेऽन्तिकम् ॥
तच्छुत्वा तमवोचत्सा धूर्ता पद्मावती प्रियम् । हन्तार्यपुत्र पृच्छामि ताः संज्ञा मस्कृतस्त्वया ॥
ज्ञांता किं किमु वा तेन सख्या मद्रिसुतेन ते । एवमुक्तवतीमेतां राजपुत्रो जमाद सः ॥