सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०६
[ आदितस
कथासरित्सागरः

अपि विद्याधरैश्वर्य बेतालस्य प्रसादतः। किं त्रिविक्रमसेनेन न प्राप्तं भूभुजr पुरा ॥
तथा च कथयाम्येतां तदीयां ते कथां श्रुणु प्रतिष्ठानाभिधानोऽस्ति देशो गोदावरीतटे ॥
तत्र विक्रमसेनस्य पुत्रः शक्रपराक्रमः । प्राक्त्रिविक्रमसेनाख्यः ख्यातकीर्तिरनूपः ॥
तस्य प्रत्यहमास्थानगतस्योपेत्य भूपतेः । सेवार्थं क्षान्तिशीलाख्यो भिक्षुः फलमुपानयत् ॥
सोऽपि राजा तदादाय फलमासन्नवर्तिनः । हस्ते ददौ प्रतिदिनं कोषागाराधिकारिणः ॥
इत्थं गतेषु वर्षेषु दशस्वत्र किलैकदा । दत्वा राज्ञे फळं तस्मै भिक्षावस्थानतो गते ॥
स राजा तत्फलं प्रादात्प्रविष्टायात्र दैवतः । क्रीडामर्कटपोताय हस्तभ्रष्टाय रक्षिणाम् ॥
स मर्कटस्तदश्नाति यावत्तावत्फलात्ततः । विभिन्नमध्यान्निरगादनउँ रत्नमुत्तमम् ॥
तघृष्ट्यादाय पप्रच्छ तं भाण्डागारिकं नृपः । भिक्षपनीतानि मया यानि नियं फलानि ते ॥
हस्ते दत्तानि तानि क स्थापितानि सदा त्वया । तच्छुत्वा तं स सभयः कोषाध्यक्षो व्यजिज्ञ ॥
क्षिप्तानि तान्यनुद्धाट्य मया गजे गवाक्षतः । यद्यादिशसि तदेव तमुद्धाट्य गवेषये ॥
इत्यूचिवाननुमतो राज्ञा गत्वा क्षणेन सः । कोषाध्यक्षः समागत्य प्रभु व्यापयत्पुनः ॥
शीर्णानि नात्र पश्यामि कोषे तानि फलान्यहम् । रत्नराशिं तु पश्यामि रश्मिज्वालाकुचं विरें ॥
तच्छुत्वा तान्मणीन्दत्त्वा तुष्टोऽस्मै कोषरशिणे । राजान्येद्युरपृच्छत्स भिडं तं प्राग्वदागतम ॥
भिक्षो धनव्ययेनैवं सेवसे मां किमन्वहम् । यचन्न वक्ष्यसिनेदानीं ते ग्रहीष्यामि फलं ॥
इत्युक्तवन्तं राजानं भिक्षुतं विजनेऽब्रवीत् । वीरसाचिव्यसापेक्ष मत्रसाधनमस्ति मे ॥
तत्र वीरेन्द्र साहाय्यं क्रियमाणं त्वयार्थये । तच्छुत्वा प्रतिपेदे तत्तथेत्यस्य स भूपतिः ॥
ततः स श्रमणस्तुष्टो नृपं पुनरुवाच तम् । तहिं कृष्णचतुर्दश्यामागामिन्यां निशागमे ॥
इतो महाश्मशानान्तर्वटस्याधः स्थितस्य मे । आगन्तव्यं त्वया देव प्रतिपालयतोऽन्तिकम् ॥
बाढमेवं करिष्यामीत्युक्ते तेन महीभुजा । स क्षान्तिशीलः श्रमणो हृष्टः स्वनिलयं ययौ ॥
अथ तां स मसवः प्राप्य कृष्णचतुर्दशीम् । प्रार्थनां प्रतिपन्नां तां भिक्षस्तस्य नृपः स्मरन ॥
प्रदोषे नीलवसनस्तमालकृतशेखरः। निर्ययौ राजधानीतः खङ्गपाणिरलक्षितः ॥
ययौ च घोरनिबिडध्वान्तत्रातमलीमसम् । चितानलोप्रनयनज्वालादारुणदर्शनम् ॥
असंख्यनरकद्दलकपालास्थिविशङ्कटम् । हृष्यत्संनिहितोत्तालभूतवेतालवेष्टितम् ॥
भैरवस्यापरं रूपमिव गम्भीरभीषणम् । स्फूर्जन्महाशिवरावं श्मशानं तदविह्वलः ॥
विचित्य चात्र तं प्राप्य भिक्षु वटतरोरधः। कुर्वाणं मण्डलन्यासमुपसृत्य जगाद सः ॥
एषोऽहमाशतो भिक्षे ब्रूहि किं करवाणि ते । तच्छुत्वा स नृपं दृष्ट्वा हृष्टो भिक्षुरुवाच तम्। ॥
राजन्कृतः प्रसादयेत्तदितो दक्षिणामुखम् । गत्वा विदूरमेकाकी विद्यते शिपातरुः ॥
तस्मिन्नलम्बितमृतः कोऽप्येकः पुरुषः स्थितः । तमिझनय गत्वा त्वं सानाध्यं कुरु वीर मे ॥
तच्छुत्वैव तथेत्युक्त्वा स राजा सत्यसंगरः । दक्षिणां दिशमांलम्ब्य प्रवीरः प्रययौ ततः ॥
आत्तदीप्तचितालातलक्षितेन पथात्र सः। गत्वा तमसि तं प्राप कथंचिचिंछपातरुम् ॥
तस्य स्कन्धे चिताधूमदग्धस्य क्रव्यगन्धिनः । सोऽपश्यलम्बमानं तं भूतस्येव शवं तरोः ॥
आरुह्य चात्र भूमौ तं च्छिन्नरज्जुमपातयत् । पतितश्चात्र सोऽकस्माञ्चक्रन्द् यथितो यथा ॥
ततोऽवरुह्य कृपया जीवाशी स तस्य यत् । राजाफ़ी प्रामृशन्तेन सोऽट्टहासं व्यधच्छवः ॥
ततः स राजा मत्वा तं वेतालाधिष्ठितं तदा । किं हसस्येहि गच्छाव इति यावदकम्पितः ॥
वक्ति तावन्न भूमौ सवेताखं शवमैक्षत । ऐक्षतात्रैव तुवृक्ष लम्बमान स्थित पुनः ॥
ततोऽधिरुह्य भूयोऽपि तमवतारयत्ततः वापि हि वीर णां चित्तरत्नमण्डितम् ॥
आरोप्य च सवेताखं स्कन्धे मौनेन तं शवम् । स त्रिविक्रमसेनोऽथ राजा गन्तुं प्रचक्रमे ॥
यान्तं च तं शवान्तःस्थो वेताळेऽसस्थितोऽब्रवीत् । राजन्नध्त्रविनोदाय कथमाख्यामि ते ॥