सोऽथ भीमभटस्तामिलेखे तत्रानुलोचिते । मुक्ताट्टहासो दायादप्रतिदूतं तमभ्यधात् ॥
गच्छ रे दूत मद्वाक्यार्धेहि तं नर्तकीसुतम् । अश्वग्रहे शह्मदत्ताद्रक्षितोऽसि मया तदा ॥
बालस्ततप्रियश्चेति क्षभिध्ये न पुनः पुनः । निश्चितं त्वां प्रहेष्यामि वत्सलस्यान्तिकं पितुः ॥
सज्जो भव दिनैरेव जानीहि प्राप्तमत्र माम् । इत्युक्त्वा प्रेष्य दूतं तं यात्रां भीमभटो व्यधात् ॥
तस्मिन्गजाद्रिमारूढ राजेन्द्र वुद्योजवले । क्षुभ्यनुदचलद्वद्धनादः सैन्यमहाम्बुधिः ॥
समापूर्यन्त चासंख्यैरुपसंख्यामुपस्थितैः । सामन्तै राजपुत्रैश्च प्रस्थितैः सबलैर्दिशः ॥
साकम्पा संपतद्भरिगजवाजिजबाकुला । भराद्विदलनत्रासादिव रोति स्म मेदिनी ॥
एवं भीमभटो गत्वा स राढाभ्यर्णमाप्तवान् । कुर्वन्सेनारजोराजिमुषितार्कप्रभं नभः ॥
तावच्च सोऽपि समरभटो बुच नृपोऽक्षमी । संनह्य सेनया तस्य निरगाद्योदुममृतः ॥
मिळतः स्म च तौ सैन्यजलधी पूर्वपश्चिमौ । प्रावर्तत च शूराणामाहवप्रलयो महान् ॥
सशब्दखङ्गसंपातजन्मा तत्रानलो नभः। कुध्यत्कृतान्तदन्ताग्रदलनोस्थ इवावृणोत् ॥
वहन्ति स्म च नाराचास्तीक्ष्णाग्रायतपक्ष्मलाः । वीरावलोकिनाकीलोचनापातविभ्रमाः॥
ततो रेणुविताना सा सैन्यनिर्वोषवादिता । नृत्यत्कबन्धा व्यरुचत्सङ्गामाङ्गणरङ्गभूः ॥
करङ्कवाहिनी चात्र प्रमत्ता मुण्डमालिनी । अहरत्कालरात्रीव जन्तुचक्रसDङ्गनदी ॥
क्षणाच्च शङ्कदत्तेन तेनाक्षक्षपणेन च । तैश्च चण्डभुजंगाचैर्बाहुयुद्धविशारदैः ॥
समं महाबलैः शूरैर्धर्मवैर्हरदैरिव। स तीमभटोऽभार्यात्परसैन्यं धनुर्धरः ॥
भने च सैन्ये समरभटः सोऽथ रथस्थितः । प्रधाव्यारभत क्रुद्धो रणाब्धौ मन्दरायितम् ॥
ततो भीमभटस्तस्य वारणस्थोऽभिपत्य सः । धनुश्छित्त्वावधीद्वाणैश्चतुरोऽपि रथे हयान् ॥
विरथोऽप्यथ धवित्वा तोमरेण गजोत्तमम् । हन्ति स्म कुम्भे समरभटो भीमभटस्य सः ॥
स च तत्तोमरहतो गजस्तस्यापतद्भुवि । ततस्तौ विरथौ द्वावप्यभूतां पादचारिणौ ॥
गृहीतचर्मखनौ च पदाती एव तौ तदा। द्वन्द्वयुद्धेन नृपती अयुध्येताममर्षणौ ॥
विद्यावशाद्दृश्यत्वं कृत्वा शक्तोऽपि तद्वधे । धर्मापेक्षी न तं शठं तथा भीमभटोऽवधीत् ॥
प्रसह्य युध्यमानस्तु तस्य मूर्धानमच्छिनत् । खजेन खङ्गयुद्धज्ञो नर्तकीतनयस्य सः ॥
हते च तस्मिन्समरभरे सम्यक्ससैनिके । प्रदत्ते साधुवादे च गगनात्सिद्धचारणैः ॥
गते समातिं सङ्गमे बन्दिमागधसंस्तुतः। राढापुरीं भीमभटः प्राविशत्सखिभिः सह ॥
चिरप्रवासोपयातो हतारिस्तत्र मातरम् । स राम इव कौशल्यां दर्शनोत्कामनन्यत् ॥
पौराभिनन्दितश्वाथ कृती सिंहखने पितुः। उपाविशत्तत्साचिवैः पूज्यमानो गुणप्रियैः ॥
संमान्य प्रकृतीः कृत्स्नस्ततश्च विहितोत्सवः । शुभेऽह्नि शङ्कदन्ताय लाटराज्यं स दत्तवान् ॥
तं प्रेष्य लाटविषयं तदेशजबलान्वितम् । तेभ्योऽक्षक्षपणादिभ्यो ददौ ग्रामान्बसूनि च ॥
तैर्युक्तोऽथ स तत्रासीत्प्रशासन्पैतृकं पदम्। लाटेन्द्रसुतया देव्या हंसाबल्या तया सह ॥
क्रमाच जित्वा पृथिवीमाहृत्य नृपकन्यकाः । तत्संभोगैकसक्तोऽभूत्सोऽथ भीमभटो नृपः ॥
मत्रिषु न्यस्तभारश्च क्रीडन्नन्तःपुरैः सह । अभ्यन्तरान्न निरगात्पानादिव्यसनेन सः ॥
अथैकदा मुनिर्देष्टुं तमुत यदृच्छया । पूर्वशर्घसमादेशपाककाल इवागमत् ॥
द्वारं प्राप्ते मुनौ चास्मिन्द्वाःस्थेष्वावेद्यत्सु च । राजा रागमदैश्वर्यपान्धो न किलाश्रुणोत् ॥
ततः क्रुद्धो मुनिः सोऽस्मै राज्ञे शापमदादिसम् । मदान्ध राज्याङ्गुष्टस्स्वं वन्यो हस्ती भविष्यसि ॥
तच्छुत्वा स भयाद्धष्टमदो निर्गत्य भूपतिः । दीनैः प्रासाद्यद्वाक्यैर्मुनिं तं चरणानतः ॥
ततः स शान्तकोपः सन्महर्षिस्तमभाषत । भविष्यसि द्विपस्तावद्राजन्न स्यात्तदन्यथा ॥
किं तु प्रचण्डशक्त्याख्यं नागशापावसादितम् । मृगाङ्कत्तसचिवं चक्षुबैकल्यमागतम् ॥
समाश्वास्यातिथीभूतं यद् तस्मै प्रवक्ष्यसि । स्ववृत्तान्तं तदेतस्मान्मोक्ष प्राप्स्यसि शपतः ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३०४
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०४
[ आदितस्तर
कथासरित्सागरः