पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४००
[ आदितस्तरङ्ग
कथासरित्सागरः ।

सोऽहं गुरुकुलाधीतविद्यो बाल्ये निजं गृहम् । उपैमि यावत्तावन्मे विनष्टाः सर्वबान्धवाः ॥
तेनानाथोऽर्थहीनश्च गाईस्यासिद्धिदुःस्थितः । निर्विण्णोऽहमिहागत्य तपस्तीव्रमशिश्रियम् ॥
ततः स्वप्नेऽब्रवीद्देवी गङ्गा दत्वा फलानि मे । एतानि खादंस्तिष्ठेह यावत्प्राप्स्यसि वाञ्छितम् ॥
एतच्छुत्वा प्रवृज्यैव गत्वा स्नात्वा निशाक्षये । प्रापं फलानि गङ्गयामागतानि जलान्तरे ॥
तान्यानीयामृतस्वादून्युटजेऽहं च भुक्तवान् । एवं तान्यन्वहं प्राप्तान्यश्नन्नहमिह स्थितः ॥
इति तेनोदिते शङ्कदत्तं भीमभटोऽब्रवीत् । अस्मै गार्हस्थ्यपर्याप्तं ददामि गुणिने धनम् ॥
तच्छुत्वा अद्धितवचास्तेन राजसुतोऽथ सः । मात्रा निसृष्टं तद्रव्यमदात्तस्मै द्विजन्मने ॥
अलुप्तसत्वकोषाणां महत्त्वं महतां हि किम् । आकीर्णतां परस्यातिं न चेच्छिन्दन्ति तत्क्षणम् ॥
कृतार्थीकृत्य तं विप्रं ततो गत्वा स सर्वतः । चिन्वनुत्तरणोपायं गङ्गाया नाप्तवान्यदा ॥
तदा भीमभटो मूर्धनिबद्धासिविभूषणः । शङ्कदत्तयुतो दोभ्यं तरीतुं तामवातरत् ॥
मध्यभागे च वार्योघदूरीकृतवयस्यकः। कथंचित्तीर्णवान्पारं हियमाणः स वीचिभिः ॥
पारं प्राप्तस्य मित्रं ते शर्वोत्तमपश्यतः। अन्विष्यतश्चनुतटं तस्यास्तमगमद्रविः ॥
ततो निराशो हा मित्रेत्याक्रन्दन्नतिदुःखितः । गङ्गायां क्षेप्तुमात्मानमुद्यतोऽभून्निशागमे ॥
जीवितं मे सखा देवि जाह्नव्यपहृतस्त्वया । तच्छून्यं देहमप्येतं त्वं गृह्णाधुना मम ॥
इत्युक्त्वा यावदात्मानं क्षेमुमिच्छति तत्र सः । तावदाविरभूत्साक्षाद्ङ्गा तस्याम्बुमध्यतः ॥
अत्रवीत्तीव्रसंवेगतुष्टा सा तं च तत्क्षणम् । मा पुत्र साहसं कार्षीः स ते जीवन्सखा स्थितः ॥
अचिरेण च संधोगस्तव तेन भविष्यति । प्रतिलोमानुलोमाख्यां विद्यां चैतां गृहाण मे ॥
अदृश्यः स्यात्परस्यैतामनुलोमां पठन्नरः । प्रतिलोमां पठन्कुर्यादिष्टरूपप्रकाशनम् ॥
एतत्प्रभावा विधेयं यत्स सप्ताक्षरोम्भिता । एतस्प्रभावात्वं चास्यां पृथ्व्यां राजा भविष्यसि ॥
इत्युक्त्वा दत्तविद्या सा तिरोऽभूत्तस्य जाह्नवी । जातास्थः सखिळभादौ मरणात्सोऽप्युपारमत् ॥
मित्रप्राश्युसुको नीत्वा क्रुझात्पद्म इव क्षपाम् । प्रातः भीमभटस्तं स चिन्वन्प्रस्थितवांस्ततः ॥
अथान्वेष्टुं क्रमादेतं शङ्कदत्तं परिभ्रमन्। देशं स लाटविषयं कदाचित्प्रापदेककः ॥
यत्रासंकीर्णवर्णाऽपि जनश्चित्रोज्ज्वळस्थितिः । निलयोऽपि कळानां यो न दोषाकरशब्दभाक् ॥
तत्रान्तर्नगरे देवकुलावासान्विलोकयन् । भ्रान्त्वा स चूतकाराणामेकां शाळामवाप्तवान् ॥
तत्र प्रविश्य चापश्यत्कितवानक्षदेविनः । कटिकर्पटमात्रैकवसनानपि पेशलैः ॥
विभतैः पीवरैश्चात्रैर्भगव्यायामसूचकैः । शंसतो गूढ़मैश्वर्यमद्वीर्थाश्रिततत्कलम् ॥
छतालापैश्च तैः साकं वृतमारभते स्म सः। अयं साभरणोऽस्माकं भक्ष्य इत्यात्तबुद्धिभिः ॥
ततस्तेन हृतं तेषां जित्वादैरखिलं धनम् । धूतैर्यद्वञ्चयिवान्यांस्तैरभूत्समुपार्जितम् ॥
हारितार्थाश्च कितवान्खगृहान्गन्तुमुद्यतान् । द्वारार्पितभुजो रुद्धा स तान्भीमभटोऽब्रवीत् ॥
क गच्छथेदं गृहीत धनं किममुना मम । मयैतद्देयमिष्टेभ्यो यूये चेष्टा न किं मम ॥
भवद्भिः सदृशानिष्टान्सखीन्प्राप्नोम्यहं कुतः। इति तस्मिन्वदत्येव तेष्वगृहृत्सु च ह्रिया ॥
अक्षक्षपणको नाम तत्रैकः कितवोऽब्रवीत् । तद्यूतपरिभायैषा हारितं यन्न दीयते ॥
तथाप्येष सुहृद्भत्वा यद्यस्मभ्यं प्रयच्छति । स्वेच्छया जितमप्यर्थं तद्भीमो वयं न किम् ॥
तच्छुत्वा तेऽब्रुवन्नन्ये सख्यं चेदेष शाश्वतम् । तादृशं कुरुतेऽस्माभिस्तदैतदुपपद्यते ॥
एवमुक्तवतस्तान्स मत्वा वीरांस्तथेति तैः। व्यधाद्भीमभटः सख्यमदात्तेभ्यश्च तद्धनम् ॥
तदर्थितश्च तैः साकमुद्याने सकुटुम्बकैः । गत्वा भोजनपानाचैर्यहरत्तदुपाहृतैः ॥
ततोऽक्षक्षपणाचैस्तैः पृष्टस्तेभ्यो ब्रवीन्निजम् । स वंशनामवृत्तान्तमपृच्छच्च तथैव तान् ॥
अथैवमक्षक्षपणस्तस्मै स्वोदन्तमभ्यधात् । शिवदत्ताभिधानोऽभूद्भाह्मणो हस्तिनापुरे ॥
तस्याहं वसुदत्ताख्यो महाधनवतः सुतः । बाल्ये मया शस्त्रविद्य वेदविद्याश्च शिक्षिताः ॥