पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
रङ्गः ७
४०१
शशाङ्कवतीलम्यक १२ ।

तो विवाहः पित्रा मे विहितः सदृशात्कुछात् । माता तु मे महारौद्रा दुराराध्यातिकोपना ॥ १५६
या चोहृजितोऽत्यर्थं दृष्ट्वा मां सपरिग्रहम् । पिता मे स्वगृहं त्यक्त्वा स गतः काप्यतर्कतः ॥ १५७
इथे सभयोऽम्बायाश्चित्तग्रहविधावहम् । यत्त्रान्नियुक्तवान्भार्या सापि भीता तथाकरोत् ॥ १५८
म्या तु तस्या नातुष्यत्कथंचित्कलहोद्यता । तूष्णींस्थानमवज्ञानं दैन्यालापं च कैतवम् ॥ १५९
त्यायनं विवादं च मन्यमाना दुराशया । हि त्याजयितुं वहेः स्वां को शक्तो दहनात्मताम् ॥ १६०
|तस्तस्या विरुद्धेस्तैश्चेष्टितैः सा ममाचिरात् । खिन्ना भार्यापि निर्गत्य जाने क्क गता गृहात् ॥ १६१
अथोद्विग्नो गृहं त्यक्तुमना अपि बलाहम् । मिलित्वा बन्धुभिः पापैर्विवाहं कारितो परम् ॥ १६२
सापि भार्या मम तया तथा संतापिताम्यया । उद्वध्य पाशेनास्मानं व्यापादितवती यथा ॥ १६३
tतोऽहं नितरां खिन्नो विदेशं गन्तुमुद्यतः। निवारयज्यो बन्धुभ्योऽवर्णयं मातृदुष्टताम् ॥ १६४
पेतृप्रवासना से कारणान्तरवादिनाम् । तेषां यत्प्रत्ययो नाभूतद्युक्त्या दारुपुत्रिका ॥ १६५
कारयित्वा मयैकान्ते परिणीता मृषा पुनः । आनीय स्थापिता चान्तगृहेऽन्यत्रार्पितार्गले ॥ १६६
क्षिकैका कृता चास्य नारी कर्मकरीनिभा । मयैषा नूतना भार्या स्थापितैव पृथग्गृहे ॥ १६७
वं चाहं चाधुनानैव स्वगृहे पृथगास्वहे । न गन्तव्यं त्वया तत्र नागन्तव्यमितस्तया ॥ १६८
भारधनं तघाप्रौढ न सा वेत्ति हि संप्रति । इयम्याब्रवं चाहमन्वमन्यत सापि तत् ॥ १६९
तो दिनेषु यातेषु यदा तां कपटस्नुषाम् । न कथंचिदपि प्रापत्सार्गलेऽन्तगृहे स्थिताम् ॥ १७०
दश्मना सा मूर्धानमाहत्य स्वयमेकदा। तारमाक्रन्दति स्माम्बा रक्ताक्ता स्वगृहाङ्गणे ॥ १७१
भृत्याक्रन्दं प्रविष्टेन मया सवैश्च बान्धवैः। इष्ट्वा किमेतदूहीति पृष्टा सासूयमभ्यधात् ॥ १७२
ईद्दश तृपयागत्य विनाहेतुः कृता मम । अवस्था तदिदानीं मे मरणेनैव निष्कृतिः ॥ १७३
छत्वैव सकोपाते ता सहदय बान्धवाः । तत्रागच्छन्मया साकं यत्र सा द्रुपुत्रिका ॥ १७४
अपास्यागलमुदाय द्वारं यावदिशन्ति ते । तावत्काष्ठमयीं नारीमपश्यंस्तत्र केवलाम् ॥ १७५
अतो विडम्बितामनं हसन्तोऽम्बां विलक्षितम् । उत्पन्नप्रत्यया यात बान्धवास्ते यथागतम् ॥ १७६
अहं च त्यक्ततदेशो भ्रस्यन्निममवाप्तवान् । प्रवेशमिह च चूतशालां दैवास्किलाविशम् ॥ १७७
अत्रैतानहमद्राक्षी पथ्छदैर्दीव्यतो जनान् । इमं चण्डभुजंगाख्यमेतं पांसुपटं तथा ॥ १७८
अमुं श्मशानवेतालमिमं कालवराटकम् । शारिप्रस्तरमेतं च शूरांस्तुल्यपराक्रमान् ॥ १७९
एतैः समं च घृतेन तत्र क्रीडितवानहम् । दासः स्याद्विजितो जेतुरिति बद्ध मिथः पणम् ॥ १८०
सतो घृतेन विजेिता मम दास्यमिमे गताः । अहं गुणैर्जितस्त्वेषां दासतामागतः स्वयम् ॥ १८१
एभिः समं च वसतः स्वदुःखं विस्मृतं मम । नानावस्थोचितेनात्र विख्यक्षक्षपणं च माम् ॥ १८२
इत्यहं सत्कुलोत्पन्नैरिहैवं गृहितारमभिः । एतः सह स्थितः पुण्यैस्त्वं चाद्य मिलितोऽत्र नः ॥ १८३
तदिदानीं त्वमस्माकं प्रभुः प्रागेव चैतया । बुद्ध्या तवात्तमस्माभिस्तद्धनं गुणरागिभिः ॥ १८४
इत्यऋक्षपणेनोक्ते स्ववृत्तान्ते क्रमेण ते । सर्वे भीमभटायान्येऽयुदन्तान्स्वानवर्णयन् ॥ १८५
ततोऽर्थार्थमुपान्ताभिः कलाभिश्छादितात्मनः । प्रवीरांस्तान्सखीन्मत्वा कृत्वान्या विविधाः कथाः ॥ १८६
त्वा विहारेण दिनं दृष्ड्रा पौरंदरां दिशम् । उद्भासमानशीतांशुतिलकालंकृताननाम् । १८७
अगासीमभटस्तस्मादुद्यानात्स नृपात्मजः । अक्षक्षपणकायैस्तै: षद्भिः सह तदस्पदम् । १८८
तैः समं तिष्ठतश्चात्र तस्य प्रावृडुपागमत् । शंसन्तीव सुहृत्प्राप्तिं प्रवृष्टघनगर्जितैः । १८९
तदा चात्र विद्याशाख्या नदी मत्ता समुद्रगा । प्रतीपवाहिनी जाता सगरौघेण पूरिता । १९०
समापूर्य महावारिपूरेण पुलिनं च सा । ओघप्रशान्तावम्भोधिसंमुखीव जगाम सा । १९१
तस्मिन्कालेऽत्र चानीय क्षिप्तस्तेनौघवारिणा । महमत्स्यो गरीयस्वाव्यासक्तोऽभून्नदीतटे ॥ १९२
तत्रत्याः पाटयामासुर्जनास्तस्योदरं तिमेः १९३
दृष्ट्वा च तं प्रधाव्यैव निहन्तुं विविधयुधैः। ।तद्दर्शनाद्भुतात्तत्र ॥ १९४
पाटितान्निरगचत्र तस्माज्जीवन्युवा द्विजः । लोकः कोलाहलं व्यधात् ॥ १९५