ततः प्राप्स्यसि कान्तां तामन्ते सिद्धिं च शाश्वतीम् । देहस्तु तावत्सिद्धस्ते पश्यायं दिव्यसौर ॥
समत्रं च गृहाणेदं मम कृष्णमृगाजिनम् । कृतावगुण्ठनो येन भ्रमरैर्नहि बाध्यसे ॥
इत्युक्त्वाजिनसत्रौ स तस्मै दत्वा मुनिर्ययौ । तथेत्यात्तधृतिः सोऽपि तीर्थं तत्रावसन्नृपः ॥
द्वादशाब्दोषितं तं च तपसाराधितेश्वरम् । भूपं कुमुदिनी दैत्यकन्या सा स्वयमभ्यगात् ॥
तया साकं स पातालं गत्वा दयितया चिरम् । राजा भूनन्नो भोगान्भुजानः सिद्धिमाप्तवा ॥
इत्यनुद्वेगशीळा ये भठ्या धैर्यावलम्बिनः । दूरभ्रष्टामपि निजां भूमिं संप्राप्नुवन्ति ते ॥
स्वं चेह भाविकल्याणः श्रीर्शन सुळक्षणः । तदाहारं विनात्मानं किमुद्वेगादुपेक्षसे ॥
इत्युक्तो चूतशाखान्तः सख्या मुखरकेण सः । तेन श्रीदर्शनो रात्रौ निराहारो जगाद तम् ॥
यथात्थ त्वं कुलीनः सन्कित्वस्यां पुरि लज्जया । निर्गन्तुं न बहिः शक्तोमीदृशो धृतदुर्गतः ॥
तदस्यामेव चेद्रात्रौ विदेशे गमनं कचित् । न निषेधसि मे मि तदाहारं करोम्यहम् ॥
तच्छुत्वैव तथेत्युक्त्वा तस्मै मुखरकोऽथ सः। आनीय भोजनं प्रादात्सोऽपि तद्वभुजे तदा ॥
भुक्त्वैव च स तेनैव सह श्रीदर्शनस्ततः प्रायात्स्नेहानुयातेन सख्या देशान्तरं प्रति ॥
गच्छन्तं चात्र तं मार्गे यदैौ दैवापश्यताम् । यदृच्छयागतैौ व्योम्ना जननीजनकौ निशि ॥
सौदामिन्यहृद्दासौ याभ्यां विप्रस्य वेश्मनि । स देवदर्शनस्यात्र न्यधीयत तौ जातमात्रो ॥
तौ विज्ञाय तमापन्नं धृतव्यसननिर्धनम् । विदेशप्रस्थितं स्नेहाददृश्यावूचतुर्दिवः ॥
भोः श्रीदर्शन मात्रा ते देवदर्शनभार्यया । भूमावाभरणान्यन्तः स्थापितानि स्ववासके ॥
तानि गत्वा गृहीत्वा त्वं निश्चिन्तं सालवं व्रज । ऊजितश्रीर्हि तत्रास्ति श्रीसेन इति भूपतिः ॥
स च चूतविपत्छिष्टः कुमारत्वे भृशं यतः। अतस्तेन कृतः स्फीतः कितवानां महामठः॥
लभन्ते कितवास्तत्र वसन्तोऽभीष्टभोजनम् । तद्वत्स तत्र गच्छ त्वं भद्रं तव भविष्यति ॥
इति वाचं दिवः श्रुत्वा गत्वा श्रीदर्शनो गृहम् । भुवः खातासमित्रस्तान्यादत्ताभरणानि सः ॥
ततो हृष्टः समं तेन सख्या मुखरकेण सः । देवतानुग्रहं मत्वा प्रतस्थे माळवं प्रति ॥
गत्वा सुदूरमध्वानं तया राज्या दिनेन च । सायं स बहुसस्याख्यं ग्रामं तेन सहप्तवान् ॥
आन्तश्च तस्य ग्रामस्य नातिदूरे सुहृत्सखः । उपाविशत्तडागस्य तीरे विमलपाथसः ॥
तत्र तस्मिन्क्षणं धौतपादे पीताम्भसि स्थिते । काष्यनन्यसमा रूपे कन्या तोयार्थमाययौ ॥
नीलोत्पलसवर्णाङ्गलेखा रतिरिवैकिका । हरदग्धस्य कामस्य धूमेन श्यामलीकृता ॥
सा तं श्रीदर्शनं दृष्ट्वा प्रेमनिर्भरया दृशा । उपेत्य दर्शनप्रीतं सवयस्यमभाषत ॥
कुत्रागतो महाभागौ युवामिह विपत्तये । किमज्ञानाजवळल्यग्नौ पतितौ स्थः पतङ्गवत् ॥
एतच्छुत्वा स संभ्रान्तः कन्यां मुखरकोऽत्र ताम् । पप्रच्छ का त्वं किं चैतत्त्वयोक्तं कथ्यत ॥
ततोऽब्रवीत्सा संक्षेपाद्वयम्येतच्छूणुतं युवाम् । अस्त्यग्रहारः सुमहान्सुघोषो नाम विश्रुतः ॥
तत्राभूत्पद्मगर्भख्यो ब्राह्मणो वेदवित्तमः । तस्योत्तमकुला भार्या नाम्ना शशिकलाभवत् ॥
तस्यां च तस्यापत्ये झे जाते आस्तां सुजन्मनः। सुतो मुखरको नाम पशिष्ठेति सुताप्यहम् ॥
स मे मुखरको भ्राता धृतव्यसनविष्नुतः । बाल्येऽपि निर्गत्य गृहात्कापि देशान्तरं गतः ॥
तेन शोकेन पञ्चत्वं गतयां मम मातरि। मषतोभयदुःखातेस्त्यक्तवान्स गृहस्थितिम् ॥
एकाकी च गृहीत्वा मां तं गवेषयितुं सुतम्। भ्राम्यन्नितस्ततः प्रापदिमं ग्रामं विधेर्वशात् ॥
इह चास्ति महान्प्रामे चौरश्चैौरचमूपतिः । वसुभूतिरिति ख्यातो ब्राह्मणो नाममात्रतः॥
तेनेह प्राप्य पपेन सभृत्येन पितुर्मम । तस्य प्राणाः सुवर्णं च शरीरान्तर्गतं हृतम् ॥
अहं च तेन नीत्वैव गृहं बन्दीकृता सती । सुभूतिनाम्ने पुत्राय प्रदातुं परिकल्पिता ॥
स चास्य पुत्रो मुषितुं सार्थ कापि गतः स्थितः। नायात्यद्यपि मपुण्यैः प्रमाणं मेऽधुना वि ॥
तदेष चौरो दृष्टा वां कुर्यादस्याहितं ध्रुवम्। विमुच्येथे यथैतस्मादुपायं कुरुतं तथा ॥
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२९०
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९०
[ आदितस्त
कथासरित्सागरः ।