पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७८
आदितस्तरङ्गः
कथासरित्सागरः ।

ततो जगाद तं भिक्षुमाचार्यं कथमीदृशुः । बहुच्छिद्रोऽनुपाल्यः स्याद्धर्मो जगति माहशैः ॥
तच्छुत्वा सोऽब्रवीदिक्षुर्देव नैतावता बुधैः। धर्मस्य रक्षणविधौ कार्यानुत्साहिनी मतिः ॥
धीरानुत्साहसंपन्नान्स्वधर्मानवमानिनः। देवता अभिरक्षन्ति पुष्णन्येषां च वाछितम् ॥
तथा चेदं भगवतो बोधिसत्त्वस्य जातकम् । वाराहं न श्रुतं राजन्यदि तच्छूयतां त्वया ॥
पुरा गुह्यां विन्ध्याद्रावासीक्रुद्धांशसंभवः । वराहः कोऽपि सुहृदा मर्कटेने खमं सुधीः ॥
स सर्वसत्वहितकृत्सख्या तेन युतः सदा । अतिथीन्पूजयन्काऊं निनाय खोचितैः क्रमैः ॥
एक चोदभूत्तत्र दुर्दितं पञ्च वासरान् । अच्छिन्नधाराविच्छिन्नप्राणिसंचारदारुणम् ॥
पञ्चमेऽह्नि वराहस्य सुप्तस्य सकपेर्नशि । आगतस्य गुइद्वारं सिंहो भार्यासुतान्वितः॥
स सिंहस्तत्र भार्यां तासवादीहुर्दिने ध्रुवम् । मरिष्यामोऽद्य दीर्घऽस्मिन्नप्राप्तप्राणिनः क्षुधा ॥
तच्छुत्वा खात्रवीसिही सर्वे तावक्षुधा वयम् । न भवामस्तदेकां मां भुक्वा द्वौ जीवतं युवाम् ॥
त्वं हि प्रभुरयं पुत्रः प्राणसर्वस्वमावयोः । मादृशी भवितान्या ते तन्मयैवास्तु वां शिवम् ॥
एवमन्योन्यसंलापो जायापत्योस्तयोस्तदा । दैवात्प्रबुद्धः शुश्राव स वराहो महाशयः ॥
प्रीतश्चाचिन्तयद्दिष्ट्या क निशेयं क्क दुर्दिनम् । क चेहगतिथिप्राप्तिरहो पुण्योदयोऽद्य मे ॥
तद्विनो न भवेद्यावत्तावत्क्षणविनाशिना। किसनेन न देहेन तर्पयाम्यतिथीनमून् ॥
इत्युत्थायं स निर्गत्य वराहः स्निग्धया गिरा । सिंहं जगाद तं भद्र मा गमस्त्वं विषादिताम् ॥
अयं ससुतद्रस्य भक्ष्यः प्राप्तोऽस्म्यहं तव । तद्भुङ्क्ष्व मामिति नेडेनोते तेन स केसरी ॥
हृष्टस्तामब्रवीद्भयं पूर्वं भुङ्कमयं शिशुः । अनन्तरमहं भोक्ष्ये भोक्ष्यसे त्वमतः परम् ॥
तथेत्युक्ते तया पूर्वं सिंहपोतेन भक्षिते । क्रोडस्य तस्य मांसेऽथ सिंहो भोक्तुं प्रचक्रमे ॥
भुञ्जनं च तमाह स्म महसन्वः स सूकरः । शीलं पिबैतद्रत से याचङ्मौ न लीयते ॥
तृप्तिं च मन्मांसैः शेषमश्नतु ते प्रिया । इति जपन्क्रमान्तेन स सिंहेनास्थिशेषताम् ॥
नीतोऽपि सूकरः प्राणैः खस्वस्थो न व्यमुच्यत । तत्र तद्धेर्यपर्यन्तमवेक्षितुमिव स्थितैः ॥
तावच्च सा क्षुधाछान्त सिंही तत्र व्यपद्यत । स सुतः काप्यगासिहः क्षीयते स्म च यामिनी ॥
अत्रान्तरे प्रवृद्धः स सखा निर्गत्य मर्कटः। वराहं तं तथाभूतं दृष्ट्वा पप्रच्छ संभ्रमात् ॥
केनावस्था कृतेयं ते ब्रूहि शोषि चेत्सखे । तच्छुत्वा स यथावृत्तं धीरोऽस्मै सूकरोऽभ्यधात् ॥
ततो रुदन्स तं नत्वा पादयोः कपिरब्रवीत् । त्वं देवतांशो येनारमा तिर्यक्त्वान्मोचितोऽमुतः ॥
तत्कंचिदभिलाषं मे ब्रूहि संसाधयामि ते । इत्युक्तस्तेन कपिना स वराहो जगाद तम् ॥
यो वयस्याभिलाषो मे दुःसाध्यो विधिनापि सः। पश्यतो से मृता येयं क्षुधा सिंही तपस्विनी ॥
एषा संप्राप्तपूर्वोक्तं पुनर्मी प्राप्तजीविता । भुक्त्वा तृष्यत्विति सखे चेतो हि सम वाञ्छति ॥
इति तं वादिनं क्रोडं प्रत्यक्षीभूय पाणिना। परामृश्य व्यधाद्धर्मं मुनीन्द्र दिव्यविग्रहम् ॥
उवाच च मयैवेयं माया सिंहादिरूपिणा । कृताभूत्वां परायैकबद्धकक्ष्यं जिगीषता ॥
त्वया स्वखण्डसन परार्थे प्राणदायिना । विजित्य ममिमं धर्म प्रानैवाद्य मुनीन्द्रता ॥
तच्छुत्वा धर्ममालोक्य पुरःस्थं सोऽब्रवीन्मुनिः। सख्यावस्मिन्नसंत्यक्ततिर्यक्स्वे मर्कटेऽधुना ॥
न मां प्रीणाति भगवन्प्राप्ताप्येषा मुनीन्द्रता । श्रुत्वैतरस मुनिं चक्रे धर्मतमपि मर्कटम् ॥
ध्रुवं फलाय महते महद्भिः सह संगमः । अथ धर्मतिरोऽभूरस सिंही चान्तर्दधे मृता ॥
एवं सभ्वबळात्यक्तधर्मोत्साहैरदुर्दभाः। देवताकृतसाहाय्यै राजन्वाञ्छितसिद्धयः ॥
इति भिक्षोर्वचः श्रुत्वा स विनीतमतिः पुनः । दानशूरो नृपश्चक्रे रात्रौ तं स्वग्नमाणवम् ॥
दृष्ट्रा शशंस च स्वप्नं प्रातस्तस्मै स भिक्षवे । जाने स्वप्नेऽद्य मामेवं दिव्यः कोऽप्यवदन्मुनिः ॥
पुत्र निष्कल्मषो बोधिसत्त्वचर्यं चराधुना । तच्छुत्वैव च तद्वाक्यं प्रवृद्धोऽस्म्यद्य निर्युतः ॥
एवं निवेद्य गुरवे भिक्षवे स महीपतिः । जग्राह तां सहाचर्या शुभेऽह्नि तदनुज्ञया ॥