सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७६
[ आदितस्तरङ्गः
कथासरित्सागरः ।

तदेकदा वैश्रवणो दृष्ट्वा स्नात्वात्र मानसे । जातश्रद्धोऽम्बुजे तस्मिन्हरयारभतार्चनम् ॥
तत्कालं चानुगास्तस्य यक्षास्तत्र सरोन्तरे । विजह्वश्चहंसादिरूपैर्वारिचरोचितैः ॥
तत्र युष्मद्रिपोस्तस्य कालजिह्मस्य दैवतः । चिद्युज्जिह्व इति ज्येष्ठो भ्राता यक्षः प्रियासखः ॥
क्रीडंश्चक्राह्मरूपेण पक्षविक्षेपघट्टनात् । कुबेरस्य कराग्रस्थसध्यैपात्रमपातयत् ॥
ततः स धनदः क्रुद्धः शापेनात्रैव मानसे । चक्रह्मेव तं चक्रे विद्युज्जिहं सभार्यकम् ॥
तथाऋतं च संप्रीत्या रात्रौ रात्रौ विनोदयन् । कृततत्प्रेयसीरूपो विरहातुमग्रजम् ॥
कालजिओोऽद्य तत्रास्ते स दिवा निजरूपधृत् । दासीकृतेन त्वपित्रा सहितो गन्धमालिना ॥
तत्तत्र प्रेर्यतां पुत्रि प्रतीहरसुतस्त्वया । आहिच्छत्रो महावीरो विनीतमतिरुद्यमी ॥
इममर्थं च खङ्गी च क्षणाभ्यां विजित्य तम् । यज्ञे स हि प्रवीरस्ते जनकं मोचयिष्यति ॥
खञ्जरत्नस्य चैतस्य स्वामी भवति यः पुमान् । स जित्वा निखिलाञ्शशून्राजा भवति भूतले ॥
एवमुक्त्वाश्वखङ्गौ मे देवी दत्त्वा तिरोऽभवत् । अथ त्वत्प्रेरणायाद्य क्रमेणाहमिहागता ॥
देवीप्रसादसहितं वीक्ष्य त्वां निर्गतं निशि । युक्त्या चानीतवत्यस्मि संश्रव्य रुदित ध्वनिम् ॥
तदेतत्साधयेष्ठं से सुभगेति तयार्थितः। स विनीतमतिस्तस्याः प्रतिपदे तथेति तत् ॥
ततो गत्वैव सा नागकन्या तत्क्षणमेव तम् । वाजिनं जवनं श्वेतं पिण्डीभूतमिवैन्दवम् ॥
रश्मिजालं दिगन्तेषु तमो हन्तुं प्रधाचितम् । तच्च वीरावलोकिन्या विप्रेक्षितमिव श्रिया ॥
खञ्जरत्नमुपानीय सतारगगनच्छवि । तस्मै विनीतमतये समर्पयत ते उभे ॥
सोऽप्यातखङ्गस्तुरगं तमारुह्य तया सह । प्रस्थितोऽश्वप्रभावेण तदैव प्राप मानसम् ॥
वतताम्बुजकरं चक्रवाकार्तकूजितैः। निषेधदिव मा सेति कालजिह्वानुकम्पया ॥
दृष्ट्वा से तत्र यक्षाणां वशे तं गन्धमालिनम् । मुक्तये तस्य तान्क्षुद्रान्व्यद्रावयदखिक्षतान् ॥
तदृङ ख सरोमध्यान्मुक्तचक्राङ्गनावपुः । कालजिह्वः समुत्तस्थौ प्रावृण्मेघ इवोन्नदन् ॥
प्रवृत्ते चाहवे व्योम्नि कालजिहं तमुतम् । विनीतमतिरुषुव्य साश्वः केशेषु सोऽग्रहीत् ॥
छेत्तुमिच्छति यावच्च शिरः खन्नेन तस्य सः तावत्स कृपणं जपन्यक्षतं शरणं यय ॥
दौ च तस्मै मुक्तः सन्तीतिनं स्वङ्गुलीयकम् । प्रहं मुमोच ह स्याच्च नागं तं गन्धमालिनम् ॥
गन्धमाली च मुदितो विनीतमतये तदा। तस्मै सुतां तां विजयवतीं दत्वा गृहानगात् ॥
ततः खङ्गाङ्गीयाश्वकन्यारत्नयुतः कृती । स विनीतमतिर्जाते प्रभाते गृहमाययौ ॥
तत्राभिनन्दितः पित्रां पृष्टवृत्तान्ततोषिणा । राज्ञा च स्खेन तां नागकन्यां स परिणीतवान् ॥
अथ रनैश्चतुर्भिस्तैर्गुणैः स्वैश्चोपचूंहितम् । पिता कदाचित्कमलमतिः प्रोवाच तं रहः ॥
इहस्योदयतुङ्गस्य सुतैषा यास्ति भूपते । पुत्रोदयवती नाम सर्वविद्यासु शिक्षिता ॥
तस्यां पणः कृतोऽनेन यो विप्रः क्षत्रियोऽपि वा । वादे पराजयेतैतां तस्मै दद्यामिमामिति ॥
पराजिताश्च वादेन वादिनोऽन्येऽनयाखिलाः । जगदाश्चर्यरूपेण रूपेणेवामराङ्गनाः ॥
त्वं चैकवीरः स्वक्षत्रवादे तूष्णीं च तत्कथम् । स्थितोऽसि विजयस्वैनां वादे परिणयस्व च ॥
इत्युक्तस्तेन पित्रा स विनीतमतिरब्रवीत् । पेशलाभिः सह स्त्रीभिर्वादः कस्तात मादृशाम् ॥
तथाप्येतं त्वदाद्देशं करिष्यामीत्युदीरिते । प्रौढेन तेन स ययौ तस्पिता क्षितिपान्तिकम् ॥
राजपुत्र्या समं वादः प्रातर्देव करिष्यते । विनीतमतिनेत्यत्र स तं भूपं व्यजिज्ञपत् ॥
भूपेन प्रतिपन्नायै गृहमेत्य च सूनवे । विनीतमतये तस्मै तत्तथैव शशंस सः ॥
ततः प्राप्तः स्वयं तेन राजहंसेन संश्रिताम् । विनीतमतिरागस्य वादी विद्वत्सभाब्जिनीम ॥
भास्वान्स भासयामास लोललोचनषट्पदैः। विलोक्यमानोऽभिमुखैर्गुणिवृन्दैस्तदाश्रितैः ॥
क्षणान्तरे चाययौ सा तनोद्यवती शनैः । राजपुत्री गुणाकृष्टा कामस्येव धर्लता ॥
शोभिता गुणवद्भिः स्वैश्वारुशब्दैर्विभूषणैः । तरपूर्वपक्षोपक्षेपमित्र कुर्वद्भिरादितः ॥