पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गतेषु तेषु राजानुगताऽघचद्वसन्तकः । अह। द्वाभ२ताना प्रत७५९९- १०५ ॥
अस्य भद्रघटोदन्तः संवृत्तो भरिकस्य यत् । तथाहि कश्चिदासीत्प्राक्पुरे पाटलिपुत्रके ॥
शुभक्तः स नाम्ना च प्रत्युई कष्टभारकम् । वनादानीयं विक्रीय पुष्णाति स्म छटुम्बकम् ॥
एकदा चागतो दूरं वनं दैवाद्ददर्श सः । तत्रस्थांश्चतुरो यक्षान्दिव्याभरणवाससः ॥
ते भीतं वीक्ष्य तं प्रीत्या सर्वं पृष्ट्वा यथातथम् । बुङ्ग द रिदमुपन्नकृषा यक्षा बभाषिरे ॥
इहास्मदन्तिके तिष्ठ भद्र कर्मकरो भवन् । अक्लेशं गृहनिर्वाहं करिष्यामो वयं तव ॥
इत्युक्तस्तैस्तथेत्यासीच्छुभदत्तस्तदन्तिके । नानादिपरिचर्यां च कृत्स्नां तेषां चकार सः ॥
संजाते भोजनस्थाने यक्षास्ते जगदुश्च तम् । आहारमस्मानमुतो देहि भद्रघटादिति ॥
अन्तःशन्यं स तं दृष्ट्वा घटं यावद्विलम्बते । तावत्ते णुयका भूयस्तमाहुः सस्मिताननाः ॥
शुभदत्त न वेत्सि त्वं क्षिप हस्तं घटान्तरे । यथेष्टं लप्स्यसे सर्व घटः कामप्रदो ह्यसौ ॥
तच्छुत्वा प्रक्षिपयन्तः पाणिं यावद्भटान्तरे । तावदाङ्गपानादि कामितं दृष्टवानसौ ॥
। शुभदत्तो ददौ तेभ्यो बुभुजे च स्वयं ततः ॥
एवं परिचरन्यक्षान्भक्त्या भीत्या च सोऽन्वहम् । तस्थौ कुटुम्बचिन्तार्तः शुभदत्तस्तदन्तिके ॥
तत्कुटुम्बं च दुःखार्त स्वनादेशेन गुरुकैः। आश्वसितं तत्प्रसादाद्रमते स्म ततश्च सः ॥
सासमात्रेण यक्षास्ते शुभदत्तं तमभ्यधुः । तुष्टः स्मस्तेऽन्या भक्त्या श्रूहि किंचिद्ददाम ते ॥
तच्छुत्व। स जगादैतांस्तुष्टाः स्थ यदि सत्यतः । एष भद्रघटस्तन्मे युष्मभिर्दीयतामिति ॥
ततस्तमूचुर्यक्षास्ते नैतं शक्ष्यसि रक्षितुम् । भद्रं पलायते वेष ततृणीष्वापरं वरम् ॥
इत्युक्तोऽपि स यदैस्तैः शुभत्तोऽपरं यदा । वरं नैच्छत्तदा तस्मै ते तं भद्रघटं ददुः ॥
ततः प्रणम्य तान्हृष्टो घटमाथ तं जवात् । गृहं च शुभदत्तः स्वं प्राप नन्दितबान्धवः ॥
तत्र तस्माद्भटालब्ध्वा भोजनादि निवेश्य तत् । गुध्यर्थमन्यभाण्डेषु सोऽभुक स्वनैः सह ॥
भारमुक्तो भजन्भोगान्पानमत्तोऽथ "तु सः। कुतस्तवैषा भोगश्रीरियष्टच्छयत बन्धुभिः ॥
स व्यक्तमब्रुवन्मूढो गर्वेणेप्सितकामदम् । गृहीत्वा घटकं स्कन्धे प्रारेभे बत नर्तितुम् ॥
नृत्यतस्तस्य च स्कन्धान्मदोद्रेकस्खलद्रुतेः । स भद्रघटको यातः पतित्वा भुवि खण्डशः ॥
तदैव चाक्षतीभूय स जगाम यथागतम् । पूर्वावस्थां च स प्र|प शुभदत्तो विषादवान् ॥
तदेवं पनदोषादिप्रमदाहतबुद्धयः । अभव्याः प्राप्तमप्यर्थं नैव जानन्ति रक्षितुम् ॥
इति भद्रघटाख्यानहासं श्रुत्वा वसन्तकात् । उत्थाय चक्रे वत्सेशः नानाहारादिकाः क्रियाः ॥
नरवाहनदत्तोऽपि नात्वा भुक्त्वान्तिके पितुः । दिनान्ते सखिभिः साकं जगाम भवनं निजम् ॥
तत्र रात्रावनिद्रं तं शयनीयगतं सुहृत् । श्रुण्वसु सचिवेष्वेतेष्ववोचन्मरुभूतिकः ॥
दासीसङ्गच्छया देव जाने नान्तःपुरं त्वया । आहूतं सापि नाहूता तेन निद्राद्य नास्ति ते ॥
तत्किमद्यापि वेश्यासु जानन्नप्यनुरज्यसे । नह्यसां चास्ति सद्भावस्तथा चैतां कथां श्रुणु ॥
अस्तीह चित्रकूटाख्यमृद्धिमन्नगरं महत् । तत्राभूद्रत्नवर्माख्यो महधनपतिर्वणि ॥
ईश्वराराधनादेकस्तस्य नुरजायत । अतश्चश्वरवसोणं नाम्ना चक्रे स तं मुखम् ॥
अधीतविद्यमासन्नयौवनं वीक्ष्य तं च सः । एकपुत्रो वणिङ्मुख्यो रत्नवर्मा व्यचिन्तयत् ॥
रूपिणी कुसृतिः सृष्टा धनप्राणापहारिणी । आढ्यानां यौवनान्धान्मां वेश्या नामेह वेधसा ॥
तदर्पयामि कुट्टन्याः कस्याश्चिदमुमात्मजम् । वेश्याव्याजोपशिक्षार्थे येन ताभिर्न वक्ष्यते ॥
इत्यालोच्य स पुत्रेण सहैवेश्वरवर्मणा । यमजिह्वाभिधानायाः कुट्टन्योः सदनं ययौ ॥
नम् लनं दीर्घदशानां भयनामिकाम । शिक्षयन्तीं दहितरं फट्नीं तां ददर्श सः ॥