पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्युक्त्वा तेन मुक्तः स हंसो गत्वा शशंस तत् । दमयन्त्ये यथावस्तु यथाकाम जगभ च ॥
दमयन्ती च सोत्कण्ठायुक्त्या मातृमुखेन सा । पितुः स्वाप्रार्थयामास नलगायै स्वयंवरम् ॥
अनुमन्य स तस्याश्च स्वयंवरकृते पिता । भीमः पृथिव्यां सर्वेषां राज्ञां दूतान्विसृष्टवान् ॥
प्राप्तदूताश्च निखिला विदर्भान्प्रति भूमिषाः। व्रजन्ति स्म नलोऽप्युत्को रथारूढश्चचाळ सः ॥
ततश्च दमयन्त्यास्तौ नलप्रेमस्वयंवरौ। इन्द्रादयो लोकपालाः शुश्रुवुर्नारदान्मुनेः ॥
तेषां च बलभिद्वायुयमाग्निवरुणास्ततः । संमद्य दमयन्त्युक्त्वा नलस्यैवान्तिकं ययुः ॥
ऊचुश्च प्राप्य तं प्रहं विदर्भान्प्रस्थितं पथि । गत्वास्मद्वचनाद्रुहि दमयन्तीमिदं नृप ॥
पञ्चानां वरयैकं नः किं मयैन नलेन ते । मर्या मरणधर्मणस्त्रिदशास्त्वमरा इति ॥
अस्मद्वराच तत्पार्श्वमहोऽन्यैः प्रवेक्ष्यसि । तथेत्येतां च देवाज्ञां प्रतिपेदे नलोऽथ सः ॥
गत्वा चान्तःपुरं तस्याः प्रविश्यादृष्ट एव च । दमयन्त्याः शशंसैव देवदेशं तथैव तम् ॥
सा तं श्रुत्वाब्रवीत्साध्वी देवास्ते सन्तु तादृशाः । तथापि मे नलो भर्ता न कार्यं त्रिदशैर्मम ॥
इति सम्यग्वचस्तस्याः श्रुत्वात्मानं प्रकाश्य च । नरो गत्वा तथैवैतदिन्द्रादिभ्यः शशंस सः ॥
वश्या वयमिदानीं ते स्मृतमात्रोपगामिनः । तथ्यवादिन्निति च ते तुष्टास्तस्मै ददुर्वरान् ॥
ततो हृष्टे नले याते विदर्भान्वध्यनेप्सुभिः । मयन्त्याः सुरेशाचैर्नलरूपमकारि तैः ॥
गत्वा च भीमस्य सभां सर्वधर्मानुपाश्रिताः । स्वयंवरे प्रस्तुते ते नलान्तिक उपाविशन् ॥
अथैत्य दमयन्ती सा भ्रात्र स्वेनैकशो नृपान् । आवेद्यमानतुज्झन्ती क्रमात्प्राप नलान्तिय ॥
दृष्ट्वा छायानिमेषदिगुणांस्तत्र च षण्नलान् । सा भ्रातरि समुद्धान्ते व्याकुला समचिन्तय ॥
नूनं मे लोकपालैस्तैर्मायेयं पञ्चभिः कृता । षष्ठं मन्ये नलं त्वत्र न चान्यत्रास्ति मे गतिः ॥
इत्यालोच्यैव साध्वी सा नौकासक्तमानसा । आदित्याभिमुखी भूत्वा दमयन्येवमब्रवीत् ॥
भो लोकपालाः स्वप्नेऽपि नलादन्यन्न चेन्न मे । मनस्तत्तेन सत्येन स्वं दर्शयत मे वपुः॥
वरात्पूर्ववृताश्चान्ये कन्यायाः परपूरुषः । परदाराश्च सा तेषां तत्कथं मोह एष वः ॥
श्रुत्वैतत्पञ्च शक्राद्याः स्वेन रूपेण तेऽभवन् । षष्टः सत्यनलश्चाभूत्स्वरूपस्थः स भूपतिः ॥
तस्मिन्सा दमयन्ती तां फुल्लेन्दीवरसुन्दरीम् । दृशे वरणमालां च हृष्टा राज्ञि नले न्यधात् ॥
पपात पुष्पवृष्टिश्च नभोमध्यात्ततो नृपः । विवाहमङ्गलं भीमश्चक्रे तस्या नलस्य च ॥
विहितोचितपूजाश्च तेन वैदर्भभूभृता । नृपा यथागतं जग्मुर्देवाः शक्राद्यश्च ते ॥
शक्राद्यस्तु ददृशुद्धौ कलिद्वापरौ पथि । बुद्ध च दमयन्त्यर्थमागतौ तौ च तेऽब्रुवन् ॥
न गन्तव्यं बिभेषु तत एवागता वयम् । वृत्तः स्वयंवरो राजा दमयन्त्या नलो वृतः ॥
तच्छुत्वैवोचतुः पापौ तौ कलिद्वापरौ रुषा । देवान्भवादशांस्त्यक्त्वा यत्स मर्ये वृतस्तय ॥
सदवश्यं करिष्यामो वियोगमुभयोस्तयोः। एवं कृतप्रतिज्ञौ तौ निवर्यं ययतुस्ततः ॥
नलश्च सप्त दिवसान्स्थित्वा श्वशुरवेश्मनि । दमयन्त्या समं वध्वा कृतार्था निषधानगात् ॥
तत्रासीप्रेम दंपत्योर्गरीशर्वाधिकं तयोः । शर्वस्य गौरी देहधं तस्य त्वात्मैव साभवत् ॥
कालेन चेन्द्रसेनाख्यं दमयन्ती नलसुतम् । प्रसूते स्म तन्वेकामिन्द्रसेनां च कन्यका। ॥
तावच्च स कलिश्छिद्रं तस्यानुच्छास्त्रवर्तिनः । नलस्यासीच्चिरं चिन्वन्प्रतिज्ञातार्थनिश्चितः ॥
अथैकदनुपास्यैव संध्यामलिताकिः। स सुष्वाप नलः पानमदेन मुषितस्मृतिः ॥
छिद्रमेतदवाप्यैव दत्तदृष्टिर्दिवानिशम् । कलिस्तस्य शरीरान्तर्नलस्य प्रविवेश सः ॥
तेन देहप्रविष्टेन कलिना स नलो नृपः। विहाय धर्टीमाचरमाचचर यथारुचि ॥