सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ततः कृत्वाग्निकार्यादेः शुश्रूषां भर्तुरत्र सा । साध्वी भिक्षां समादाय तस्यागादन्तकं मुनेः ॥
सोऽथ बद्धाञ्जलिर्भूत्वा मुनिस्तामवदत्सतीम् । कथं बळकावृत्तान्तः परोक्षोऽपि मम त्वया ॥
ज्ञात इत्यादितो ब्रूहि भिक्षां गृह्यहं ततः । इत्युक्तवन्तं तमृषिं सावोचत्पतिदेवता ॥
न भर्तृभक्तेरपरं धर्म कंचन वेइयहम् । तेन मे तत्प्रसादेन विज्ञानबलमीदृशम् ॥
किं चेह धर्मव्याधाख्यं मांसविक्रयजीविनम् । गत्वा पश्य ततः श्रेयो निरहंकारमाप्स्यसि ॥
एवं सर्वविदा प्रोक्तः स पतिव्रतया मुनिः । गृहीतातिथिभागस्तां प्रणम्य निरगात्ततः ॥
अन्येद्युः स मुनिर्धर्मव्याधमन्विष्य तत्र तम् । विपणिस्थमुपागच्छत्कुर्वाणं मांसविक्रयम् ॥
धर्मव्याधश्च हयैव स तं मुनिमभाषत । किं पतिव्रतया ब्रह्मन्निह त्वं प्रेषितस्तया ॥
तच्छुत्वा विस्मितोऽवादीद्धर्मव्ययाधमृषिः स तम् । ईदृशं ते कथं ज्ञानं मांसविक्रयिणः सतः॥
इत्युक्तवन्तं तमृषिं धर्मव्याधो जगाद सः । मातापित्रोरहं भक्तस्तौ ममैकं परायणम् ॥
तयोः स्नपितयोः स्नामि भुजे भोजितयोस्तयोः । शये शयितयोस्तेन ज्ञानमीदृग्विधं मम । ॥
मांसं चान्यहतस्याहं मृगादेर्घत्तये परम् । स्वधर्मनिरतो भूत्वा विक्रीणे नार्थगर्थतः॥
ज्ञानविन्नमहंकारमहं सा च पतिव्रता । नैव कुर्वो मुने तेन निबधज्ञानमावयोः ॥
तस्मात्त्वमप्यहंकारं मुक्त्वा शुद्ध्यै मुनित्रतः । स्वधर्म चर येनाशु परं ज्योतिरवाप्स्यसि ॥
इति तेनानुशिष्टश्च धर्मव्याधेन तद्वहन् । गत्वा दृष्ट्वा च तच्चर्या मुनिस्तुष्टो वनं ययौ ॥
सिद्धस्तदुपदेशाच्च सोऽभूत्तावपि जग्मतुः । सिद्धि पतिव्रताधर्मव्याधौ तद्धर्मचर्यया ॥
एष प्रभावो भक्तानां पत्यौ पितरि मातरि । तदेहि संभावय तां मातरं दर्शनोत्सुकाम् ॥
एवं पित्रा महीपालः स चन्द्रस्वामिनोदितः । प्रतिपेदे स्वदेशाय गन्तुं मामनुरोधतः ॥
अनन्तस्वामिने सर्व धर्मपित्रे निवेद्य तत् । तेनात्तभारः स ततः प्रायात्पितृसखो निशि ॥
क्रमात्प्राप्य स्वदेशं च जननीं दर्शनेन ताम् । अनन्यद्देवमतिं मधुः पिकवधूमिव ॥
कंचित्कालं महीपालस्तस्थौ बान्धवसत्कृतः । तत्र मातृयुतः पित्रा वृत्तान्ताख्यायिना सह ॥
तावत्तारापुरे तत्र तद्भार्या तु नृपात्मज । निशाक्षये बन्धुमती सान्तः सुप्त व्यबुध्यत ॥
बु च तं पतिं कापि गतं विरहविछवा । न लेभे सा रतिं कापि प्रासादोपवनादिषु ॥
द्विगुणीकृत हरेण बाष्पेण रुदती परम् । आसीत्प्रलपैकमथी वाञ्छन्ती मृत्युना सुखम् ॥
यामि कथंण केनापि शीघ्रमेष्यामि चेति मे । स्वैरमुक्त्वैव स गतस्तन्मा पुत्रि शुचं कृथाः ॥
इत्याशादर्शिभिर्वाक्यैरनन्तस्वामिना ततः । मत्रिणाश्वासिताभ्येत्य छुच्छात्मा धृतिमाददे ॥
ततः प्रवृत्तिज्ञानार्थं भर्तुर्देशान्तरागतान् । पूजयन्ती सदैवासीद्दनैः सा द्विजपुंगवान् ॥
तेन संगमदत्ताख्यं दीनं दानागतं द्विजम् । भर्तुः पप्रच्छ सा वार्तामुक्त्वाभिज्ञाननामनी ॥
ततस्तां स द्विजोऽवादीदृष्टौ नैवंविधो मया। कश्चित्तथापि देख्यत्र कार्या नैवधृतिस्त्वया ॥
चिरादवाप्यतेऽभीष्टसंयोगः शुभकर्मभिः । तथा च यन्मया दृष्टमाश्चर्यं वच्मि तच्छुणु ॥
तीर्थान्यटन्नहं प्रापं हिमाद्रौ मानसं सरः। तत्रादर्शमिवापश्यमन्तर्मणिमयं गृहम् ॥
ततोऽकस्माच्च निर्गत्य खङ्गपाणिः पुमान्गृहात् । अध्यारोहत्सरस्तीरं दिव्यनारीगणान्वितः॥
तत्रोद्याने सह स्त्रीभिः खोऽक्रीडत्पानलीलया। दूरात्सकौतुकश्चाहं पश्यन्नासमलक्षितः ॥
तावत्कुतोऽपि तत्रागात्सुभगः पुरुषोऽपरः। मिलिताय च तत्तस्मै यथादृष्टं मयोदितम् ॥
दर्शितश्च स सखीकः पुमान्दूरात्कुतूहलात् । तद्वंश्चैव स्ववृत्तान्तमेवमाख्यातवान्मम ॥
पुरे त्रिभुवनाख्येऽहं राजा त्रिभुवनाभिधः । तत्र मे सुचिरं सेवामेकः पाशुपतो व्यधात् ॥