सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः ५ ।]
१३
।कथापीठलम्बकः १ ।

आदित्यवर्मनामात्र बभूव नृपतिः पुरा । शिवबर्माभिधानोऽस्य मन्त्री चाभून्महामतिः ॥ ५९

राज्ञस्तस्यैकदा चैका राजी गर्भमधारयत् । तद्वद्वा स नृपोऽपृच्छदित्यन्तःपुररक्षिणः ॥ ६०

वर्षद्वयं प्रविष्टस्य वर्ततेऽन्तःपुरेऽत्र मे । तदेषा गर्भसंभूतिः कुतः संप्रति कथ्यताम् ॥ ६१

अथोचुस्ते प्रवेशोऽत्र पुंसोऽन्यस्यास्ति न प्रभो । शिववर्मा नु ते मी प्रविशत्यनिवारितः ॥ ६२

तच्छुत्वचिन्तयद्राज नूनं द्रोही स एव से । प्रकाशं च हते तस्मिन्नपवादो भवेन्मम ॥ ६३

इत्यालोच्य स तं युक्त्या शिववर्माणमीश्वरः। सामन्तस्यान्तिकं सख्युः प्राहिणोद्भोगवर्मणः ॥ ६४

तद्वधं तस्य लेखेन संदिश्य तदनन्तरम् । निगूढं स नृपस्तत्र लेखहरं व्यसर्जयत् ॥ ६५

याते मद्विणि सप्ताहे गते भीत्या पलायिता । सा राी रक्षिभिर्लब्धा पुंसा स्त्रीरूपिणा सह ॥ ६६

आदित्यवर्मा तद्वद् खानुतापोऽभवत्तदा। किं मया तादृशो मन्त्री घातितोऽकारणादिति ॥ ६७

अत्रान्तरे स च प्राप निकटं भोगवर्मणः । शिववर्मा स चोपागालेखमादाय पूरुषः ॥ ६८

वाचयित्वा च तं लेखमेकान्ते शिववर्मणे। शशंस वधनिर्देशं भोगवर्मा विधेर्वशात् ॥ ६९

शिववर्माप्यवोचत्तं सामन्तं मञ्जिसत्तमः । त्वं व्यापादय मां नो चेन्निहन्म्यात्मानमात्मना ॥ ७०

तच्छुत्वा विस्मयाविष्टो भोगवर्मा जगाद तम् । किमेतचूहि मे विप्र शापितोऽसि न वक्षि चेत् ॥ ७१

अथ वक्ति स्म तं मत्री हन्येयं यत्र भूपते । तत्र द्वादशवर्षाणि देशे देवो न वर्षति ॥ ७२

तच्छुत्वा मन्त्रिभिः सार्ध भोगवर्मा व्यचिन्तयत् । दुष्टः स राजा देशस्य शमस्माकमिच्छति ॥ ७३

किं हि तत्र न सन्त्येव वधका गुप्तगामिनः । तस्मान्मां न वध्योऽसौ रक्ष्यः स्वात्मवधादपि ॥ ७४

इति संमघ्य दत्त्वा च रक्षकान्भोगवर्मणा । शिववर्मा ततो देशान्प्रेषितोऽभूत्ततः क्षणात् ॥ ७५

एवं प्रत्याययौ जीवन्स मत्री प्रज्ञया स्वया । शुद्धिश्चास्यान्यतो जाता नहि धर्मोऽन्यथा भवेत् ॥ ७६

इत्थं तवापि शुद्धिः स्यात्तिष्ट तावद्महे मम । कात्यायन नृपोऽप्येष सानुतापो भविष्यति ॥ ७७

इत्युक्तः शकटालेन च्छन्नोऽहं तस्य वेश्मनि । प्रतीक्षमाणोऽवसरं तान्यहान्यत्यवाहयम् ॥ ७८

तस्याथ योगनन्दस्य काणभूते कदाचन । पुत्रो हिरण्यगुप्ताख्यो मृगयायै गतोऽभवत् ॥ ७९

अश्ववेगप्रयातस्य कथंचिदूरमन्तरम् । एकाकिन। वने तस्य वासरः पर्यहीयत ॥ ८०

ततश्व तां निशां नेतुं वृक्षमारोहति स्म स। क्षणात्तथैव चारोहदृक्षः सिंहेन भीषितः ॥ ८१

स दृष्ट्वा राजपुत्रं तं भीतं मानुषभाषया । मा भैषीर्मम मित्रं त्वमित्युक्त्वा निर्भयं व्यधात् ॥ ८२

विस्रम्भादृक्षवाक्येन राजपुत्रोऽथ सुप्तवान् । वक्षस्तु जामदेवासीदधः सिंहोऽथ सोऽब्रवीत्। ॥ ८३

नरक्ष मानुषमेतं मे क्षिप यावद्रजाम्यहम् । त्ररक्षस्ततोऽब्रवीत्पाप न मित्रं घातयाम्यहम् ॥ ८४

क्रमाद्दक्षे प्रसुप्ते च राजपुत्रे च जाग्रति । पुनः सिंहोऽब्रवीदेतमूलं मे क्षिप मानुष ॥ ८५

तछुत्वाहमभयात्तेन सिंहस्याराधनाय सः । क्षिप्तोऽपि नापतचित्रमृक्षो दैवप्रबोधितः ॥ ८६

मित्रद्रोहिन्भवोन्मत्त इति शापमदाच सः । तस्य राजसुतस्यैतवृत्तान्तावगमावधिम् ॥ ८७

प्राप्यैव स्वगृहं प्रातरुन्मत्तोऽभूनृपात्मजः। योगनन्दश्च तदृष्टा विषादं सहसागमत् ॥ ८८

अब्रवीच्च स कालेऽस्मिजीवेद्वररुचिर्यदि । इदं ज्ञायेत तत्सर्वं धिने तद्वधपाटवम् ॥ ८९

तच्छुत्वा वचनं राज्ञः शकटालो व्यचिन्तयत् । हन्त कात्यायनस्यायं लब्धः कालः प्रकाशने ॥ ९०

न सोऽत्र मानी तिष्ठेच राजा मयि च विश्वसेत् । इत्यालोच्य स राजानमब्रवीद्याचिताभयः ॥ ९१

राजन्नलं विषादेन जीवन्वररुचिः स्थितः । योगनन्दस्ततोऽवादीङ्गतमानीयतामिति ॥ ९२

अथाहं शकटालेन योगनन्दान्तिकं हठात् । आनीतस्तं तथाभूतं राजपुत्रं व्यलोकयम् ॥ ९३

मित्रद्रोहः कुतोऽनेत देवेत्युक्त्वा तथैव सः । सरस्वतीप्रसादेन वृत्तान्तः कथितो मया ॥ ९४

ततस्तच्छापमुक्तेन स्तुतोऽहं राजसूनुना । त्वया कथमिदं ज्ञातमित्यपृच्छत्स भूपतिः ॥ ९५

अथाहमवदं राजें लक्षणैरनुमानतः । प्रतिभातश्च पश्यन्ति सर्वे प्रज्ञावतां धियः ॥ ९६

तद्यथा तिलको ज्ञातस्तथा सर्वमिदं मया । इति मद्वचनात्सोऽभूद्राजा लज्जानुतापवान् ॥ ९७