पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
[ आदितस्तरङ्गः ५
कथासरित्सागरः ।

अथानादृतसत्कारः परिशुध्यैव लाभवान् । स्वगृहं गतवानस्मि शीलं हि विदुषां धनम् ॥ ९८

प्राप्तस्यैव च तत्रत्यो जनोऽरोदीत्पुरो मम । अभ्येत्य मां समुद्धान्तमुपवर्षाऽब्रवीत्ततः ॥ ९९

राज्ञा हतं निशम्य त्वामुपकोशाग्निसाद्वपुः । अकरोदथ मातुस्ते शुचा हृदयमस्फुटत् ॥ १००

तच्छुत्वभिनवोद्धृतशोकावेगविचेतनः। सद्योऽहमपतं भूमौ वातरुग्ण इव द्रुमः ॥ १०१

क्षणाच गतवानस्मि प्रलापानां रसज्ञताम् । प्रियबन्धुविनाशोत्थः शोकाग्निः कं न तापयेत् ॥ १०२

आ संसारं जगत्यस्मिन्नेका नित्या ह्यनित्यता । तदेतामैश्वर्गं मायां किं जानन्नपि मुह्यसि ॥ १०३

इत्यादिभिरुपागत्य वर्षेण वचनैरहम् । बोधितोऽथ यथातत्त्वं कथंचिदृतिमाप्तवान् ॥ १०४

ततो विरक्तहृदयस्त्यक्त्वा सर्वे निबन्धम् । प्रशमैकसहायोऽहं तपोवनमशिश्रियम् । १०५

दिवसेष्वथ गच्छत्सु तत्तपोवनमेकदा । अयोध्यात उपागच्छद्विप्र एको मयि स्थिते ॥ १०६

स मया योगनन्दस्य राज्यातीमपृच्छयत । प्रत्यभिज्ञाय मां सोऽथ सशोकमिदमब्रवीत् ॥ १०७

शृणु नन्दस्य यवृत्तं तत्सकाशाद्ते त्वयि । लब्धावकाशस्तत्राभूच्छकटालधिरेण सः ॥ १०८

स चिन्तयन्वधोपायं योगानन्दस्य युक्तितः । क्षितिं खनन्तमद्राक्षीचाणक्याख्यं द्विजं पथि ॥१०९

किं भुवं खनसीत्युक्ते तेन विप्रोऽथ सोऽब्रवीत् । दर्भमुन्मूलयाम्यत्र पादो हेतेन मे क्षतः ॥ ११०

तच्छुत्वा सहसा मत्री कोपनं क्रूरनिश्चयम् । तं विप्रं योगनन्दस्य वधोपयममन्यत ॥ १११

नाम पुष्टाश्रवीत्तं च हे ब्रह्मन्दापयामि ते । अहं त्रयोदशी श्राद्धे गृहे नन्द स्य भूपतेः ॥ ११२

दक्षिणातः सुवर्णस्य लभं तव भविष्यति । भोक्ष्यसे धुरि चान्येषामेहि तावदृहं मम ॥ ११३

इत्युक्त्वा शकटालस्तं चाणक्यमनयद्रुहम् । श्राद्धाहेऽदर्शयत्तं च राज्ञे स श्रद्दधे च तम् ॥११४

ततः स गत्वा चाणक्यो धुरि श्राद्ध उपाविशत् । सुबन्धुनामा विप्रश्च तामैच्छङ्करमात्मनः ॥ ११५

तद्वा शकटालेन विज्ञप्तो नन्दभूपतिः । अवादीन्नापरो योग्यः सुबन्धुर्धरि तिष्ठतु ॥ ११६

आगत्यैतां च राजाज्ञां शकटालो भयानतः । न मेऽपराध इत्युक्त्वा चाणक्याय न्यवेदयत् ॥ ११७

सोऽथ कोपेन चाणक्यो ज्वलन्निव समन्ततः । निजां मुक्त्वा शिखां तत्र प्रतिज्ञामकरोदिमाम् ॥ ११८

अवश्यं हन्त नन्दोऽयं सप्तभिर्दिवसैर्मया । विनाश्यो बन्धनीया च ततो निर्मन्युना शिखा ॥ ११९

इत्युक्तवन्तं कुपिते योगनन्दे पलायितम् । अलक्षितं स्वगेहे तं शकटालो न्यवेशयत् ॥ १२०

तत्रोपकरणे दत्ते गुप्तं तेनैव मत्रिणा । स चाणक्यो द्विजः कापि गत्वा कृत्यामसाधयत् ॥ १२१

तद्वशाद्योगनन्दोऽथ दाहज्वरमवाष्य सः। सप्तमे दिवसे प्राप्ते पञ्चत्वं समुपागमत् । १२२

हत्वा हिरण्यगुप्तं च शकटालेन तत्सुतम् । पूर्वनन्दसुते लक्ष्मीश्चन्द्रगुप्ते निवेशिता । १२३

मन्त्रित्वे तस्य चाभ्यर्ष बृहस्पतिसमं धिया। चाणक्यं स्थापयित्वा तं स मत्री कृतकृत्यताम् ॥ १२४

मन्वानो योगनन्दस्य कृतवैरप्रतिक्रियः । पुत्रशोकेन निर्विण्णः प्रविवेश महद्वनम् ॥ १२५

इति तस्य मुखाच्छुत्वा विप्रस्य सुतरामहम् । काणभूते गतः खेदं सर्वमालोक्य चञ्चलम् ॥ १२६

खेदाचाहमिमां द्रष्टुमागतो विन्ध्यवासिनीम् । तत्प्रसादेन दृष्ट्वा त्वां स्मृता जातिर्मया सखे ॥ १२७

प्राप्तं दिव्यं च विज्ञानं मयोक्ता ते महाकथा । इदानीं क्षीणशापोऽहं यतिष्ये देहमुज्झितुम् ॥ १२८

त्वं च संप्रति तिष्ठेह यावदायाति तेऽन्तिकम् । शिष्ययुक्तो गुणाढ्याख्यस्त्यक्तभाषात्रयो द्विजः ॥ १२९

सोऽपि ह्यहमिव क्रोधाद्देव्या शप्तो गणोत्तमः । माल्यवान्नाम मत्पक्षपाती मर्य त्वमागतः ॥१३०

तस्मै महेश्वरोतैषा कथनीया महाकथा । ततरते शापनिर्मुक्तिस्तस्य चापि भविष्यति ॥ १३१

एवं वररुचिस्तत्र काणभूतेर्निवेद्य सः। प्रतस्थे देहमोक्षाय पुण्यं बदरिकाश्रमम् ॥ १३२

गच्छन्ददर्श गङ्गायां सोऽथ शाकाशिनं मुनिम् । तत्समझ च तस्यर्षेः कुशनाभूत्करक्षातिः ॥ १३३

ततोऽस्य रुधिरं निर्यत्तेन शाकरसीकृतम् । अहंकारपरीक्षार्थं कौतुकात्स्खप्रभावतः ॥ १३४

तदृष्ट्वा हन्त सिद्धोऽस्मीत्यगाद्दर्पमसौ मुनिः। ततो वररुचिः किंचिद्विहस्येव जगाद तम् ॥१३५

जिज्ञासनाय रक्तं ते मया शाकरसीक्रुतम् । यावन्नाद्याप्यहंकारः परित्यक्तस्त्वया मुने ॥ १३६