सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'१२
[ आदितस्तरङ्ग ५
कथासरित्सागरः

तच्छुत्वा निशि तत्राहं गत्वा तालोपरि स्थितः । अपश्यं राक्षसीं घोरां बालैः पुत्रैः सहागताम् ॥ २०

सा भक्ष्यं याचमानांस्तानघाटीप्रतिपाल्यताम् । प्रातर्वो विप्रमांसानि दास्याम्यद्य हतो न सः ॥ २१

कस्मात्स न हतोऽवेति पृष्टा तैरब्रवीत्पुनः । तं हि दृष्ट्वा मृतोऽपीह मत्स्यो हसितवानिति ॥ २२

हसितं किमु तेनेति पृष्टा भूयः सुतैश्च सा । अवोचद्राक्षसी राज्ञः सर्वे राज्योऽपि विष्णुताः ॥ २३

सर्वत्रान्तःपुरे ह्यत्र स्त्रीरूपाः पुरुषाः स्थिताः। हन्यतेऽनपराधस्तु विप्र इत्यहसतिमिः ॥ २४

भूतानां पार्थिवात्यर्थनिधिंबेकत्वहासिनाम् । सर्वान्तश्चारिणां हृता भवन्त्येव च विक्रियाः ॥ २५

एतत्तस्या वचः श्रुत्वा ततोऽपक्रान्तवानहम् । प्रातश्च मत्स्यहासस्य हेतुं राज्ञे न्यवेद्यम॥ २६

प्राप्य चान्तःपुरेभ्यस्तान्स्त्रीरूपान्पुरुषांस्ततः । बहमन्यत मां राजा वधाद्विप्रं च मुक्तवान् ॥ २७

इत्यादि चेष्टितं दृष्ट्वा तस्य राज्ञो विष्टब्ह्वलम् । खिन्ने मयि कदाचिच्च तत्रागचित्रकृद्भवः ॥२८

अलिखरस महादेव योरानन्दं च तं पटे । सजीवमिव तच्चित्रं वाक्चेष्टारहितं त्वभूत् ॥ २९

तं च चित्रकरं राजा तुष्टो वित्तैरपूरयत् । तं च वासगृहे चित्रपटं भित्तावकारयत् ॥ ३०

एकदा च प्रविष्टस्य वासके तत्र सा मम । संपूर्णलक्षणा देवी प्रतिभाति स्म चित्रगा ॥ ३१

लक्षणान्तरसंबन्धादयूह्य प्रतिभावशात् । अथाकार्षमहं तस्यास्तिलकं मेखलापदे ॥ ३२

लंपूर्णलक्षण तेन कुवैनां गतवानहम् । प्रविष्टो योगानन्दोऽथ तिलकं तं व्यलोकयत् ॥ ३३

केनयं रचितोऽत्रेति सोऽपृच्छच्च महत्तरान् । ते च न्यवेदयंस्तस्मै कर्तारं तिलकस्य माम् ॥ ३४

देव्या गुप्तप्रदेशस्थमिमं नान्यो मया विना । वेत्ति तज्ज्ञातवानेवमसौ वररुचिः कथम् ॥ ३५

छन्नः कृतोऽमुना नूनं ममान्तःपुरविप्लवः । दृष्टवानत एवायं स्त्रीरूपांस्तत्र तान्नरान् ॥ ३६

इति संचिन्तयामास योगनन्दः क्रुधा ज्वलन्। जायन्ते बत मूढानां संघादा अपि तादृशाः ॥ ३७

ततः स्वैरं समाहूय शकटालं समादिशत् । त्वया वररुचिर्वध्यो देवीविध्वंसनादिति ॥ ३८

यथा ज्ञापयसीत्युक्त्वा शकटालोऽगमद्वहिः। अचिन्तयच्च शक्तिः स्याद्धन्तुं वररुचिं न मे ॥३९

दिव्यबुद्धिप्रभावोऽसावुद्धर्ता च ममापदः। विप्रश्च तद्वरं गुप्तं संप्रति स्वीकरोमि तम् ॥ ४०

इति निश्चित्य सोऽभ्येत्य राज्ञः कोपमकारणम् । वधान्तं कथयित्वा मे शकटालोऽब्रवीत्ततः ॥ ४१

अन्यं केचित्प्रवदाय हन्म्यहं त्वं च मद्रुहे । प्रच्छन्नस्तिष्ठ मामस्माद्रक्षितुं कोपनाथूपात् ॥ ४२

इति तद्वचनाच्छन्नस्तद्रहेऽवस्थितोऽभत्रम् । स चान्यं हतवान्कंचिन्मद्वधाख्यातये निशि ॥ ४३

एवं प्रयुक्तनीतिं तं प्रीत्यावोचमहं तद् एको मन्त्री भवान्येन हन्तुं मां न कृता मतिः ॥ ४४

नहि इंन्तुमहं शक्यो राक्षसो मित्रमस्ति मे । ध्यातमात्रागतो विधं ग्रसते स मदिच्छया ॥ ४५

राजा त्विहेन्द्रदत्ताख्यः सखा वध्यो न मे द्विजः । तच्छुत्वा सोऽब्रवीन्मन्त्री रक्षो मे दर्शयमिति ॥ ४६

ततो ध्यातागतं तस्मै तद्रक्षोऽहमीयम् । तद्दर्शनाच्च वित्रस्तो विस्मितश्च बभूव सः ॥ ४७

रक्षस्यन्तर्हिते तस्मिञ्शकटालः स मां पुनः । कथं ते राक्षसो भिन्नं संजात इति पृष्टवान् ॥ ४८

ततोऽहमवदं पूर्वं रक्षार्थं नगरे भ्रमन् । रात्रौ रात्रौ क्षयं प्रापढेकैको नगराधिपः ॥ ४९

तच्छुत्वा योगनन्दो मामकरोन्नगराधिपम् । भ्रमंश्चापश्यमत्राहं भ्रमन्तं राक्षसं निशि ॥ ५०

स च मामवद्द्रुहि विद्यते नगरेऽत्र का। सुरूपा स्त्रीति तच्छुत्वा विहस्याहं तमत्रवम् ॥ ५१

या यस्याभिमता मूढं सुरूपा तस्य सा भवेत् । तछुत्वैव त्वयैकेन जितोऽस्मीत्यवदत्स माम् ॥ ५२

प्रभ्रमोक्षाद्वधोत्तीर्ण मां पुनश्चाब्रवीदसौ । तुष्टोऽस्मीति सुहृन्मे त्वं संनिधास्ये च ते स्मृतः ॥ ५३

इत्युक्त्वान्तर्हिते तस्मिन्यथागतमगामहम् । एवमापत्सहायो मे राक्षसो मित्रतां गतः ॥
५४

इत्युक्तवानहं भूयः शकटालेन चार्थितः । गङ्गामदर्शयं तस्मै मूर्ती ध्यानादुपस्थिताम् ॥ ५५

स्तुतिभिस्तोषिता सा च मया देवी तिरोधे । बभूव शकटालश्च सहायः प्रणतो मयि ॥ ५६

एकदा च स मी मां गुप्तस्थं खिन्नमब्रवीत् । सर्वज्ञेनापि खेदाय किमात्मा दीयते त्वया ॥ ५७

किं न जानासि यद्राज्ञमविचाररता धियः । अचिराच्च भवेच्छुद्धिस्तथा चात्र कथां श्रुणु ॥ ५८