पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदेवमीदृशं देव विचित्रं चेष्टितं विधेः । सुकृती चानुभूयैव दुःखमष्यश्रुते सुखम् ॥
इति गोमुखतः श्रुत्वा श्रद्धयोत्थाय च व्यधात् । नरवाहनदत्तोऽत्र स्नानादिदिवसक्रियाम् ॥
अन्येद्युरेत्य चास्थानगतं तं बालसेवकः । शरः समरतुङ्गाख्यो राजपुत्रो व्यजिज्ञपत् ॥
देव सङ्गमवर्षेण नाशितो गोत्रजेन मे । देशश्चतुर्भिर्युक्तेन पुत्रैर्वीरजितादिभिः ॥
तदेष गत्वा पञ्चपि बहु तानानयाम्यहम् । प्रभोर्विदितमस्त्वेतदित्युक्त्वा तत्र सोऽगमत् ॥
तमल्पसैन्यं तानन्यान्भूरिसैन्यानवेत्य सः । वरसेश्वरसुतस्तस्य दिदेशानु' बलं निजम् ॥
सोऽगृहीत्वैव तन्मानी गत्वा पञ्चापि तान्रिपून् । स्वबाहुभ्यां रणे जित्वा संयम्यानीतवान्समः ॥
तथा जयिनमायान्तं वीरं संमान्य स प्रभुः । नरवाहनदत्तस्तं प्रशशंस स्वसेवकम् ॥
चित्रमाक्रान्तविषयान्सबलानिन्द्रियोपमान् । जित्वानेन रिपून्पञ्च पुरुषार्थः प्रसाधितः ॥
तच्छुत्वा गोमुखोऽवादीच्छूता चेद्देव नेदृशी । राज्ञश्चमरवालस्य कथा तच्छृणु वच्मि ताम् ॥
हस्तिनापुरमित्यस्ति नगरं तत्र चाभवत् । राजा चमरवालाख्यः कोषदुर्गबलान्वितः ॥
बभूवुस्तस्य समरबलाद्या भूम्यनन्तराः । राजानो गोत्रजास्ते च संभूयैवमचिन्तयन् ॥
अयं चमरवालोऽस्मानेकैकं बाधते सदा । तदेते मिलिताः सर्वे विद्ध्मोऽस्य पराभवम् ॥
इति संमत्रय पञ्चैते तज्जयाय यियासवः । प्रस्थानलनं क्षितिपाः पप्रच्छुर्गणकं रहः ॥
अपश्यन्स शुभं लग्नं पश्यन्नशकुननि च । जगाद गणको नास्ति लग्नं संवत्सरेऽत्र वः ॥
यथा तथा च यातानां न युष्माकं भवेज्जयः । किं चन वोऽनुबन्धेन सम्मृद्धिं तस्य पश्यताम ॥
भोगो नाम फलं लक्ष्म्याः स तस्मादधिकोऽस्ति वः । न चेच्छुता धूयतां तस्कथात्र वणिजोब्रेर ॥
बभूव कौतुकपुरं नामेह नगरं पुरा । तस्मिन्नन्वर्थनामाभूद्राजा बहुसुवर्णकः ॥
यशोवर्मेति तस्यासीत्सेवकः क्षत्रियो युवा । तस्मै दातापि स नृपो नादात्कािचित्कदाचन ॥
यदा यदा च नृपतिस्तेनार्या याच्यते स्म सः । आदित्यं दर्शयन्नेवं तमुवाच तदा तदा ॥
अहमिच्छामि ते दातुं किं पुनर्भगवानयम्। तुभ्यं नेच्छति मे दातुं किं करोम्युच्यतामिति ॥
ततः सोऽवसरं चिन्वन्यावत्तिष्ठति दुःखितः । सूर्योपरागसमयस्तावदत्रागतोऽभवत् ॥
तत्कालं स यशोवर्मा गत्वा सततसेचकः । नृपं भूरिमहादानप्रवृत्तं तं व्यजिज्ञपत् ॥
यो ददाति न ते तुभ्यं दातुं सैष रविः प्रभो । प्रस्तऽद्य वैरिणा यावत्तावत्किचित्प्रयच्छ मै ॥
तच्छुत्वा स हसित्वा च दत्तदानो महीपतिः । ददौ वस्त्रहिरण्यादि तस्मै बहुसुवर्णकः ॥
क्रमात्तस्मिन्धने भुक्ते खिन्नः सोऽदति प्रभौ । मृतजानियैशोवर्मा प्रययौ विन्ध्यवासिनीम् ॥
किं निरर्थेन देहेन जीवतषि मृतेन मे । त्यक्ष्याभ्येतं पुरो देव्या वरं प्राप्स्यामि वेप्सितम् ॥
इत्यग्रे विन्ध्यवासिन्याः संविष्टो दर्भसंस्तरे । तन्मनाः स निराहारस्तपो महतप्यत ॥
आदिशत्तं च सा स्वप्ने देवी तुष्टास्मि पुत्र ते । द म्यर्थश्रियं किं ते किं वा भोगश्रियं वद ॥
तच्छुत्वा स यशोवर्मा देवीं तां प्रत्यभाषत । एतयोर्निपुणं वेद्मि नाहं भेदं श्रियोरिति ॥
ततस्तमवदद्देवी स्वदेशे तर्हि यौ तव । भोगवर्मार्थवर्माणौ विद्यते वणिजावुभौ ॥
तयोर्गत्वा श्रियं पश्य ततो यत्सहशी च ते । रोचिष्यते तसदृशी त्वयागत्यार्यतामिति ॥
एतच्छुत्वा प्रबुध्यैव ख प्रतः कृतपारणः। स्वदेशं कौतुकपुरं यशोवर्मा ततो ययौ ॥
तत्रागात्प्रथमं तावत्सगृह्यनर्थवर्मणः। असंख्यहेमरत्नादिव्यवहाराधितश्रियः ॥
पश्यंस्तां संपदं तस्य यथावत्तमुपाययौ । कृतातिथ्यश्च तेनासौ भोजनाय न्यमज्यत ॥
ततोऽन्नाभुक्तं सघृतं समांसव्यञ्जनं च सः । प्रावृणोचितमाहारं पाश्र्वे तस्यार्थवर्मणः ॥